Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
तरङ्ग-२ :
वसुतेजश्चरित्रम्
गृह्णाम्यह्नाय तत्तस्मादिमां हृदयवल्लभाम् । करिष्ये परमेतस्याः, स्वानुरागपरीक्षणम् ॥ २६ ॥ अस्मिन्न भस्मनि हुतं, विक्रान्तं येन मे भवेत् । इति निश्चित्य तां विद्यां सस्मार बहुरूपिणीम् ॥२७॥ (कलापकम् )
ततस्तदनुभावेन, वामनं रूपमास्थितः । ययौ मदनमञ्जर्याः, निवासं नृपनन्दनः ॥२८ ॥ विस्मरस्मेरहेलाभि-स्तन्महेलाभिरप्यसौ । मुदा मदनमञ्जर्याः, पुरतः प्राभृतीकृतः ॥ २९ ॥ प्रेमपूर्वमथापृच्छद् वत्सेश्वरसुतापि तम् । कुतो भवान् समायातः ? साकेतादिति सोऽब्रवीत् ॥३०॥ ततः समं समुद्भूत-हर्ष- शोकसमाकुला ।
प्रातः सन्ध्येव सा जज्ञे तेजस्तिमिरकर्बुरा ॥३१ ॥ निवेदयितुमस्यैव, मनसो मन्मथव्यथाम् । अहंप्रथमिकां चक्रुः, श्वासाः प्रसरणं प्रति ॥ ३२ ॥ तं जीवितेशं सन्त्यज्य किमन्यैर्बत वीक्षितैः । इतीव नयने तस्याः, रुरुधे बाष्पपद्धतिः ॥ ३३ ॥ अथासौ रचिताऽशेष - हर्षचिह्नविनिह्नवः । तामुवाच दशा कस्मा - दकस्मादीदृशी तव ? ॥३४॥ बाष्पकुण्ठितकण्ठायां तस्यां तूष्णीकताजुषि । उवाच वामनः स्मेर- स्मितस्तबकिताधरः ॥ ३५ ॥ अस्वास्थ्य कारणं ज्ञात माश्रमे तावकं मया । इदं मङ्गलराजेन वसुतेजोवियोजनम् ॥३६॥ परं निरूपितं रूपं शतशो वसुतेजसः । मया मङ्गलराजस्य, किञ्च तस्यापि भूरिशः ॥३७॥
१३
१४
कथारत्नसागरे
द्वयोस्तुलितयोस्तत्र विमर्शे प्रतिभाति मे । अस्य मङ्गलराजस्य, सौभाग्यं किञ्चिदद्भुतम् ॥३८॥ ज्ञातं विचारचातुर्य-मियतापि मया तव । दृष्टरूपानुरागेऽस्मिन् मुग्धे स्निग्धासि यन्न हि ॥ ३९ ॥ दृष्टमर्थं परित्यज्य श्रुतार्थमभिधावताम् ।
मुनीनां जनता हास्य- संविभागस्त्वया कृतः ॥४०॥ निवर्तस्व ततोऽमुष्मा - दुराग्रहपरिग्रहात् । इदं स्मर्त्तव्यमव्यग्रं, पश्चादपि हि मे वचः ॥ ४१ ॥ एवं वदति सा तत्र, कोपप्रस्फुरिताऽधरा । यावन्निर्भर्त्सयत्येनं वामनं मुखराननम् ॥ ४२ ॥ तावदाविर्बभूवोच्चैर्वाचालितदिगन्तरः । अकस्माद्विस्मयं कुर्वन्, कोऽपि कोलाहलध्वनिः ॥ ४३ ॥ कथ्यतां कथ्यतां तथ्यं भो ! भोराश्रमवासिनः । वसुतेजाः क्व नामेदं, सैन्यमन्विष्यति प्रभुम् ॥ ४४ ॥ उन्मिमील मनस्तस्या - स्तन्नाम्नि सहसा श्रुते । नामसाम्यस्य शङ्कायां क्षणेन निमिमील च ॥ ४५ ॥ अथोवाच वचस्तस्याः, स विदित्वा मनोमनः । नाऽन्यथा शङ्कनीयं ते यदहं तस्य वल्लभः ॥४६ ॥ गत्वाऽहं तत्करिष्यामि यथा तव मनोरथाः । फलिष्यन्तीति तामुच्चै - रानन्दं वामनोऽगमत् ॥ ४७ ॥ ततः सैन्यं च रूपं च स्वमास्थाय नृपात्मजः । दूतमुन्मीलिताकूतं प्राहिणोदपहारिणे ॥४८ ॥ विसृज्याऽवज्ञया दूतमुद्भूताद्भूतमत्सरः ।
युद्धश्रद्धो निजानीकं स मानी समनीनहत् ॥ ४९ ॥ अथाकर्ण्य स्वदूतस्य वचनं वसुतेजसा । प्रयाणभेरीभाङ्कारैः, वैरिवारस्तिरोदधे ॥५०॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109