Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
६०३
अपवादविधिः
न्यायागमानुसारिणीव्याख्यासमेतम् किश्चिदारभेत, ततश्चारम्भाभावात्तदपि न भवेदेव कर्म, कर्म ह्यारम्भस्वरूपं कल्प्यते, तस्य स्वरूपाभावात् खपुष्पवदभावः, तदभावात् व्यणुकाद्यनेकद्रव्यं न भवेत् , तदभूतेः क्रिया निर्विषयैव स्यात् , यद्यनेकद्रव्यविषया न भवत्यारम्भाभावादनेकद्रव्यत्वानुपपत्तरेवाण्वाकाशाद्येकद्रव्यविपयाऽपि न भवत्येव सा त्वदिष्टाऽस्मदिष्टकर्मविलक्षणा, तेषां नित्यैकस्तिमितगगनवदारम्भाभावादगुणवतो द्रव्यस्य गुणारम्भात् कर्म अगुणमक्रियश्चास्मन्मतेन, त्वन्मतेनापि गुणादीनां क्रियात्वात् क्रियायाश्च द्रव्यप्रधानायाः । निःक्रियत्वादेवेति क्रियानिर्विषयता सुच्यते एवन्तावत् क्रिया द्रव्यं नारभत इत्युक्तम् ।
इदानीं त्वदिष्टं द्रव्यञ्च भव्ये भवव भवैदेवति द्रव्यमित्ययुक्तमिति वक्ष्यामः, कथम् ?
आरब्धद्रव्यभूतावपि च द्रव्यादेः कारणकायेलक्षणारम्भानारम्भभेदादन्यत्वादेव तदभूतेः, सामान्यादीनाच, स्वाश्रयस्य स्वानुरूपप्रत्ययाधानहेतुत्वात् , ततस्त्वदुक्तद्रव्यस्वरूपलक्षणभवनानुपपत्तिरित्युभयस्यापि भवनस्याभावः, किन्तु द्रव्यादिषड्भेदस्य सप्रभेदस्यैव भावः। 10
(आरब्धद्रव्येति) अभ्युपेत्याप्यारब्धद्रव्यं कारणे कार्यस्यासत्वात् वर्णितोपपत्तिवत् कारणद्रव्याभ्यामन्यत्वात् कार्यद्रव्याणाम् , न हि तदेव द्रव्यं भवतीति, अथवाऽयमप्यपवादविधिः-आरब्धद्रव्यभूतावपि च पूर्वद्रव्येभ्यः कारणभूतेभ्यः कार्यभूतानामन्यत्वात् , गुणकर्मत्वादिना तस्यैव वाऽभावात्द्रव्यस्येति, किञ्च लक्षणारम्भानारम्भभेदाच्चान्यत्वादेव, अन्यत्वमिति "विशेषकारणम् , 'क्रियावत्' (वैशे० अ० १ आ० १ सू० १५) इत्यादि द्रव्यलक्षणम् , 'द्रव्याश्रयी' (वैशे० अ० १ आ. 15 १ सू० १६) इत्यादिगुण[ लक्षणम् ], 'एकद्रव्यं०' (वैशे० अ० १ आ० १ सू० १७) [इत्यादि ]कर्मलक्षणम् , इत्थं लक्षणभेदान्नानैव द्रव्यगुणकर्माणीति, द्रव्येष्वानारम्भकेभ्यो गगनादिभ्यः पृथिव्यादेन चेदेवमिति । कुतः क्रियाया असम्भव इत्यत्राह-आरम्भाभावादिति, स्तिमिताव्यात् कस्यचिदारम्भाभावात् कथं क्रिया भवेत् , न हि सा द्रव्यवन्नित्याऽभिमता, प्रवृत्तिः क्रिया परिणाम इति तस्या आरम्भखरूपत्वाभ्युपगमात्, न हि मृदादेः
दादेभवितुमर्हति प्रागपि तत्प्रसङ्गात् , तस्मात्स्वरूपाभावात् कथं क्रिया भवेत् ? तदभावेच कथं वाट्यणु-20 कादिद्रव्यं स्यात् ? एवं द्रव्याभावे क्रिया क्व भवेदिति निर्विषयैव स्यादिति भावः। एतदेव स्फुटयति-यद्यनेकेति। आरब्धेति, भारब्धव्यस्याङ्गीकारेऽपि नहि तदेव द्रव्यं भवति गुणो वा कर्म वा, कार्यकारणादिभेदेनान्यत्वावश्यकत्वात् , तत्र कारणद्रव्यात् कार्यद्रव्यमन्यत्, कारणे कार्यस्यासत्त्वात् , अत एव च न गुणत्वेन कर्मवादिना वा तदेव द्रव्यं भवति, द्रव्यत्वगुणत्वकर्मत्वादीनां सङ्करप्रसङ्गेन द्रवणरूपणपचनादीनाममेदः कारणकार्ययोरमेदात् स्यात् , तस्मान तस्यैव तथाभवन मिति भावः । अथ लक्षणादिमेदेन द्रव्यादीनामन्यत्वमाह-किञ्चति । तत्र द्रव्यादिलक्षणं सूत्रैः प्रदर्यते-क्रियावदिति 'क्रियागुणवत् समवायि-26 कारणमिति द्रव्यलक्षणम्' (वै० १-१-१५) क्रियाश्च गुणाश्च विद्यन्तेऽस्मिन्निति क्रियागुणवत्, समवायिकारणमुपादानकारणं द्रव्यमिति तदर्थः । गुणलक्षणमाह-द्रव्याश्रयीति । 'द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्' (वै०१-१-१६) द्रव्यमाश्रयितुं शीलमस्येति द्रव्याश्रयी, एतच्च द्रव्येऽप्यस्तीत्यतोऽगुणवानिति, तथापि कर्मण्यतिव्याप्तिरतः संयोगविभागेष्वकारणमिति, एतदपि संयोगविभागादावव्याप्तमतोऽनपेक्ष इति, संयोगविभागेष्वनपेक्षः सन् यः कारणं भवति स गुणः, संयोगस्य विभागं प्रति विभागस्य संयोगं प्रति अनपेक्षकारणत्वाभावाचाव्याप्तिरिति तदर्थः । क्रियालक्षणमाहएकद्रव्यमिति, 'एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम्' (वै० १-१-१७) एकमेव द्रव्यमाश्रयो यस्य तदेकद्रव्यं न विद्यते गुणोऽस्मिन्नित्यगुणं परमाण्वतिप्रसङ्गनिवारकमिदम् , रूपादावतिप्रसङ्गवारणाय शेषपदम् , मिलितौ संयोगविभागौ प्रति यदनपेक्षकारणं तत्कर्मेत्यर्थः । तदेवं लक्षणभेदालक्ष्याणां द्रव्यादीनां परस्परं भेदः लक्षणस्य व्यावर्तकत्वादित्याहइत्थमिति । द्रव्याणां गुणानां कर्मणां च परस्परं आरम्भानारम्भाभ्यां भेदमाह-द्रव्येष्विति, अत्रारम्भकत्वं द्रव्यानारम्भ
१ सि. क. निर्विषयतैव। २ सि. क. कर्मागुणा भगुणमक्रियाश्चा०। ३ सि. क. भवत्येव । ४ सि. क. कर्मत्वादिना। ५ सि. क. करणे।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350