________________
५२८
वावशारनयंचक्रम्
[विधिनियमनिधिः अनेनापि प्रकारेण भवताऽशेषसाधनावयवाः धंस्यन्ते तथाव्यवस्थानविनाशात् , तथाव्यवस्थानाविनाश एव हि सपक्षमपि तत्स्यात् न विनाशे, अग्निरत्र धूमादिति यथा, यथा हि धूमो धूमरूपेण व्यवस्थितो व्यवस्थित एवाग्नावग्नितया तद्वत्तया च प्रदेशे, त्वन्मतेन तु विविधाऽदर्शने विनाशे त्वयेष्टयाऽवस्थयाऽवश्यं विनंष्टव्यमित्यवस्थानविपरीतवृत्तित्वादस्य 5 पक्षधर्मत्वमसिद्धमतः प्रदेशस्याप्यन्यथावृत्तत्वादभूतत्वाद्वाऽऽश्रयासिद्धिः विपरीतवृत्तेविरुद्धतापि।
अनेनापि प्रकारेणेति, एवं तावत् पक्षदोषा अभिहिताः, न केवलं पक्षदोषा एव किं तर्हि ? अवस्थितार्थविनाशाभ्युपगमेनानेन भवताऽशेषसाधनावयवाः ध्वंस्यन्ते, किं कारणं ? तथाव्यवस्थानविनाशात् यथा स्फुटितपृष्ठत्वात् खरं खरविषाणमाकाशस्फोटवदिति वचनवत्, तद्वैधhण साधनव्यवस्था 10 दर्शयति-तथाव्यवस्थानाविनाश एव हि सपक्षमपि तत् स्यात्-तद्धि साधनं साधनं भवत् पक्षण
सहापि सतो व्यवस्थितस्यार्थस्याविनाशे भवितुमर्हति, न विनाशे, किमिव ? अग्निरत्र धूमादिति यथा, यथा हि धूमो धूमरूपेण व्यवस्थितो व्यवस्थित एवानवाग्नितया तद्वत्तया च प्रदेशे, यद्युभयव्युदासानुगृहीतसमुदायार्थसाध्यता यदि धर्मविशिष्टधर्मिसाध्यता सर्वथा व्यवस्थितस्य वस्तुनो व्याप्यो धूमांशो व्यापकेनाइयंशेन व्याप्तः तमंशं व्यवस्थित एव व्यवस्थितं गमयत्यविनष्टमविनष्ट इति स्यात् साधनत्वं 15 साध्यत्वञ्च, त्वन्मते तु पुनर्विविधादर्शने विनाशेऽत्यन्ताभावेऽन्यभवनरूपे वा विपरीतात्मके त्वयेष्टयाsवस्थयाऽवश्यं विनंष्टव्यमित्यवस्थानविपरीतवृत्तित्वात्-अन्यथाभवनरूपत्वादस्य-धूमाख्यस्यांशस्य पक्षध.
wwwwwwwwww
wwwwwwww
बीजाङ्कुराधर्थाभावात् कोऽवतिष्ठते ? यं यदेवेति पदं गृह्णीयात्, तस्माद्यदेवेत्यादिव्यपदेशो न सम्भवतीत्याह-तन्मात्रेति, अर्थशून्यविनाशमात्रेत्यर्थः । तदेवं यदेवावतिष्ठते तदेव विनश्यतीत्यवस्थानधर्मिणि विनाशविधेयतात्मके पक्षे दोषा उक्ताः। तथाऽन्येषु
साधनावयवेष्वपि दोषसम्भवात् सर्वे साधनावयवास्त्वया विध्वंसिता इत्याह-अनेनापीति । यदेवावतिष्ठते तदेव विनश्यतीति 20 अवस्थितस्यार्थस्य विनाशाभ्युपगमेन विनाशपरमार्थत्वान्न कोऽपि हेतुर्दृष्टान्तो वाऽस्ति येन पक्षसिद्धिर्भवेदित्याह-अवस्थिता.
थेति । अव्यवस्थितं वस्तु न साधनावयवं भवितुमर्हतीत्यत्र निदर्शनमाह-यथेति अस्य वचनस्य न कश्चिद्व्यवस्थितोऽर्थ इति तन्न कस्याप्यर्थस्य साधकमिति भावः। व्यवस्थितोऽर्थो यदि विनाशाक्रान्तो न भवेत् तदैव सोऽर्थ व्यवस्थितं साधयतीति दर्शयतितद्वैधयेणेति, सपक्षमपि-पक्षण सहितमपि स्यात् , तत् स्यात् साधनं स्यात् । तझ्याख्याति-तद्धीति । पक्षेण सहापीति, पक्षधर्मत्वमव्यवस्थितस्यैव हेतोरिति दर्शयति । दृष्टान्तमाह-अग्निरत्रेति, अमितया व्यवस्थित एवामौ अग्निमत्तया व्यवस्थित 25 एव प्रदेशे धूमरूपेण व्यवस्थितो धूमस्साधनं भवितुमर्हतीत्यन्वयः । व्यतिरेकमुखेनान्वयमुखेन वा साधनं व्यवस्थितमविनष्टमेव
व्यवस्थितेन साध्येन व्याप्तं सत् व्यवस्थितमविनष्टमेव साध्यं गमयतीत्याह-यधुभयेति, व्याप्याव्यापकव्युदासानुगृहीतसमुदायार्थसाध्यतेत्यर्थः, यदि वह्निर्न स्यात्तर्हि धूमो न स्यात् इत्युभयव्युदासः, अत्र धूमस्तु दृश्यते तस्मादयमग्निमानित्युभयव्युदासानुगृहीतसमुदायसाध्यता व्यतिरेकव्यायनुगृहीतसाध्यतेति भावः । यदि धर्मविशिष्टेति, अन्वयव्यायनुप्रहाद्वह्निविशिष्टपर्वतादिसाध्यतेति भावः। उभयथापि व्यवस्थितो व्यवस्थितमेव गमयतीत्याह-सर्वथेति । स्थितिसमानाधिकरणविनाशा30 भ्युपगन्तुस्तव मते विनाशस्य विविधादर्शनात्यन्ताभावान्यथाभवनात्मकत्वात्वादिष्टावस्थाया अस्थिरत्वेनावश्यं विनाशादव्यवस्थित
त्वेन कथं साध्यसाधनभावः, पक्षधर्मता वा? साधनस्य धर्मिणोऽप्यव्यवस्थितत्वात् कथं नाश्रयासिद्धिः? साध्यस्यान्यथाभवनात् कथं न हेतोर्विरुद्धतेत्याह-वन्मते विति । विरुद्धतोङ्गाक्नश्च साध्यस्याव्यवस्थितत्वेऽपि साधनस्य पक्षधर्मताऽस्तीत्यभ्यु
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org