Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________
मदिरावतीकथा
वल्लभाः सुलभाः स्त्रीणामिह प्रतिभवं भवे ।
पतिव्रताव्रतं किन्तु चिन्तायामपि दुर्लभम् ॥४४॥ सुखं विषयसम्भूतं, गोष्पदप्रतिमं प्रभो ! । शीलपालनसम्भूत-मम्भोनिधिनिभं पुनः ॥ ४५ ॥ एकः खलु कुलस्त्रीणां कारणं शर्मधर्मयोः । यादृशस्तादृशो वाऽस्तु, पतिः परमदैवतम् ॥४६ ॥ विलास-हास-शृङ्गार-सुख - दुःखादिसम्पदः । प्राणा अपि कुलस्त्रीणां, पतिवर्त्मानुवर्त्तिनः ॥४७॥ यथा तडित्तडित्वन्त-मात्मानं चेतना यथा । तथा कुलवधूः स्वामिन्!, भर्त्तारमनुगच्छति ॥ ४८ ॥ यदि त्वदेकशरणं, सर्वथैव मनो मम । तद्देवतानुभावेन, भावी त्वं दिव्यदेहभाक् ॥४९॥ अधर्मो बलवानेतत् करिष्यत्यथवाऽन्यथा । तत्रासहिष्णुरस्त्येव, वह्निर्विधुरबान्धवः ॥५०॥ तस्मात् प्रसादमाधाय मा वोचस्तदिदं पुनः । इत्युक्त्वा प्रणिपत्यापि, यावदालोकते पुरः ॥ ५१ ॥ तावन्मणिमयाऽतुल्य-पल्यङ्कविहितासनम् । प्रभामण्डलमध्यस्थं पुरः स्मरमिवैक्षत ॥ ५२ ॥ धूपवर्त्तिभवद्धूम-सूत्रिताम्भोदविभ्रमे । रत्नचामरदण्डोद्य-दीप्तिस्फुरितविद्युतिः ॥५३॥ ताम्बूलवाहिनी - भग्नपत्र - 'स्फुटचमत्कृतौ । सहुङ्कारप्रतीहार-वारितद्वारवर्त्मनि ॥५४॥ १. स्फुटंटसत्कृतौ - C । स्फुटरसत्कृति-D ॥
८
कथारत्नसागरे
स्फाटिके स्थितमात्मानं मन्दिरे मदिरावती । पश्यन्ती विस्मयस्मेरं चिन्तयामास चेतसि ॥५५ ॥ (त्रिभिर्विशेषकम् ) किमिदं मत्परीक्षार्थे, देवतायाः प्रतारणम् ।
किं वा मूर्तोऽभवत्पूर्वं विकल्पः कल्पितो मया ? ॥५६ ।। अथाऽसौ विस्मयाशङ्का-वितर्कव्याकुलामिमाम् । उवाच हासयन्नाशाः, काशाभैर्दशनांशुभिः ॥ ५७ ॥
त्वं मा स्म विस्मयं कार्षीः शृणु सुश्रोणि ! मे वचः । अस्ति वैताढ्यशिखरे, पुरं गगनवल्लभम् ॥५८॥
प्रभुः प्रभञ्जनो नाम, तत्र विद्याधरेश्वरः । कृपाणपाणिः सत्त्वेन, सद्वितीयः कदाप्यसौ ॥५९॥ कौतुकाद् वीरचर्यायां विचरन्नगरान्तरे । विद्यामठगवाक्षस्य विश्रान्तस्तलभूतले ॥ ६० ॥ अग्रतः शिष्यवर्गस्य, गुरुणा प्रतिपादितम् । श्रवणोत्तंसतां निन्ये श्लोकमेकं महीपतिः ॥६१ ॥तद्यथा
सर्वत्र वायसाः कृष्णा, सर्वत्र हरिताः शुकाः ।
सर्वत्र दुःखिनां दुःखं, सर्वत्र सुखिनां सुखम् ॥६२॥ अथात्र तुर्यपादार्थ - घटनायाः परीक्षणम् । करिष्यन्मन्त्रिणां वर्गे, राज्यभारं न्यवेशयत् ॥ ६३ ॥ सोऽहं विद्याप्रभावेन तादृशं रूपमास्थितः । पतितो नगरीद्वारे, प्राप्तस्त्वत्तातपुरुषैः ॥६४॥ ततस्ते सत्त्वसर्वस्वं परीक्ष्य क्षणमात्रतः । विद्याप्रसादात् प्रासाद-प्रमुखं निर्मितं मया ॥ ६५ ॥ सत्त्वमत्यद्भुतं सद्यः फलेग्रहि तवाऽभवत् । जानासि साम्प्रतं देवि ! यत्त्वं विद्याधरेश्वरी ॥ ६६ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109