Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 318
________________ विनाशोत्पादैक्यम् ] ५८५ कथितो भवति, यदि नोत्पद्यतेऽवस्थिताभिमतं नावतिष्ठेतानुत्पत्तिरूपत्वात् तस्मादमुत्पन्नमस्थितं खपुपादि, तद्वैलक्षण्येन यदेवोत्पद्यते तदेवावतिष्ठते, नानुत्पत्तिकमवतिष्ठते, तस्मादुत्पस्यनुमितमेवावस्थानं www.wwww " [य] स्येति, अत्रोच्यते--एवं सति यदेवेत्यादि यावत् क्षणिकत्वापत्तिरिति-इत्थं तहदं व्याख्यासं संवृत्तं यदेवेति - यस्मादित्यर्थः, अव्ययत्वाद्यच्छब्दस्य यत एवोत्पद्यते तत एवावतिष्ठत इति प्रागुक्तोत्पत्तृस्थात्रैक्यवदुत्पत्तिस्थित्यैक्ये' उत्पत्तिरेवावस्थानमित्यापन्नम् किं कारणं ? उक्तस्थितित्यागात् - उत्प-5 तिरेव स्थितिरित्यनुमानेन स्थितिरुत्पत्तिरेव कृतेति योक्ता व्यापिस्वतत्त्वानुमतांशुतन्तुवन्तु प्रदीर्घद्रव्यपूवोत्तरावस्था स्थितिरिति सा त्यक्ता स्यात्, तत्त्यागादुत्पत्तिरेवावस्थानं न स्थितिरन्या काचिदुत्पत्तेरतश्च क्षणिकत्वापत्तिः, उत्पद्यत उत्पद्यत एव नावतिष्ठते किश्चिदिति सर्वं क्षणिकमित्युक्तं भवति, स्यान्मतं क्षणिकत्वदोषो मा भूदिति केनचित् प्रकारेण स्थितमुत्पद्यते केनचिदितीष्यते ततश्चो भैयात्यागाभिमतौ चाने कान्तापत्ति:- यदि स्थित्युत्पत्ती न त्यक्ते त्वया ततस्तेऽभ्युपगमविरोधिनी स्यात् प्रक्रिया अनेकान्त- 10 वस्तुतस्वमापद्यत इति । न्यायागमानुसारिणीव्याख्यासमेतम् अथोच्येतोत्पादपूर्वत्वदोषानपरिहार्यान् प्रत्युच्चार्यानुमत्य चोभौ विकल्पौ त्यक्त्वा विनाशप्रधाने विकल्पान्तरे निर्दोषे इत्याश्रयेतेति तत्राद्यस्तावत्तदेव विनश्यति तदेवोत्पद्यत इति, अस्मिन्नपि विकल्पे दोष उच्यते- लोके तावत् प्रत्यक्षादिप्रसिद्ध मङ्करोत्पत्तौ बीजं विनश्यति, तव पुनर्यदेव विनश्यति बीजं तदेवोत्पद्यते नाङ्कुर इति पूर्ववत् स्ववचना - 15 दिविरोधाः, तत्पूर्वपत्राद्यपोहाच्च लोकादिविरोधाः, तदेव विनश्यति तदेवोत्पद्यत इति वचने - नानन्यभूतस्यैकस्मिन्नेव काले विनाश उत्पादश्चेति क्षणिकवादातिशयादि स्यात् । यस्योत्पत्तियोग्यता तस्यैवावस्थानयोग्यता, नानुत्पत्तुः स्थितिरस्ति, एवंव्यावर्णनफलं तु खपुष्पादीनामनुत्पन्नानां स्थितिव्यावर्तनम्, यद्वा विमतमवतिष्ठते, उत्पत्तिमत्त्वात्, यदि नोत्पद्यते नावतिष्ठेत यथा खपुष्पादि, उत्पद्यते चेदं तस्मादवतिष्ठत इति क्षणिकैकान्तबादनिरसनमिति भावः । एवं सति यद्वस्तुत्पद्यते तद्वस्त्ववतिष्ठत इत्युत्पत्तस्थात्रोरैक्यं परित्यज्य यस्माद्धेतोरिदमुत्पद्यत इत्यु- 20 च्यते तस्मादेवावतिष्ठते इत्युच्यत इति पर्यवसितत्वेनोत्पत्तेरेव हेतोरुत्पद्यत इत्यभिधानात्तत एवावतिष्ठत इत्यभिधाने उत्पत्तिरेव स्थितिरित्युक्तं स्यात् उत्पत्तिव्यतिरिक्त स्थिति परित्यागात्, यत एव तत एवेत्य मेदेनाभिधानात् तथा च स्थित्यभावात् क्षणिकवाद एवासौ संवृत्त इत्युत्तरयति एवं सतीति, उत्पत्तिरेवावस्थानमित्यर्थः कथितो भवतीत्युपगमे सतीत्यर्थः । एतदर्थपर्यवसायिव्याख्यां तद्वचनस्य दर्शयति यस्मादित्यर्थ इति, यत्तद्यतस्ततो हेताविति कोशादिति भावः । प्रागिति यत्तदोः सर्वनाम - त्वमभ्युपेत्य पूर्व व्यावर्णितार्थेष्विति भावः । व्यापिखतत्त्वानुमतेत्यादिग्रन्थेन स्थितिरुक्ता सा उत्पत्तिरेवावस्थानमित्यर्थकथनेन 25 परित्यकेत्याह-उत्पत्तिरेवेति, यत एवेति शब्देनोद्दिष्टस्योत्पादस्यैव तत इति शब्देन परामर्शात् एवावतिष्ठत इत्यभिधाने उत्पत्तिरेव विनाश इति पर्यवसितो भवतीत्याशयः । तत्र दोषमादर्शयति-अतश्चेति, उत्पत्तिपरम्पराक्रान्तत्वानावस्थानं कदापीति क्षणिकवादः स्थितत्वे हि द्वितीयादिक्षणवृत्तितया क्षणिकत्वं न स्यादिति भावः । क्षणिकवादपरिहाराय यदि केनचित्प्रकारेण स्थितमेव वस्तु केनचित्प्रकारेणोत्पद्यत इति स्वीक्रियते तर्हि सापेक्षयोः स्वीकारेणोत्पाद एव स्थितिरिति तवाभ्युपगमविरोध्यनेकान्तवादः प्रसज्यत इत्याशयेनाह - स्यान्मतमिति । तदेवं यदेवोत्पद्यते तदेव विनश्यति यदेवोत्पद्यते तदेवावतिष्ठत 30 इत्युत्पत्तिप्रधान विकल्पद्वये प्रोकान् दोषानभ्युपेत्य विहायैतौ विकल्पौ यदेव विनश्यति तदेवोत्पद्यते यदेव विनश्यति तदेवावतिष्ठत इति विनाशप्रधानौ विकल्पौ श्रयाम इत्याह- अथोच्येतेति । यदेव विनश्यति तदेवोत्पद्यत इति विनाशोत्पादसमानाधिकरणं १ सि. स्थित्यैक्योत्पत्तिरनुत्पत्तिरेवा० । २ सि. स्थितिर्नाना काचिदित्युत्पत्तिश्च । ३ सि. भयत्यागा० । द्वा० न० ३६ (७४) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350