Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 11
________________ कथारत्नसागरे ॥ ॐ नमो जिनाय ॥ कथा थारत्नसागर आनन्दद्रुमकन्दलाः सुचरितश्रेणिपताकाञ्चलाः, क्षुद्रोपद्रवतान्तिशान्तिकविधौ व्यापारिवारिच्छटाः । ब्रह्मज्ञानमहःस्फुलिङ्गततयः श्रीवल्लरीपल्लवाः, श्रीनाभिप्रभवप्रभुक्रमनखज्योत्स्नाङ्कराः पान्तु वः ॥१॥ मृगाङ्कमूर्तिर्दुरितान्धकारप्रशान्तये शान्तिजिनः स वोऽस्तु । व्यधायि यद्वाक्सुधया नु कर्णयोः पथि व्रजन्त्याऽप्यजरामरं जगत् ॥२॥ श्रीवर्द्धमानप्रभुरस्तु वः श्रिये, श्रयन्नपूर्वां भुवनैकमित्रताम् । यः कौशिकस्यापि विलोचनोत्सवम्, चकार चण्डत्वमगाच्च न क्वचित् ॥३॥ शिष्यो हर्षपुरीयगच्छसवितुः श्रीमन्मुनीन्द्रप्रभोर्देवानन्दमुनीन्द्र पाणिकमलोन्मीलन्प्रतिष्ठोदयः । श्रीदेवप्रभसूरिवाङ्मयमहाभैषज्यशाम्यन्मनश्चन्द्रश्रीनरचन्द्रसूरिरुदयी प्रीणाति विश्वम्भराम् ॥४॥ पीयूषबन्धुरतरास्तरसा निहत्य हालाहलं समदवादमयं बुधानाम् । चौलुक्यभूमिपतिसंसदि यस्य वाचः, केषां न चेतसि मुदं मदयांबभूवुः ? ॥५॥ इतश्चप्राग्वाटान्वयमण्डनः समजनि श्रीचण्डपो मण्डपः, श्रीविश्रामकृते तदीयतनयश्चण्डप्रसादाभिधः ॥ सोमस्तत्प्रभवोऽभवत् कुवलयानन्दायतस्यात्मभू, राशाराज इति श्रुतः श्रुतरहस्तत्त्वावबोधे बुधः ॥६॥ तजन्मा वस्तुपालः सचिवपतिरसौ सन्ततं धर्मकर्मालङ्कर्माणैकबुद्धिर्विबुधजनचमत्कारि चारित्रपात्रम् । प्राप्तः सङ्घाधिपत्वं दुरितविजयिनी सूत्रयन् सङ्घयात्रां, धर्मस्यौज्वल्यम[T]धात् [स हि मलिनकले:?] कालिमानं विलुप्य ॥७॥ अन्येद्युभक्तितो मौलौ निधाय करकुड्मलम् । तेन विज्ञापितः श्रीमान्नरचन्द्रमुनीश्वरः ॥८॥ युष्माभिः स्वकराम्बुजस्य शिरसि न्यस्तस्य माहात्म्यतः, प्राप्तं जम्भजितापि दुर्लभतरं सङ्घाधिपत्यं मया । धर्मस्थानशतानि दानविधयस्ते ते च सन्तेनिरे, चेतः सम्प्रति जैन शासनकथाः श्रोतुं समुत्कण्ठते ॥९॥ इत्यभ्यर्थनया चक्रुर्वस्तुपालस्य मन्त्रिणः । नरचन्द्रमुनीन्द्रास्ते श्रीकथारत्नसागरम ॥१०॥ १. इद तु ध्येय - मङ्गलाचरणस्य एतद् वृत्तदशकं केवलं प्रतावेव विद्यते॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109