Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
मदिरावतीकथा
धर्मः सर्वत्र जागर्ति, सुखिनां सुखहेतवे । इति तावन्मया ज्ञातं जानातु जनकस्तु ते ॥ ६७ ॥ इति श्रुत्वा वचस्तस्या - मत्युज्ज्वलमुखत्विषि । दिशोऽपि विशदीचक्र - वंदनानि समन्ततः ॥ ६८ ॥ अलक्ष्यं स्फाटिकं वेश्म, स्खलनस्येव शङ्कया । स्प्रष्टुं व्यापारयामास पुरस्ताद् भास्करः करान् ॥ ६९ ॥ अथ सौधं तदालोक्य, पौराणां हृदि विस्मयः । प्राचीनाचलमौलौ च तरणिस्तुल्यमुद्ययौ ॥ ७० ॥ भास्करस्फाटिकावास-वासिनौ तौ पुरीजनः । मेने दुग्धाम्बुधेर्मध्ये - कमलाकेशवाविव ॥ ७१ ॥ अथ सर्वत्र धर्मस्य, जाते जयजयध्वनौ । आययौ ज्ञातवृत्तान्तो नृसिंहस्तत्र रंहसा ॥ ७२ ॥ सम्मुखीनागतोत्ताल- प्रतीहारकराश्रितः ।
शनैश्चरण- सञ्चार मारुरोह गृहं नृपः ॥ ७३ ॥ हस्तैरितस्ततः क्षिप्तै- गहमाना नभोन्तरम् । स्खलन्तः सञ्चरन्ति स्म, कथञ्चित्तत्र वेत्रिणः ॥ ७४ ॥ अभ्युत्थाय च जामात्रा, दुहित्रा च कृता नतिः । सिंहासनमलङ्कृत्य, लज्जितः प्राह भूपतिः ॥ ७५ ॥ वत्से ! तत् क्षम्यतां रुक्षं मामकीनं [कु] चेष्टितम् । धर्मस्य फलमुद्दिक्ष्य बोधितोऽहं ननु त्वया ॥७६॥ उपादेयमिदं वत्स ! वचस्ते विदुषामपि । गौरवाय गुणा वाचां न वक्तुर्वदनं पुनः ॥७७॥ इत्युक्त्वा मानयित्वाथ, सुतां जामातरं च तम् । हृष्टो विसृष्टवान् राजा, विद्याधरपुरं प्रति ॥ ७८ ॥
९
१०
असौ स्वपुरमभ्येत्य प्रवेशे तन्निवासिनाम् । दर्शयामास तां धर्म- कल्पद्रुकलिकामिव ॥ ७९ ॥ इति प्राक्तनधर्मस्य माहात्म्यमभिवीक्ष्य ते 1 चक्रतुर्विक्रमं धर्म-कर्मणे दत्तशर्मणे ॥८०॥ इत्येतयोश्चरितमद्भुतमात्मनीनमालोच्य चेतसि विरस्य शरीरभाजः । मोहं विहाय निजबन्धुषु विश्वबन्धोः, स्नेहं मुहुः सुकृतमेव समाचरन्तु ॥ ८१ ॥
कथारत्नसागरे
इति श्रीमलधारिशिष्य श्रीनरचन्द्रसूरिकृतकथारत्नसागरे मदिरावतीचरितं नाम प्रथमस्तरङ्गः ॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109