________________
द्विसम्धानमहाकाव्यम्
काष्ठां गिलन्तीव भुवं वियच्च भित्वा व्रजन्तीव मनो जनानाम् । विदारयन्तीव वचस्यवोचत् सामान्यवृत्तिः स महानियोगात् ॥ २७ ॥ काशमिति - सा रावणस्वसा वचांस्यवोचत् । कथम्भूता ! अमान्यद्वृत्तिः न मान्या वृत्तिर्यस्या असौ निन्द्याचारेति । कस्मात् ? समहा नियोगात् शम्बुकुमारविरहो लक्ष्मणसम्भोगवैयर्थ्यमिति युगपद्धानिसम्बन्धात् । किं कुर्वाणेन ? काठां दिशं गिलन्तीव वजन्तीव । गच्छन्तीव । किं कृत्वा ? पूर्व भिला विदार्य | काम् ? भुवं पृथ्वीं वियच्च गगनञ्च । पुनः जनानां मनः विदारयन्तीव ।
ર
भारतीयः - स कीचकः वचांस्यवोचत् । कथम्भूतः १ सामान्यवृत्तिः साम्नोऽन्यो दण्डः तस्मिन् वृत्तिः वर्त्तनं यस्य सः । कस्मात् ? महानियोगात् गुरुतर निबन्धात् । किं कुर्वन्तीव वचांसि ? काष्ठां गिलन्तीवेत्यादि द्वितीयाचहुवचनान्तानि वचांसीत्यस्य विशेषणानि समानार्थानि प्राग्वत् ॥ २७ ॥
नात्यातं प्रतियुज्य चाचा बहुप्रलापिन्नपयाति जीवन् ।
भवानभिज्ञः खरदूषणस्य नाद्यापि युद्धेषु पराक्रमस्य ॥ २८ ॥
नेति - हे बहुप्रलापिन् लक्ष्मण जीवनापयाति नापसरति । कया ? वाचा वचनेन । किं कृत्वा ? पूर्व प्रतियुज्य प्रविधाय | कम् ? अपत्यधातं पुत्रवधम् । यतोऽद्यापि साम्प्रतमपि अभिशो न कुशलो न भवति भवान् । केषु खरदूषणस्य युद्धेषु रणेघु । खरदूषणं समाहारापेचयैकत्वम् । कथम्भूतस्य ? पराक्रमस्य परान् शत्रून् आक्रमतीति पराक्रमः तस्य ।
भारतीयः - हे बहुप्रलापिन् हे भीम वाचा कृत्वा जीवन्नापयाति । किं कृत्वा ? पूर्व प्रतियुज्य सम्बध्य | कम् ? घातं वधम् । किं कृत्वा ? पूर्वमापत्यासत्य | पत्माकारणात् जयापि नाभिज्ञः न प्रारंभः ।
अन्वय - अमान्यवृत्तिः काष्ठां गिलन्तीय, भुवं वियच्च भित्वा ब्रजन्तीव जनानां मनो विदारयन्ती सा समहानियोगात् धर्चासि अवोचत् ।
निन्दनीय आचरणमें लीन वह सूर्पणखा दिशाओंको निगलती हुई के समान, पृथ्वी और आकाशको नष्ट करके भागती हुई के तुल्य तथा लोकोंके मनोंको फाड़ती हुई सी एक ही साथ दो-दो (पुत्र-मरण, प्रिय-द्वारा तिरस्कार) हानि होनेके कारण लक्ष्मणसे बोली थी ।
अन्वय - सामान्यवृत्तिः स महानियोगात्... 1
राजाके द्वारा भी दण्डनीय आचरणशील वह कीचक अत्यन्त आसक्त होनेके कारण दिशाओं में व्याप्त, पृथ्वी और आकाशको एकमेक करनेवाले तथा लोकोंके हृदयों को दद्दलाते वचन बोला था || २७ ॥
अन्य - बहुप्रलापिन अपव्यघातं प्रतियुज्य वाचा जीवन् नापयाति । युद्धेषु अद्यापि पराक्रमस्य खरदूषणस्य भवान् अभिज्ञः न ।
भरे बहुत बोलनेवाले लक्ष्मण ! मेरे पुत्र शम्बुकुमारको मारकर केवल बातें बनाकर ही जीवित वापस न जा सकोगे। युद्धोंमें आज भी शत्रुओंपर टूटनेवाले खरदूषणको आप जानते नहीं हैं !
अन्वय-- बहुप्रलापिन् ! आपत्य वाचा वातं प्रतियुज्य जीवन् न अपयाति भवान् अद्यापि युद्धेषु पराक्रमस्य खरदूषणस्य अभिज्ञः न ।
भरे व्यर्थ ही बड़बड़ानेवाले ! अकस्मात् आकर कोलाहल द्वारा मेरे इष्ट कार्य में बाधा डालकर जीवित वापस नहीं जा सकते हो आज भी आप नहीं जानते हैं कि
१. श्लेषाऽलङ्कारः - प० द० ॥