Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 217
________________ ४८४ AWWAAAAA द्वादशारनयचक्रम् [विधिनियमारे अस्मिन् पक्षे कर्मादिसर्वसर्वत्वात् किं तदन्यत् कर्मेति, तस्यैव कर्मतापि, तस्मादेव पुरुषकाराणां तत्साध्यानाञ्च सिद्धयोऽसिद्धयश्च नाना स्युरेव उत्कर्षपरम्पराया बहुप्रभेदाया अपि आमुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्नकारणत्वात् , अहिभोगविस्तरणाकुञ्चनवत् , तथाऽनतिरेकातिरेकात् कर्मापि प्रवर्चयित। (इदानीमिति) इदानीं[तु]प्रत्येकप्रत्युक्तिभावना दिक्, तुशब्दो विशेषणार्थः, युगपत् प्रत्युक्तिदिक्तः प्रत्येकप्रत्युक्तिदिग्विशिष्यते, कर्मैकान्तवादप्रत्युक्तिदिक् तावत् प्रवर्त्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, चशब्दात् कर्म चेत्येकान्तप्रतिषेधस्य वक्ष्यमाणत्वात् , उत्कर्षमर्थयतीत्युत्कर्षार्थी, उत्कर्ष ए[व]ार्थः सोऽस्यास्तीति 'अर्थाच्चासन्निहिते' (पा० ५.२-१३५ सूत्रे वा०) इति इनिः, स चोत्कर्षो बाह्यो धनधान्यमित्रभूम्यादिसम्पत्, आन्तरस्त्वारोग्यज्ञानादिसम्पत्, कृतार्थस्य तदर्थारम्भोपरमात्, 10 असन्निहितार्थोऽर्थीति, कस्मात् पुरुषश्च कारणमिति चेदुच्यते तस्यैवोक्तवत् सर्वत्वात् ब्रीहिणैव ब्रीहिः क्रियत इत्यादिन्यायोक्तवत् , असावेव पुरुषः प्राणादिमांश्चेतनः कर्मापि, अपिशब्दान्नोकर्मापि प्राणापानभाषामनोद्रव्यादि पुद्गल आध्यात्मिको बाह्योऽपि रूपादिपुद्गलश्चेतनो यस्मात्तस्मात् स एव प्रवर्त्तयिता तस्यैव, अस्मिन् पक्षे कर्मादिसर्वसर्वत्वात् किं तदन्यत् कर्मेति तस्यैव कर्मतापि, अपिशब्दात् पुरुषतापि पुद्गलतापि, तस्मादेव यदुक्तं प्रधानमध्यमाधमाः पुरुषकारास्तेषाञ्च सिद्धयोऽसिद्धयश्च प्रधानमध्यमाधमा 15 नाना न स्युरिति तदयुक्तमुक्तम् , पुरुषकाराणाश्च तत्साध्यानाश्च सिद्धयोऽसिद्धयश्च नाना स्युरेव, किं कारणम् ? उत्कर्षपरम्पराया बहुप्रभेदाया अप्यामुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्न कारणत्वात्-स एवाव्यतिरिक्तो भिन्नश्च कारणं तस्यैव सर्वप्रभेदात्मकत्वात् भिन्नत्वं तेषाञ्च कर्मणां बाह्यरूपादिभेदपुद्गलानां पुरुषोपयोगात्मकत्वादव्यतिरिक्तत्वम्, तस्मात् पुरुषकारनानात्वं तत्साध्यसिद्ध्यसिद्धिनानात्वानि च स्युरेव, स चैक एव कारणम् , स्यादेवं, को दृष्टान्तः ? अहिभोगविस्तरणाकुश्चनवत्, यथाऽहिः स्फटाटोपकु20 ण्डलीकरणाद्ययुगपदवस्थायिधमैः रूपादिभिर्युगपदवस्थायिभिश्च भिन्नोऽप्यव्यतिरिक्ताहित्वसत्यः तैद wwwmmmmmm भावना प्रदर्शिता ततः प्रत्येकपक्षनिराकरणभावना विलक्षणेति तुशब्दार्थ प्रकटयति-युगपदिति । कर्मैकान्तवाददोषप्रदर्शन तावदाह-कर्मैकान्तति, न कमैव कारणं किन्तूत्कर्षार्थी पुरुषोऽपीति समुच्चायकचशब्दार्थ दर्शयति-चशब्दादिति। कर्म च कारणं प्रवर्तयितृत्वादित्युत्तरग्रन्थेनेति भावः । यतोऽयमुत्कर्षमर्थयति, अप्राप्तत्वात् प्राप्ते चोत्कर्षे आरम्भान्निवर्ततेऽत एवासावुत्कर्षो न सन्निहितस्तस्मादिनिप्रत्ययेऽर्थीत्युक्तमित्याह-स चोत्कर्ष इति । पुरुषस्योत्कर्षार्थित्वेन प्रवर्त्तयितृत्वात् पुद्गलात्म25 नोरैक्येन सर्वसर्वात्मकत्वस्योपपादितत्वाचासावेव प्राणादिमान् चेतनः कर्मापीत्याह-तस्यैवेति, नोकर्मापीति, मनोवचनकायप्राणात्मककर्मापीत्यर्थः, कर्मात्मकतामेवादर्शयति-प्राणापानेति, सर्वसर्वात्मकत्वपक्षे आत्मनः कर्मादिसर्वात्मकत्वात्कर्मता पुरुषता पुद्गलतापीत्याह-अस्मिन् पक्ष इति । केवलपुरुषकारैकान्तवादे कमैकान्तवादिना प्रदर्शितं दोषमुद्धरति-तस्मादेवेति, पुरुषकारस्याव्यतिरिक्तैककारणत्वे कार्यवैलक्षण्यानुपपत्तिा पूर्वमुक्ता साऽत्राव्यतिरिक्तभिन्नपुरुषकारणत्वे नास्तीति भावः । पुरुषकाराणाश्चेति । स्वाचारदुराचारलक्षणानां लोकप्रसिद्धानां तत्साध्यानाञ्च शुभाशुभानां प्रधानमध्यमाधमवैलक्षण्यं सिद्ध्यत्येवेति भावः । पुरुषस्य सर्वप्रभेदात्मकत्वात् सर्वप्रभेदानाञ्च पुरुषोपयोगात्मकत्वादव्यतिरिक्तभेदात्मकः पुरुष एव कारणमिति कार्यवैलक्षण्यं भवत्येवेति दर्शयति-उत्कर्षपरम्पराया इति । अव्यतिरिक्तभिन्नकारणत्वे दृष्टान्तमाह-अहिभोगेति । १ सि. क. स्युरेव न स्युः । २ सि. क. रिक्ताभिन्नाहित्व० । ३ क. सत्यभेदव्यति। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350