Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 193
________________ ४६० द्वादशारजयकम् [विधिनियमारे भाषाप्राणापानमनःकर्मयोग्यानामग्रहणान्तरितानां ग्राह्याणामुत्तरोत्तरानन्तगुण त्व]मानेयम्, अन्तरन्तु ग्राह्याणां जघन्यादुत्कृष्टो विशेषाधिकः सर्वत्र, को विशेषः । तस्यैवानन्तभागः, अग्राह्याणान्तु जघन्यादुत्कृष्टोऽनन्तगुणः, को गुणकारः ? सिद्धानामनन्ततमभागः, अभव्येभ्योऽनन्तगुणः, एवंविधैः पुद्गलैः सर्वत्र लोकेऽवगाढनिचिते कर्मतया परिणमनयोग्यान कायवाअनःकर्मलक्षणानां त्रयाणां 5 योगानां काययोगेन गृह्णाति, तेनैव कर्मणा शरीरतया परिणमयति, पुरुषः स्ववीर्येण योग्यानेष वामनःप्राणापानतया परिणमय्य काययोगेनैव वाचनःप्राणापानतयाऽवलम्ब्य विसृजति, यथोक्तम् 'जोगेहिं तदनुरूवं परिणमयति गेण्डिऊण पंच तणू । पाउग्गे वा लंबति भासाणमणत्तणे खंधे ॥' (कर्म प्र० श्लो० १७) तथा 'मनसा वाचा कायेन वाऽपि युक्तस्य वीर्यपरिणामः । जीवस्यात्मनि यः खलु स योगसंज्ञो जिनैदृष्टः ॥ (तत्त्वार्थटी० अ०७ पृ०७०) 'तेजोयोगाद्यद्वद्रक्तत्वा10 दिर्घटस्य परिणामः । जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः ॥' ( ) इति । किं कारणं ? तथाविधोपयोगगतेः,-बन्धनयोग्यपरिणामापन्नपुद्गलद्रव्यग्रहणपरिणतकृतप्रयोगपरिणामापत्तेः पुरुषस्येत्यर्थः, यथोक्तं 'ऊष्मगुणः सन् दीपः स्नेहं वा यथा समादत्ते । आदाय शरीरतया परिणमयति चापि तं स्नेहम् ।। तद्वद्रागादिगुणः स्वयोगवर्त्याऽऽत्मदीप आदत्ते । स्कन्धानादाय तथा परिणमयति तांश्च कर्मतया ॥' (तत्त्वार्थटी० अ०५ पृ० ३४३) 'स्नेहाभ्यक्तस्याङ्गे लगदेव रजो मलीभवत्यपि 16 वा । रागद्वेषस्नेहाभ्यक्तस्य तथा लगति कर्म ॥ ( ) रूक्षयति रूष्यतो ननु वक्त्रं निति च रज्यतः पुंसः । औदारिकोऽपि देहो भाववशात् परिणमत्येवम् ॥' (प्रज्ञा० टी० पृ० ४५५ ) एवं विधैरिति ईदृशैः पुद्गलैः सर्वो लोकोऽवगाढः आश्रितः तथा निचितो व्याप्तश्च, जीवश्च यत्राकाशेऽवगाहस्तत्रैव ये कर्मयोग्याः पुद्गलास्तान् कर्मतया परिणमय्य कायस्य वाचो मनसश्च यानि कर्माणि-क्रियाविशेषाः चेष्टाविशेषजाः तीव्रतीव्रतरतीव्रतमभेदास्त एव योगा उच्यन्ते तेषां मध्ये काययोगेन गृह्णाति, तेनैव च कर्मणा शरीरतया परिणमयति चेत्यर्थः । 20 विसर्जनप्रकारमाह-पुरुष इति । कायादिकरणयोगादात्मनो वीर्यपरिणतिर्भवति, तथाविधेन वीर्येणेत्यर्थः । तत्र प्रमाणमा दर्शयति-जोगेहिं इति, योगैर्जघन्यमध्यमोत्कृष्टरूपैः योगानुरूपं पञ्चशरीरानुरूपं वा पुद्गलस्कन्धान गृह्णाति, यतो हि परिणामालम्बनग्रहणसाधनं वीयं भवति तेन योगेन औदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा चौदारिकादिरूपतया परिणमयति, तथा प्राणापानभाषामनोयोग्यान् पुद्गलान् प्रथमतो गृह्णाति गृहीत्वा च प्राणापानादिरूपतया परिणमयति, परिणमय्य च तनिसर्गहेतुसामर्थ्यविशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते, ततस्तदवष्टम्भतो जातसामर्थ्य25 विशेषः सन् विसृजतीत्यर्थः । उक्तार्थमेव कारिकान्तर योगलक्षणप्रदर्शकं दर्शयति-मनसा वाचेति, अस्य श्लोकस्य मूलभूता गाथा स्थानाङ्गस्य तृतीयस्थानटीकायामुद्धतेत्थं दृश्यते-'मणसा वयसा कायेण वा वि जत्तस्स वीरिय परिणामो। जीवस्स अप्पणिजो सजोगसंज्ञो जिणक्खाओ॥ तथा तेजोयोगादित्यपि तत्रैव-'तेओ जोगेण जहा रत्तत्ताई घडस्स परिणामो। जीवकरणप्पओगे वीरियमवियप्पपरिणामो ॥' इति । सोऽयं वीर्यपरिणामोजीवस्यैवेत्यादर्शयति तेजोयोगादिति, मृन्मयघटस्याग्निसंयोगाद्रक्तत्वादिपरिणतिर्यथा घटस्यैव तथा जीवस्य कायादिकरणयोगाद्वीर्यपरिणति30 रात्मन एव प्रादुर्भवति न द्रव्यान्तरस्येति भावः । अत्र हेतुमाह-तथाविधेति, यथा च दीप ऊष्मगुणयोगाद्वयों स्नेहस्कन्धानादाया रूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवात्मदीपः स्कन्धानादाय कर्मतया पर्थक कारिकाद्वयमाह-ऊष्मगण ति। यथा च नेहाभ्यक्त वपुषि जलाईवाससि वा परागो लगति मलीभवति च तथा रागादिस्नेहाभ्यञ्जनस्यात्मनः कार्मणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दतीत्यर्थप्रदर्शिकां कारि सि. क. 'मय्यातयोग्यान् । २ सि. क. मनसा जीवप्रयोगजनित इति पाठान्तरम् । ४ सि.क. भवति । ५सि.क. रूप्यते तनु०।६ सि.क. तनुभा०।७सि.क. मयतिदेहोऽपम् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350