Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 299
________________ mmmmmmmm mmewana द्वादशारनयचक्रम् [ उभयमयारे किमस्माभिर्वाच्यं वृतादीनां पचादीनां वा धातुसंज्ञा प्राप्नोति न प्रामोतीति, वैधये॒ण सर्वेषां धातूनामस्मदभिहितप्रवृत्तिसामान्यक्रियावचनत्वानतिवृत्तेः।। अत्र ब्रमो वस्तुनः प्रवृत्तरित्यादि, यावद्वैधयेणेति, अवसितप्रयोजनमिदं वचः त्वयैव वस्तुप्रवृत्तेः सर्वप्रवृत्तिविशेषसहिताया एवाभ्यनुज्ञातत्वाद्भावितत्वाच-सम्भावितैवे हि वस्तुप्रवृत्तिः 5 सर्वप्रवृत्तिविशेषात्मिकेत्यतीतविचारेषु विस्तरेण चरितार्थत्वात् कथं ? विशेषवाग्व्यवहारो विशेषान्तरप्रवृत्तिनिवृत्तिविषयो न वस्तुन्यत्यन्तनिर्भेदात्मके प्रभवतीति भावयता भवतैव सुभाषितस्वात्, किमस्माभिर्वाच्यं वृतादीनां पचादीनां वा धातुसंज्ञा प्राप्नोति न प्राप्नोतीति, सर्वेषां धातूनामस्मदभिहितप्रवृत्तिसामान्यक्रियावचनत्वानतिवृत्तेर्वस्तुव्यवहारे शब्दव्यवहारे वेति न किञ्चिन्न प्रसिद्ध्यति, त्वया तु पुनरसदर्थविषयत्वाद्धान्तिज्ञानं शब्दार्थविषयं व्यवस्थापितं वस्त्वसंस्पर्शादित्यलं प्रसङ्गेन । प्रकृतमुच्यते योऽसौ मयाऽऽदावुद्दिष्टो विधिनियमात्मोभयनयः स एष निर्दिष्टः, नैगमदेशत्वाद्रव्यार्थोऽयम् , द्रव्यमपि भावसाधनम् , सैव व्यर्थता, उक्तवत् , पदार्थों द्रव्यक्रिये, वाक्यमाख्यातशब्दः, तदर्थ उक्तोभयभाक्, नयविनिर्गमसूत्रं 'अत्थित्तं अत्थित्ते परिणमति' इति । योऽसौ मयाऽऽदावद्दिष्टो विधिनियमात्मोभयनय इति, विधिश्च नियमश्च सर्वत्र 16 द्रव्यं क्रिया चेति विधिनियम द्वन्द्वैकवद्भावात् स एष निर्दिष्टः-प्रत्यक्षीकृतस्ते, केषों पुनरयमार्षाभिहितानां नयानां भेद इत्यत्रोच्यते नैगमदेशत्वाद्रव्यार्थोऽयं न पर्यायार्थः, द्रव्यपर्यायसंगृहीतानां बहुभेदानां द्रव्यार्थभेदेषु नैगमसङ्घहव्यवहारेषु यो नैगमो नैकभेदस्तस्यैवैकदेशोऽयं तद्भेद इत्यर्थः, 'एकेको य सतविधो सत्तणयसता हवंति एमेव' (आ. नि. २२६४) इति वचनात् , द्रव्यशब्दः किं. 10 प्रकृतमुच्यत " शब्दधर्मप्रकल्पितेत्यादिनन्थेन सम्यग्भावितैवेति भावः । एतदेव प्रकटयति-विशेषेति सततसन्निहितसर्वधर्मात्मकत्वाद्वस्तुनः 20 सहभावादेव विरोधाभावाव्यावर्तकत्वासम्भवेन पचति पठतीति विशेषवारव्यवहार एव गच्छति तिष्ठत्यादिविशेषान्तरवाग्व्यवहार निवर्तयन् पाकादिक्रियासम्बन्ध बोधयतीति निखिलप्रवृत्तिविशेषसाहित्यं वस्तुप्रवृत्तेर्भावितमेवेति भवताऽधुना विचार्य वृतादीनां धातुसंज्ञा प्राप्नोति वा न वेति भावः। वृतादीनामिति तेषां सामान्यप्रवृत्तित्वे पचादीनामपि तथात्वेन धातुत्वं न स्यात् पचादीनामिव विशेषप्रवृत्तित्वे धातुत्वं स्यात् किन्तु देवदत्तादीनामपि धातुत्वं भवेदित्याशयः । सर्वे धातवोऽस्मदभिहितक्रिया सामान्यवचना इति त्वयापि भावितत्वादेतदंशे आवयोः साम्येऽपि शब्दार्थज्ञानं वस्त्वसंस्पर्शादसदर्थविषयत्वेन भ्रान्तिरूप. 9 मेवेति त्वया भावनाद्विशेष इत्याह-त्वया तु पुनरिति, अबुधबोधनाय शास्त्रमियं प्रकृतिरस्या अयमर्थः अयश्च प्रत्ययोऽस्या यमर्थ इति, तस्मात् सर्वोऽयं पदपदार्थव्यवहारः काल्पनिकोऽसत्यभूत एव, न परमार्थभूतं निर्विकल्पं स्पृशतीति स्वीकारादिति भावः। तदेवं द्रव्यं क्रिया चोभयं भाव इति यन्नयादौ निदर्शितं तदेव ते निर्दिष्टमित्याह-योऽसाविति । प्रधानभूतसप्तविधनयेषु कुत्रास्यान्तर्भाव इत्यत्राह-नैगमदेशत्वादिति द्रव्य द्वित्वत्रित्वाद्यभ्युपगमभेदेन नैगमस्यापि भेदा व्यक्रियोभयवादस्य नैगम देशता विज्ञेया, भनेकैर्वादिभिरनेकधा वर्णितानां वस्तूनां द्रव्यपर्यायाभ्यां संगृहीतत्वात् , तन्मध्ये नैगमसंग्रहव्यवहारा द्रव्यार्थभेदाः, 30 तेषु प्रकृतो नयोऽनेकभेदस्य नैगमस्यैकदेशो विज्ञेय इति भावः। एकैकस्य नैगमादेर्नयस्य बहुविधत्वे आगमं प्रमाणयति-एकेको य सि. क. प्रवृत्तावित्यादि। २ सि. सभावनैव हि वस्तुप्रवृत्तिविशेषात्मिके० । क. सभावनैव हि न वस्तुप्रवृत्तिः सर्वप्रवृत्तिविशेषात्मिके०।३ सि.क. कस्य । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350