________________
mmmmmmmmmmm
दोषाधिक्यमत्र] न्यायागमानुसारिणीव्याख्यासमेतम्
५८७ विनाशप्रकारेण विनाशे उत्पत्तिस्थितिविनाशप्रकारेण वा विनाश इति विकल्प्यते, उत्पत्तिप्रधानविकल्पाभिहितदोपवदत्रापि विनाशप्राधान्येन स्थित्या सह योजितं तथा वा सर्वथा वा विनश्यदवतिष्ठमाने कुतो विनाशः, विनाशे वा कुतोऽवस्थानमिति त एवाधिकृतास्ते वचनादिविरोधाः क्षणिकवादातिशयनादि च पूर्ववत्, एवं तावदुत्पादपूर्वयोर्विनाशपूर्वयोश्चोत्पादस्थितिविकल्पयोर्दोषा उक्ताः, अथोच्यते उत्पादविनाशपूर्वतायामित्यादि पूर्ववदुच्चार्य दोषाननुमत्य च त्यक्त्वा चतुरोऽपि विकल्पान् इमौ । निर्दोषौ विकल्पावित्याश्रयेत तत्राद्यस्तावत्तदेवावतिष्ठते तदेवोत्पद्यत इत्यादि यावत् क्षणिकवादातिशयनादीति, पूर्ववदत्रापि व्याख्या कार्या, अवतिष्ठमान इत्युच्चारणेन तु योज्येति, अथ यदेवावतिष्ठते तदेव विनश्यतीति स्थितिपूर्व द्वितीयविकल्पेऽपि व्याख्यानं तदेव योज्यं यावत् क्षणिकवादातिशयनादीति गतार्थं शून्यता वेति । अस्मिन् विकल्पेऽन्यथापि दोषाधिकतयाऽऽह
10 अवतिष्ठते वाऽनन्वयगोचरो व्यतिरेक एव तन्मात्रोपलब्धेश्च सर्वत्रैव तदेवावतिष्ठते । तदेव विनश्यतीति व्यपदेशो न सम्भवतीति पूर्ववत्त एव स्ववचनादिविरोधा इति ।
अवतिष्ठते वाऽनन्वयेत्यादि यावत् स्ववचन[दि]विरोधा इति, अनन्वयगोचर इत्यादि, अनवस्थानम[न]न्वयः, व्यतिरेको विनाशः, अन्वयशून्यो व्यतिरेक एवानन्वयः स एव गोचरो व्यतिरेक:-अर्थशून्यो विनाश एवेत्यर्थः, तन्मात्रोपलब्धेश्च सर्वत्रैव-बीजाकुरपत्रादौ तदेवावतिष्ठते 15 तदेव विनश्यतीति-इत्थमपि व्यपदेशो न सम्भवतीति पूर्ववत्त एव विरोधाः । विनाशप्रकारेणावतिष्ठमानं तदेव विनश्यति तदेवावतिष्ठत इत्यर्थः, सर्वथा वा-उत्पत्तिस्थितिविनाशप्रकारैरवतिष्ठमानं तदेव विनश्यति तदेवावतिष्ठत इत्यर्थः । उत्पत्तिप्रधानेति, उत्पत्तिप्रकारेणावतिष्ठमानं उत्पत्तिस्थितिविनाशप्रकारैर्वाऽवतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठतीति विकल्पेऽभिहिता दोषा अत्रापि भवन्तीत्यर्थः । दोषं दर्शयति-विनश्यदिति विनाशक्रियाव्यग्रत्वात् पूर्णतया विनाशासम्भवेन कुतो विविधादर्शनानुपलम्भादिरूपो विनाश इति भावः । विनाशस्थित्योभिन्नकालीनत्वेन 20 यदि विनाशस्तविस्थानं कुत इत्याह-विनाशे वेति । उच्यते च भवता तदेव विनश्यति तदेवावतिष्ठत इति कालाभेदेनातः खवचनलोकादिविरोधा इत्याह-त एवेति । अत्रापि व्यापिखतत्त्वानुमतांशुतन्तुवत्त्वित्यादिग्रन्थयोजनया खवचनादिविरोधाः क्षणिकवादातिशयादिदोषा वक्तव्या इत्याह-पूर्ववदिति। एवं यदेवोत्पद्यते तदेव विनश्यति, यदेवोत्पद्यते तदेव नितिष्ठति, यदेव विनश्यति तदेवोत्पद्यते, यदेव विनश्यति तदेवावतिष्ठत इति चतुषु विकल्पेषु दोषा उक्ता इत्युपसंहरति-एवं तावदिति । एषूक्तान् दोषाननुमत्य विकल्पानेतान् त्यक्त्वा यदेवावतिष्ठते तदेवोत्पद्यते, यदेवावतिष्ठते तदेव विनश्यतीति विकल्पदयाश्रयणेऽपि 25 पूर्ववदेव दोषा वाच्या इत्याह-अथोच्यत इति । अत्र प्रथमविकल्पे दोषं योजयति-तत्राद्य इति, स्थितिसमानाधिकरणो. त्पादविकल्प इत्यर्थः, लोकेऽस्थितस्यैवाङ्कुरादेः बीजादुत्पाददर्शनात् तव तु यदेवावतिष्ठते बीजादि तदेवोत्पद्यते नाङ्कुर इत्यङ्कुरानुदयात् पत्रनालकाण्डादीनामभावाल्लोकादिविरोधाः, यद्यवतिष्ठते कथमुत्पद्यते, यद्युत्पद्यते कथमवतिष्ठते, उच्यते च भवता यदे
द्यत इति खवचनादिविरोधाः। अभिन्न एव काले च स्थित्युत्पादयोरभ्युपगमे क्षणिकवादातिशयः, अनुत्पन्नाविनाशास्थितत्वाच खपुष्पवदभावाच्छ्न्यवादता वेति भावः । द्वितीये स्थितिसमानाधिकरणविनाशविकल्पेऽपि दोषातिदेशमाह-30 अथेति। अत्र कल्पे स्थितिव्यतिरेकेण विनाश एवावतिष्ठत इति यदेवावतिष्ठते तदेव विनश्यतीति व्यपदेशोऽपि न सम्भवति, विनाशस्यैव परमार्थत्वेन वस्तुसद्भावरहितत्वात् कोऽवतिष्ठेत, यद्यवतिष्ठते न तर्हि विनश्यति यदि विनश्यति न तपवतिष्ठते विरोधादित्याह-अवतिष्ठत इति । तव्याचष्टे-अनवस्थानमिति स्थितिशून्य इत्यर्थः। स्थितिशून्ये वस्त्वभावादाह-अर्थशून्य इति,
.सि.क. वा ऽन्वय इत्यादि । २ सि.क. अनन्वयगोचरेत्यादि । ३ सि. विशेषाः ।
Jain Education International 2010_04
For Private & Personal. Use Only
www.jainelibrary.org