Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
२२
तरङ्ग-३ : रोहिणीकथा द्वारं नरककूपस्य, मूलं संसारशाखिनः । आह्वानविद्या दुःखानां, सुखं विषयसम्भवम् ॥४७॥ बलिनो दुर्बलस्याथ, निर्विशेषेण रक्षणात् । त्वमेव देव ! निर्व्याजं, प्रजानां जनकोपमः ॥४८॥ त्वत्तोपि यदि भूपाल !, प्रभविष्यति दुर्नयः । उदेष्यन्ति ततो हन्त, तरणेस्तिमिरोदयः ॥४९॥ विडम्बनर्बहिाय्य-मपि वैषयिकं सुखम् । किमुच्यते पुनस्तस्य, न्यायवातिवर्त्तिनः ॥५०॥ इति श्रुत्वा महामोह-तिमिरछिदुरां गिरम् । निपत्य पादयोरुद्यत्-ज्ञानचक्षुरुवाच सः ॥५१॥ त्वमेव भगिनी भद्रे !, त्वं गुरुस्त्वं पिता च मे । नरकावर्तगर्ता य-निमज्जन्नुद्धतस्त्वया ॥५२॥ सुभिक्षभक्षितं लोकै-रहितस्योपदेशिभिः । हितं नु ज्ञातमप्युच्चैः केचिदेव विपश्चितः ॥५३॥ तत्कर्तव्यमिदं सर्व-मुर्वीपतिरिति ब्रुवन् । पूजयित्वा सतीमेता-माययौ निजमन्दिरम् ॥५४॥ अथान्येयुः प्रभूतार्थः, सार्थवाहो धनावहः । रोहिणीवदनालोक-सस्पृहो गृहमागमत् ॥५५॥ गृहागतस्य सा तस्य, हर्षोत्फुल्लैर्विलोचनैः । नीलोत्पलदलश्रेणिमयमय॑मुपाहरत् ॥५६॥ अथाऽसौ सार्थवाहोऽपि कदाचिच्चेटिकामुखात् । राजागमनवृत्तान्तं, शुश्राव श्रवणज्वरम् ॥५७ ।। अचिन्तयच्च राज्ञश्चेद, गता लोचनगोचरम् । मत्प्रिया तत्कथं नाम, शीलं न मुषितं भवेत् ॥५८ ॥
कथारत्नसागरे मार्जारः क्षीरमासाद्य, क्षुधातः खण्डमण्डकान् । निर्धनश्च निधानानि, कथं नाम विमुञ्चति ? ॥५९॥ इत्थमन्तःसमुद्भूत-कुविकल्पमसौ मनः ।। दधौ हुद इवोत्सङ्ग-भृङ्गमम्भोरुहं निशि ॥६॥ अथास्याः शीलमालिन्य-पङ्कप्रक्षालनक्षणम् । करिष्यन्निव निर्व्याज-माजगाम घनाघनः ॥६१॥ विकल्पं रोहिणीभर्तु-स्तर्जयन्निव गर्जितैः । महामोहमयं ध्वान्तं, तडिद्भिस्ताडयन्निव ॥६२ ॥(युग्मम्) अस्याः शीलमयं तेजः, समुत्सर्पतु भूतले । तिरोदधाते स्वात्मान-मितीव शशि-भास्करौ ॥६३ ॥ अथ सप्ताहसम्पन्न-वर्षणोत्कर्षमागतः । उद्यन्मन्दाकिनीपूरः, प्लावयामास मेदिनी ॥६४ ॥ ततः सुरसरित्पूरे, पुरसीमान्तमागते ।। बहिर्वास्तव्यलोकेन, तत्पूरं परिपूरितम् ॥६५॥ परितः परिसर्पन्तं, पुरं वैरिचमूसमम् । समालोक्य महीपालः, पुरद्वाराण्यरोधयत् ॥६६॥ गङ्गातरङ्गै रङ्गद्भिः, प्राकारशिखरोत्तरैः । पुरं प्रलयकालस्य, ग्रासीभूतमिवाभवत् ॥६७॥ लोकैः शोकैकतां यातै-विज्ञप्तः पृथिवीपतिः । प्रेरितो दिव्यवचसा, समाह्वयत रोहिणीम् ॥६८ ॥ अथैतां विहितस्नानां, सितांशुकपरिग्रहाम् । वप्रमारोहयामास, स पौरेः पृथिवीपतिः ॥६९ ॥ इमां विलोक्य त्रैलोक्य-कश्मलक्षालनक्षमाम् । नन्दो मन्दाकिनी मेने, बहिश्चान्तश्च संस्थिताम् ॥७० ॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109