Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 340
________________ सप्तदशः सर्गः ३२५ पुरत इति — पुरतोऽग्रतः स्थितं वस्तु कोऽपि जनो नाभ्यचायत नेक्षितवान् तथाच परिचितं लब्धमनुभवगोचरमित्यर्थः क्व ? क्वापि कस्मिंश्चित् स्थाने, क इवोत्प्रेक्षित ? जात इव कथम्भूतः ? निकटतिमिरातेक्षणः आसन्ततिमिराभिभूतलोचनः तथा धनमदान्ध इवोत्प्रेक्षितः क्वचनापीति शेषः ||३४|| इति दिविमूढमिव तत्र गिरिषु दरिषु स्खलत्पतत् । व्याप हृतमिव तमस्तमसा तदशेषमग्रजवपूरणोद्यतम् ||३५|| इतीति--तम रूपालान् किमिवोत्प्रेक्षितं तमः ? तमसा कोपेन हृतमिव गृहीतमिव किं कुर्वत् ? पतत् अंशमानम्, कासु दरिषु गर्तासु तथा किं कुर्वत् ? गिरिषु पर्वतेषु स्खलत् किमिवोत्प्रेक्षितम् ? दिग्विमूढमिव भ्रान्तमिव का ? तत्र रणे, कथम् ? इत्युक्तप्रकारेण कथम्भूतमग्रजवपुः रणोद्यतम् पुनरशेषं समस्तम् । ? भारतीयः - तमः तत् अशेषं जगत् व्याप, कथम्भूतं तमः ? अग्रजवपूरणोद्यतम् अग्रजवं प्रमानवेगं पूरयति पुष्टीकरोति अग्रजवपूरणः, तत्र उद्यतम् उद्यमो यस्य तत् किमिवोत्प्रेक्षितम् ? तमसा हृतमित्र, शेषं प्राग्वत् ।। ३५ ।। मिलिताङ्गदंपतिसुखाय सहितजनकीयनन्दनम् । व्योम्नि गमनमकृत त्वरितः स शनैरवाल्लघुरयाच्च मारुतः || ३६ || मिलितेति - स मारुतो मरुतोऽपत्यं पुमान् मारुतो हनुमान् पतिसुखाय लक्ष्मणसुखार्थं व्योम्ति गगने लघुरयात् शीघ्रवेगात् त्वरितगमनम् अकृत कृतवान् कथम्भूतात् लघुरयात् ? शनैरवात् प्रच्छन्दा ध्वनेः, कथम्भूतं गमनम् ? मिलिताङ्गदं मिलितः अङ्गदो यस्मिन् तत् पुनः सहितजनकोयनन्दनं सहितः जनकीयनन्दनः भामण्डलो यस्मिन् तत् । भारतीय:- स मारुतो वायुः व्योम्ति नभसि शनैरवात् मधुरध्वनेः मिलिताङ्गदम्पतिसुखाय संश्लिष्टदयिताप्राणनाथप्रमोदार्थं गमनम् भयात् वहति स्मेत्यर्थः कथं गमनम् ? सहितजनकोयनन्दनं जनानाम् इदं जनकीयं सहहितेन वर्तते सहितम्, जनकीयं च तनन्दनं च जनकीयनन्दनं सहितं जनकीयनन्दनं यस्मात् तत् कथम्भूतो मारुतः ? अकृतत्वरित: अकृतं त्वरितं वेगो येन सः पुनः लघुमंन्दः मयूरपिच्छभेदीत्यर्थः ॥३६॥ सम्पत्ति के अभिमान से प्रभ्धे ( तूर ) व्यक्ति के समान आँखोंपर छाये गाढ़ अन्धकार के कारण कोई भी व्यक्ति कहीं पर भी सामने रखे अथवा अत्यन्त परिचित पदार्थको भी नहीं देख पाता था [ सम्पत्तिके गर्वसे चूर व्यक्ति भी पुराने परिचित और सामने आये सुपरिचित सम्बधियों को भी नहीं पहचानता है ] ॥३४॥ दिशाओंके ज्ञानसे हीन व्यक्तिके समान रखभूमिमें पहाड़ोंपर लड़खड़ाते तथा अभिभूत तथापि युद्धके लिए तैयार अग्रज " गुफाओं में गिरते सर्वत्र व्याप्त अन्धकारने क्रोधसे (राम) के शरीरको भी प्रभावित कर दिया था [ पाण्डव पक्ष अन्धकारने प्रधान रूपसे (अ) युद्धके वेगकी ( जब) पूर्ति करने में ( पूरण) लगे तथापि श्रन्धकारके कारण निष्क्रिय परम ब्रह्म ( अशेष) कृष्णजीको भी प्रभावित किया था ] ॥३५॥ स्वामी (लक्ष्मी) को स्वस्थ करनेके लिए पवन के पुत्र हनुमानजीने शीघ्र १. अशेषं ब्रह्माणमिति । २. मिथितं संष्टिं भङ्गं शरीरं यस्य सः जरासन्धः तस्य दम्पति । ३. "ट शरीर स्त्री पुंस सुख निमित्तं" प० । ४ शरीररमणीरमण सुखनिमित्तं द० । ४. प्राप्तवानूप० द० 1

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419