Book Title: Kadambari Part 02
Author(s): Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 24
________________ I 1 चोपालम्भस्य हेतुतां नीतोऽस्मि । मन्ये च ममापि मनोव्यामोहकारी कोऽपि शाप एवायम् । अन्यथाऽप्रबुद्धबुद्धेरपि येषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु मदनचिह्वेषु कथं मे धीर्व्यामुह्येत । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकितकथितविहृतलीलालज्जायितानि यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममकृतपुण्यस्य मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् ? अपि च हिमगृहकवृत्तान्तस्तु तवापि प्रत्यक्ष एव । तत्किमत्र प्रणयकोपाक्षिप्तयाप्यन्यथा व्याहृतं देव्या ? सर्व एवायं विपर्ययान्मम दोषः । तदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि यथा नेदृशमेकान्तनिष्ठुरहृदयं जानाति मां - *** भावः । विचारणान्तरं प्रदर्शयन्नाह मन्य इति । अहमिति मन्ये संभावयामि । इतीति किम् । ममायं कोऽप्यनिर्वचनीयो मनसश्चित्तस्य व्यामोहं वैचित्त्यं करोतीत्येवंशीलः शाप एव विरुद्धाशीर्वचनमेव । उक्तवैपरीत्ये आह- अन्यथेति । शापाभावेऽप्रबुद्धाऽजाग्रद्रूपा बुद्धिः प्रतिभा यस्यैवंविधस्य । मूर्खस्यापीत्यर्थः । येषु स्फुटेषु विशदेषु मदनचिह्नेषु कामलक्षणेषु सदेहो द्वापरो नोपपद्यते न जायते । एतानि दुःखजनकान्येवेति निश्चय एवोत्पद्यत इति भावः । तेष्वति । मदनचिह्नेष्वपीत्यर्थः । कथं मे मम धीर्बुद्धिर्व्यामुह्येत व्यामोहं व्रजेत् । तिष्ठन्त्विति । तावदिदानीं तानि स्मितमीषद्धास्यम्, अवलोकितं वीक्षितम्, कथितं जल्पितम्, विहृतमितस्ततो गतम्, लीलया विलासेन लज्जायितानि त्रपयाचरितानि । एतान्यतिसूक्ष्मतया निकृष्टतया । अत एव दुर्विभावा दुर्ज्ञेया वृत्तिर्येषामेवंभूतानि तिष्ठन्तु । एतादृशनिकृष्टचिन्तयाऽलमित्यर्थः । तानि कानीत्याह - यानीति । यानि पूर्वोक्तानि । अन्यथापि स्नेहव्यतिरेकेणापि संभवन्ति । उपपद्यन्त इत्यर्थः । स्वस्मिंस्तस्याः स्नेहं प्रदर्शयन्नाह - चिरेति । चिरं चिरकालमनुभूतः प्राप्तो य आत्मनः स्वस्य । अर्थात्कादम्बर्याः । कण्ठसंसर्गो निगरणसंपर्कस्तेन सुभगं मनोहरमिमं प्रत्यक्षगतं हारं मुक्ताप्रालम्बं तत्क्षणमेव तस्मिन्समय एवाकृतमविहितं पुण्यं सुकृतं येनैवंविधस्य मे मम कण्ठे गले कारयन्त्या प्रक्षेपयन्त्या । सखिद्वारेति शेषः । किमिव नावेदितं किं न ज्ञापितम् । अहं त्वदर्थिनीति तदैव ज्ञापितमिति भावः । अपि चेति । अपि च प्रकारान्तरे । हिमगृहकस्य नीहारवच्छीतलसद्मनो वृत्तान्त उदन्तस्तवापि भवत्या अपि प्रत्यक्ष एव विदित एव । न केवलं ममैवेति भावः । तदिति हेत्वर्थे । अत्रेति । अस्मिञ्जने प्रणयः स्नेहस्तेन तस्माद्वा यः कोपः क्रोधस्तेनाक्षिप्तया प्रेरितया देव्या कादम्बर्या किमन्यथा व्याहृतम् । तदलमनया तदानयनकथयेत्यात्मकमित्यर्थः । सर्व इति । अयं सर्व एव समग्र एव विपर्ययादज्ञानान्मम दोषो वैगुण्यम्, न तु तत्त्वतः । तदिति । तत्तस्माद्धेतोरधुनाहं तथा करोमि रचयामि यथा देवी कादम्बरीदृशमेकान्तेनातिशयेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधं मां न जानाति । - (चन्द्रापीडस्यानुतापः **** टिप्पo - 1 'अनेन दुःशिक्षितेन' इत्यारभ्य 'नीतोस्मि' इति पर्यन्तस्य दुरूहवाक्यस्य अन्वयानुसारिणीयं व्याख्या अन्तर्गतविकारस्य ( कामवासनायाः ) आवेदनाय भगवता मनोभवेन मामुद्दिश्य बाला ( कादम्बरी) अनेकप्रकारं यद्यदेव (चेष्टादिकम् ) बलात् कार्यते, तत्तदेव अदृष्टपूर्वत्वात्, दिव्यकन्यकानां रूपस्यानुरूपा सेयं लीलास्तीति संभावनया, एतावतो मनोरथस्य आत्मन उपर्यसंभावनया ( कादम्बर्या एतावानभिलाषो मदुपरि स्यादिति न मे संभावनेत्याशयः), च विकल्पसंशययोर्दोलामधिरूढंमाम् 'सर्वमेव एतत् अस्याः सहजमेव (मनोवेदना विभ्रमादिकं वा यद्यत् प्रकाशितं तत्तत् स्वाभाविकमेव, न तु मद्विषयकम् ) ' इति ग्राहयता (बोधयता) दुःशिक्षितादिविशेषणविशिष्टेन मूढहृदयेन एवमीदृशस्य देव्याः (काद०) दुःखस्य तव चोपालम्भस्य हेतुतां नीतोऽस्मि । कामप्रणोदिता या याश्चेष्टा मयि कादम्बर्या कृतास्ताः सर्वा न मामुद्दिश्य, इति मूढहृदयेन मह्यं बोधितम् । अत एव देव्या दुःखं तव चायमुपालम्भो जात इति सर्वस्याशयः । एतदनुसारेणैव मूलपाठो ज्ञेयः । टीका चानुसंधेया । पाठा० - १ तेष्वतिस्फुटेषु. २ वियुज्यमानाः. उत्तरभागः । 497

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 246