Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 320
________________ mmmmmmmmmmm दोषाधिक्यमत्र] न्यायागमानुसारिणीव्याख्यासमेतम् ५८७ विनाशप्रकारेण विनाशे उत्पत्तिस्थितिविनाशप्रकारेण वा विनाश इति विकल्प्यते, उत्पत्तिप्रधानविकल्पाभिहितदोपवदत्रापि विनाशप्राधान्येन स्थित्या सह योजितं तथा वा सर्वथा वा विनश्यदवतिष्ठमाने कुतो विनाशः, विनाशे वा कुतोऽवस्थानमिति त एवाधिकृतास्ते वचनादिविरोधाः क्षणिकवादातिशयनादि च पूर्ववत्, एवं तावदुत्पादपूर्वयोर्विनाशपूर्वयोश्चोत्पादस्थितिविकल्पयोर्दोषा उक्ताः, अथोच्यते उत्पादविनाशपूर्वतायामित्यादि पूर्ववदुच्चार्य दोषाननुमत्य च त्यक्त्वा चतुरोऽपि विकल्पान् इमौ । निर्दोषौ विकल्पावित्याश्रयेत तत्राद्यस्तावत्तदेवावतिष्ठते तदेवोत्पद्यत इत्यादि यावत् क्षणिकवादातिशयनादीति, पूर्ववदत्रापि व्याख्या कार्या, अवतिष्ठमान इत्युच्चारणेन तु योज्येति, अथ यदेवावतिष्ठते तदेव विनश्यतीति स्थितिपूर्व द्वितीयविकल्पेऽपि व्याख्यानं तदेव योज्यं यावत् क्षणिकवादातिशयनादीति गतार्थं शून्यता वेति । अस्मिन् विकल्पेऽन्यथापि दोषाधिकतयाऽऽह 10 अवतिष्ठते वाऽनन्वयगोचरो व्यतिरेक एव तन्मात्रोपलब्धेश्च सर्वत्रैव तदेवावतिष्ठते । तदेव विनश्यतीति व्यपदेशो न सम्भवतीति पूर्ववत्त एव स्ववचनादिविरोधा इति । अवतिष्ठते वाऽनन्वयेत्यादि यावत् स्ववचन[दि]विरोधा इति, अनन्वयगोचर इत्यादि, अनवस्थानम[न]न्वयः, व्यतिरेको विनाशः, अन्वयशून्यो व्यतिरेक एवानन्वयः स एव गोचरो व्यतिरेक:-अर्थशून्यो विनाश एवेत्यर्थः, तन्मात्रोपलब्धेश्च सर्वत्रैव-बीजाकुरपत्रादौ तदेवावतिष्ठते 15 तदेव विनश्यतीति-इत्थमपि व्यपदेशो न सम्भवतीति पूर्ववत्त एव विरोधाः । विनाशप्रकारेणावतिष्ठमानं तदेव विनश्यति तदेवावतिष्ठत इत्यर्थः, सर्वथा वा-उत्पत्तिस्थितिविनाशप्रकारैरवतिष्ठमानं तदेव विनश्यति तदेवावतिष्ठत इत्यर्थः । उत्पत्तिप्रधानेति, उत्पत्तिप्रकारेणावतिष्ठमानं उत्पत्तिस्थितिविनाशप्रकारैर्वाऽवतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठतीति विकल्पेऽभिहिता दोषा अत्रापि भवन्तीत्यर्थः । दोषं दर्शयति-विनश्यदिति विनाशक्रियाव्यग्रत्वात् पूर्णतया विनाशासम्भवेन कुतो विविधादर्शनानुपलम्भादिरूपो विनाश इति भावः । विनाशस्थित्योभिन्नकालीनत्वेन 20 यदि विनाशस्तविस्थानं कुत इत्याह-विनाशे वेति । उच्यते च भवता तदेव विनश्यति तदेवावतिष्ठत इति कालाभेदेनातः खवचनलोकादिविरोधा इत्याह-त एवेति । अत्रापि व्यापिखतत्त्वानुमतांशुतन्तुवत्त्वित्यादिग्रन्थयोजनया खवचनादिविरोधाः क्षणिकवादातिशयादिदोषा वक्तव्या इत्याह-पूर्ववदिति। एवं यदेवोत्पद्यते तदेव विनश्यति, यदेवोत्पद्यते तदेव नितिष्ठति, यदेव विनश्यति तदेवोत्पद्यते, यदेव विनश्यति तदेवावतिष्ठत इति चतुषु विकल्पेषु दोषा उक्ता इत्युपसंहरति-एवं तावदिति । एषूक्तान् दोषाननुमत्य विकल्पानेतान् त्यक्त्वा यदेवावतिष्ठते तदेवोत्पद्यते, यदेवावतिष्ठते तदेव विनश्यतीति विकल्पदयाश्रयणेऽपि 25 पूर्ववदेव दोषा वाच्या इत्याह-अथोच्यत इति । अत्र प्रथमविकल्पे दोषं योजयति-तत्राद्य इति, स्थितिसमानाधिकरणो. त्पादविकल्प इत्यर्थः, लोकेऽस्थितस्यैवाङ्कुरादेः बीजादुत्पाददर्शनात् तव तु यदेवावतिष्ठते बीजादि तदेवोत्पद्यते नाङ्कुर इत्यङ्कुरानुदयात् पत्रनालकाण्डादीनामभावाल्लोकादिविरोधाः, यद्यवतिष्ठते कथमुत्पद्यते, यद्युत्पद्यते कथमवतिष्ठते, उच्यते च भवता यदे द्यत इति खवचनादिविरोधाः। अभिन्न एव काले च स्थित्युत्पादयोरभ्युपगमे क्षणिकवादातिशयः, अनुत्पन्नाविनाशास्थितत्वाच खपुष्पवदभावाच्छ्न्यवादता वेति भावः । द्वितीये स्थितिसमानाधिकरणविनाशविकल्पेऽपि दोषातिदेशमाह-30 अथेति। अत्र कल्पे स्थितिव्यतिरेकेण विनाश एवावतिष्ठत इति यदेवावतिष्ठते तदेव विनश्यतीति व्यपदेशोऽपि न सम्भवति, विनाशस्यैव परमार्थत्वेन वस्तुसद्भावरहितत्वात् कोऽवतिष्ठेत, यद्यवतिष्ठते न तर्हि विनश्यति यदि विनश्यति न तपवतिष्ठते विरोधादित्याह-अवतिष्ठत इति । तव्याचष्टे-अनवस्थानमिति स्थितिशून्य इत्यर्थः। स्थितिशून्ये वस्त्वभावादाह-अर्थशून्य इति, .सि.क. वा ऽन्वय इत्यादि । २ सि.क. अनन्वयगोचरेत्यादि । ३ सि. विशेषाः । Jain Education International 2010_04 For Private & Personal. Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350