Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 20
________________ २० तरङ्ग-३ : रोहिणीकथा सखि ! साधु त्वया प्रोक्तं, यदयं सुभगाग्रणीः । अभ्यर्थनीयो नारीणां, मामभ्यर्थयते स्वयम् ॥२३॥ न विधेयं तदेतस्य, व्यर्थमभ्यर्थनं त्वया । द्वयोरप्यावयोः किन्तु, शशाङ्कविमलं कुलम् ॥२४॥ ततः प्रच्छन्नमायातु, यामिन्यां वसुधाधवः । दुर्जनानां यतो न स्या-दवर्णमुखरं मुखम् ॥२५॥ इति प्रीतां विधायैनां, प्रसादं पृथिवीपतेः । तत्पाणिपल्लवोत्सङ्गात्, प्रतिजग्राह रोहिणी ॥२६॥ प्रतिप्रसादमादाय, तस्याः साप्यथ दृतिकाम् । नन्दमानन्दयामास, तदीयैर्वचनामृतैः ॥२७॥ वेल्लन पल्लवशय्यासु, व्यथया कथमप्यसौ । तं विनिर्गमयामास, वासरं वत्सरोपमम् ॥२८॥ अथाऽस्य लोकपालस्य, पञ्चमस्याऽनयक्रमम् । समाख्यातुमिवागच्छ-त्तरणिर्वरुणालयम् ॥२९॥ तमोभिर्मनसीवास्य, भूतले मलिनीकृते । विसृज्य स्वपरीवारं, शृङ्गारमकरोन्नृपः ॥३०॥ पाणौ कृपाणमाधाय, सहायं नर्ममन्त्रिणम् । दूतिकादिष्टमार्गेण, स तस्याः सदनं ययौ ॥३१॥ ससम्भ्रमाभिश्चेटीभिः, प्रदत्ताभ्युक्षणः क्षणात् । सिंहासनमलञ्चक्रे, प्रमोदमिव देहिनम् ॥३२॥ इतस्ततः प्रसर्पद्भि-श्चञ्चलैर्लोचनाञ्चलैः । तेन सा वीज्यमानेव, रोहिणी पुरतोऽभवत् ॥३३॥ हर्षादुत्फुल्लमौत्सुक्यात्, चञ्चलं विस्मयाजडम् । भयाद् भङ्गुरमस्याभू-च्चक्षुर्वीक्ष्य मृगेक्षणम् ॥३४॥ कथारत्नसागरे ऐच्छत्तद्देहलावण्य-सुधास्वादाय सादरः । सहस्रेक्षणतां स्वस्य, सहस्रोत्फणतां च सः ॥३५॥ कुरुते यावदालापं, व्यवस्थाप्य गिरं नृपः । तावद् व्यापारयामास, रसवत्यामसौ सखीः ॥३६॥ विशालं स्थालमादाय, पुरतः पृथिवीपतेः । सरसैः पूरयामास, सफलैर्बहुविधैरपि ॥३७॥ अथ सञ्चारयामासु-र्दास्यो रसवतीं पुरः । स्वयमेवाथ राजानं, भोजयामास रोहिणी ॥३८॥ शिक्षिताभिः सखीभिश्च, पानकस्थालिका नवा । आनिन्यिरे नवनवै-र्वसनैः पिहिताननाः ॥३९॥ अथासौ विकसत्तृष्णा-विधुरीकृतमानसः । ययाचे पानकं पातुं, साऽपि तस्मै ददौ मुदा ॥४०॥ नृपो नवनवस्थाली-दर्शनान्नवतां गताम् । श्रद्धां दधानोऽपि परं, स्वादमेकमवाप सः ॥४१॥ ततोऽसौ विस्मयस्मेर-स्तामुवाच नरेश्वरः । मुग्धे ! पिधानैः स्थान-र्वा भिद्यते किमसौ रसः ? ॥४२॥ उवाच सापि भूपालं, विस्मितस्तिमितेक्षणम् । विचारात् ज्ञास्यते कस्य, वसुधाधीश ! मुग्धता ॥४३॥ पिधानस्थानभेदेन, भिद्यते यदि नो रसः । तत्किं ते नव्यनव्यासु रामासु रमते मतिः ? ॥४४॥ रूपवेषविशेषेण, क्षोणीश ! मृगचक्षुषाम् । भेदं भजति किं नाम, कोपि वैषयिको रसः ? ॥४५॥ यथा नाम्भोभिरम्भोधि-रिन्धनैर्न धनञ्जयः । तथैव जीवास्तृप्यन्ति, न सुखैर्विषयोद्भवैः ॥४६॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109