Book Title: Dvisandhan Mahakavya
Author(s): Dhananjay Mahakavi, Khushalchand Gorawala
Publisher: Bharatiya Gyanpith
View full book text
________________
२३५
प्रयोदशः सर्गः सारङ्गद्ध संगतसत्त्वैरथयुक्तं रम्यं राजच्छत्रवितानैर्बहुफेनैः।
बद्धोत्सेधं नीरविशालं नृपमार्ग गच्छन्गङ्गासागरसङ्गं स्मरति स्म ॥१०॥ सारङ्गेति-स दूतः गङ्गासागरसंगं स्मरति स्म सुरसरित्सरित्सतिसङ्गमम् अचिन्तयत्, किं कुर्वन् ? गच्छन् अयमानः, कम् ? नृपमार्ग राजपदवीम् , कथम्भूतम् ? सारगड़ गजेन्द्रसमृद्धम् , पुनःरययुक्तं स्यन्दनसमन्वितं पुनः रम्यं रमणीयम् , कैः ! संगतसत्त्वैः सं समीचीनं न्यायमार्गानुयायि गतं गमनं येषां ते संगताः संगताश्च ते सत्वाश्च संगतसस्वास्तैः नीतिमार्गानुसारिभिः प्राणिभिः शिष्टजनै रित्यर्थः, पुनः बद्धोत्सेधं बद्ध उत्सेधो यत्र स बद्धोत्सेधस्तं विरचितशोभमित्यर्थः, कै? राजच्छत्रवितानैः नरेन्द्राणामातपत्रसमूहः अथवा छत्राणि च वितानानि च छत्रवितानानि राजन्ति च तानि छत्रवितानानि राजच्छबवितानानि तैः शोममाना तपधारणचन्द्रोपकैरित्यर्थः, कयम्भूतैः ? बहुपनैः फेन कल्पैः डिण्डीरपिण्डसदृशैरित्यर्थः, शुभ्रत्वाच्छवाणां वितानानां च पुनरपि कथम्भूत राजमार्गम् ? नीरविशाल निर्गतो रविर्यस्मात् स नीरविः नीरधिः शालो यत्र स नीरविशाल व निर्गतसूर्यप्राकार शारभ्योच्चशगंगनमार्गविलमत्वादबहि:स्थित दिनकरमित्यर्थः, अपशब्दः प्रकारान्तरसूचकः, कथम्भूतं गङ्गासागरसङ्गम् ? सारङ्गई चातकाढयम् , पुनः कथम्भूतम् ! सङ्गतसत्त्वैः मिलितमीनमकरादिजीवैः युक्तम् , पुनः रम्यं मनोहरम् , पुनः राजछत्रवितानैः राजत् छत्रवत् वितानं येषां तैः, बहुपनैः प्रचुर डिण्डी रैः बद्धोत्सेधम् , पुनः कथम्भूतम् ? नीरविशालं नीरवीनां जलविहङ्गमानां शालो यत्र तम् ॥१०॥
सांध्यं रागं रत्नमयूखैर्विदधानं क्षीराम्भोधेः सैकतमुद्यन्मकरीकम् । संह पीठं निर्जयदास्थायुकमुच्चैरक्षोभीतं मागधसेव्यं च्यलुलोकत् ॥११॥ ___ सांध्यमिति-स हनूमान् तं रावणं व्यललोकत् अपश्यत् , कथम्भूतम् ? रक्षोभीतं रक्षोभिः परिवारितम् , पुनः मागधसव्यं वन्दिनामास्तोतव्यम्, पुनः सैंह सिंहानाभिदं सैंह पीटमासनं सिंहासनमित्यर्थः, आस्थायुकम् आस्थितम्, कथम्भूतं पीठम् ? उच्चकैः उन्नतम्, किं कुर्वाणम् ? रत्नमयूखैः कृस्वा सांध्यं संध्याभवं रागं विदधानम्, पुनः क्षीराम्भोधेः दुग्धसमुद्रस्य सैकतं सिकतामयप्रदेशं निर्जयत् न्यक्कुर्वाणम्, कथम्भूतं सत् ? उद्यनाकरीकम् उद्यन्त्यो मकर्यो यत्र तत् ।
भारतीयः स दूतः मागधसेव्यं मागधानां क्षत्रियविशेषाणां सेव्यं तं जरासन्धं व्यलुलोकत् , कथम्भूतो दूतः १ अक्षोभी निःक्षोभः, कथम् ? उच्वैरतिशयेन, कथम्भूतं जरासंधम्, सैंहं पीटम् आस्थायुकम् , अन्यत् समम् ॥११॥
दीर्घन्यस्तं हस्तमधिष्ठायुकमीषत् पीठीवद्धालाननिषण्णद्विपशोभम् । भूभृच्चूडाकोटिषु पादं निदधानं रागाक्रान्तं भानुमियोच्चैरुदयस्थम् ॥१२।।
कुलकेन व्याख्यास्यामः, दीर्घति-स हनूमान् तं रावणमवोचत् , कथम्भूतम् ? अधिष्ठायुकम् अवष्टभ्योपविष्टम्, कम् ? हस्तम्, कथम्भूतम् ? दीर्धन्यस्त दीर्थे न्यस्तः दीर्धन्यस्तस्तम् , कथम्भूतं रावणम् ! ईषत्पीठीबद्धालाननिषण्णद्विपशोभम् ईप्रत्पीच्या वेदिकायां पूर्व निबद्धः पश्चादालाननिष्णाः स चासो द्विपश्च तस्येव
हाथियोंसे व्याप्त, यथास्थान बँधे सिंहादि प्राणियोंसे सुन्दर, रासे युक्त, घने फेनके समान राजाओंके छात्रों के कारण चँदोवा युक्त पक्के बने लम्बे ऊँचे तथा पानीसे धुले राजमार्गसे जाते हुए हनुमान या श्रीशैलको गंगा तथा समुद्र के संगमकी याद आयी थी [ संगम भी चातकोंसे व्याप्त है, एकत्रित मीनादि प्राणियोंसे रम्य होता है, सुन्दर छत्रोंके समान फेन राशिसे युक्त तथा गहरा और जलचर, पक्षियोंके गतागतसे युक्त होता है ] ॥१०॥
सब तरफ जड़े हुए रत्नोंकी किरणोंसे संध्याकी लालिमाको फैलाते हुए, उछलती हुई मकरियांसे युक्त क्षीरसागरके सैकतके विजेता, उन्नत सिंहपीठपर विराजमान, राक्षसोंसे घिरे तथा बन्दियों के द्वारा प्रशंसित रावणको हनूमानने देखा था [- क्षोभहीन स्थिर तथा मगध देशके लोगोंसे सेवित उस जरासंधको श्रीशैलने देखा था ] ॥११॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419