Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-२ : वसुतेजश्चरित्रम्
| वसुतेजश्चरितम्-तरङ्गः-२ | तस्य सत्पात्रदानस्य; गुणान् कस्तोतुमीश्वरः ? । येन भुक्तिश्च मुक्तिश्च, विस्तीर्णा वसुतेजसः ॥१॥ अस्ति श्रीदत्तसङ्केतं, साकेतमिति पत्तनम् । सरतेजा इति ख्यातो, यथार्थस्तत्र पार्थिवः ॥२॥ देवी भानुमती तस्योपयाचितशतार्पितम् । रत्नराशिमहास्वप्न-सूचितं सुषुवे सुतम् ॥३॥ एतस्मिन् गर्भयातेऽपि वसुभिः शुशुभे गृहम् । वसुतेजा इति पिता, ततस्तस्याभिधां व्यधात् ॥४॥ वर्द्धमानः क्रमाद्विद्या-कलागुणगणैः सह । स नारीनयनानन्द-नन्दनं प्राप यौवनम् ॥५॥ कदाचित् सिद्धपुरुषात्, सत्त्वातिशयतोषितात् । आससाद सदाचारः, स विद्यां बहुरूपिणीम् ॥६॥ इतश्च वत्सविषये, कौशाम्बीनगरीश्वरः । युगबाहुर्बभूवास्य, वल्लभा विमलाभिधा ॥७॥ तत्कुक्षिशुक्तिमुक्तेव, सुता मदनमञ्जरी । कामेनास्त्रं यदासाद्य, मुमुचे चूतमञ्जरी ॥८॥ अन्यदा तद्गुणग्राम-प्रसभाकृष्टमानसः । नाम्ना मङ्गलराजस्तां, ययाचे सीमभूमिपः ॥९॥ पितुस्तद्दानचिन्तासु, शकुनैः प्रातिलोमिकैः । प्रत्यादिष्टः स तां नैव, लेभे विद्यामिवालसः ॥१०॥ संसारसुखसर्वस्व-स्वानुरूपवरार्थिनी । अथ साऽऽराधयामास, रोहिणी भाग्यरोहिणीम् ॥११॥ तुष्टा वरं ददौ तस्यै, साकेतपतिनन्दनम् । एकामेकावली चाऽपि, रोहिणी व्रणरोहिणीम् ॥१२॥
१२
कथारत्नसागरे ततः साकेतनाथोऽपि, देव्यादेशानुसारतः । सुतार्थमर्थयामास, नृपं मदनमञ्जरी ॥१३॥ दुर्वारपौरुषैः सोऽपि, पौरुषेयैरनुहृताः । सुतां विसर्जयामास, स्वयंवरकृते कृती ॥१४॥ अखण्डैस्तस्य सैन्यस्य, प्रयाणैरभिगच्छतः । जाताः सीमान्तकान्तारे, निवासाः सुखभूमयः ॥१५॥ अथ मङ्गलराजस्तां, कामस्य बलिनो बलात् । सैन्यपाथोधिमन्मथ्य, लक्ष्मीमिव समाददे ॥१६॥ वसुतेजोगुणग्राम-प्रकामहतचेतसाम् । स तां प्रसादयामास, मांसलैश्चाटुकर्मभिः ॥१७॥ चाटुभिः कटुभिर्वापि सा तद्वचनवीचिभिः । चक्रे न तोषं रोषं वा, देवशून्य इवाऽऽलयः ॥१८॥ जितकाशितया चैष, व्रजन्निजपुरं प्रति । आवासान् दापयामास, तापसाश्रमसन्निधौ ॥१९॥ प्राप्तसाप्तपदीनाया-स्तापस्याः प्रणयेन सा । असौ पात्राय दातव्ये-त्युक्त्वा मुक्तावलीं ददौ ॥२०॥ तदैव दैवयोगेन, मृगयाकेलिलालसः । वसुतेजाः कुरङ्गेण, तुरङ्गेण च दूरतः ॥२१॥ आकृष्य पाणितस्तस्मिन्नाश्रमे व्यश्रमं व्यधात् । चक्रे मुक्तालताऽऽतिथ्य-मथास्मै सापि तापसी ॥२२॥ (युग्मम्) पृष्टा तदद्भुतप्राप्तौ, कारणं सापि तापसी । चर्या मदनमञ्जर्याः, कथयामास मूलतः ॥२३॥ ततो मङ्गलराजेन, स कुर्वन् कोपगोपनम् । आपृच्छ्य तापसी सेनामन्विष्यन्ननुयायिनीम् ॥२४॥ आसीनः सहकारस्य, मूलभूमावचिन्तयत् । नारीपरिभवं सोढुं, तिर्यञ्चोऽपि सहा नहि ॥२५॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109