________________
त्रिकादिभङ्गाः] न्यायागमानुसारिणीव्याख्यासमेतम् मत्वमसिद्धमतः प्रदेशस्याप्यन्यथावृत्तत्वादभूतत्वाद्वाऽऽश्रयासिद्धिः, विपरीतवृत्तेविरुद्धतापि, सा च पक्षधर्मत्वमभ्युपगम्य, धूमो धूमरूपेणावस्थितो[न]अग्निरग्निरूपेणावस्थानस्यान्यथाभूतत्वात् , अथवाऽवस्थानविपरीतवृत्तित्वादिति त्वन्मतेनेत्थं विरुद्धता, मन्मतसंवादेन तु त्वदीयसर्वहेतुविरुद्धता, अवस्थानविनाशद्वयरूप एवाग्निस्त्वयाऽभ्युपगतः, तंत्र यावन्तमंशमग्नित्वव्यवस्थानरूपं स्पृशति तावताऽभ्यन्तरे सपक्षे च दृष्टो यावन्तञ्च विनाशरूपं स्पृशति तावताऽग्नित्वव्यवस्थानाभावः तद्विपरीते वा विपक्षे दृष्टस्त- 6 स्मादनैकान्तिकहेतुदोषाः, तस्यैवानेर[वस्थान] विनाशद्वयंशत्वे[त]द्वतः प्रदेशस्य च द्वयंशस्य व्यवस्थानांशमात्रादर्श ना]त् वनस्पतिचैतन्ये स्वापवदव्यापि पक्षधर्मे च साधनं तद्वृत्त्यवृत्त्योः, एवं दृष्टान्तेऽपि साध्यसाधनधर्मधर्म्यसिद्धिदोषास्तव्यावृत्त्यादिदोषाश्च योज्याः।।
एवं त्रिकादिभङ्गेष्वपि यावद्योगं दोषाः उक्तवदत्र पक्षे, तस्माद्विपर्ययोऽस्त्विति अन्यदुत्पद्यतेऽन्यद्विनश्यतीत्यादि, यथावस्तुबीजाङ्करकर्माद्यात्मधर्माणुस्थूलपृथिव्यादिवत् । 10
___ एवं त्रिकादिभङ्गेष्वपि यावद्योगमिति, एते द्विकसंयोगभङ्गेषु षट्सु दोषा उक्तास्तथा त्रिकादियोगभङ्गेष्वपि वाच्या इत्यतिदिशति, उक्तवदिति, उक्तदिग्गामित्वात्तेषामपि विकल्पानाम् , तत्रैक, त्रिकसंयोगो यदेवोत्पद्यते तदेवावतिष्ठते विनश्यति चेति, यदेवोत्पद्यते तदेव विनश्यत्यवतिष्ठते चेति द्वितीय इत्युत्पत्तिप्रधानौ द्वौ त्रिकसंयोगौ, तथा विनाशप्रधानौ स्थितिप्रधानौ च, अथवा यदेवोत्पद्यते तदेवोत्पद्यते विनश्यतीत्यनुत्पत्तिदोषपरिहारार्थ उत्पत्तिस्वरूपं विनाशसमानाधिकरणमवधारयन् 15 विकल्पयेत् , तथा शेषेष्वपीति द्वयोर्द्वयोरपि धर्मयोस्त्रिकसंयोगाः कार्याः, उत्पादेनाभिभवाद्विनाशस्योत्पादस्य प्रादुर्भावादवस्थानस्योत्पादेन सहभावात् , अन्योन्याभिभवोद्भवमिथुनवृत्तयो हि गुणाः सत्त्वरजस्तमोऽभिधाना उत्पत्तिविनाशस्थित्याख्या भवन्तीति । तथा चतुष्कसंयोगाः पञ्चकसंयोगाः षदसंयोगाश्च सम्भवन्तो योज्याः, यावद्योगमिति, सकलकरणोपायेन यावन्तो भङ्गास्तावन्त इत्यर्थः, यावन्ति वा दर्शनान्यर्थतः सम्भवन्ति तदर्शनानुसारेण तावन्तो भङ्गाः कार्या इत्यर्थः, अभिहितसामा- 20 नाधिकरण्यानुपपत्तिदोषदिशा भङ्गोपचयाश्रयेण दोषोपचयमपि वर्द्धयद्भिर्व्याख्येयमित्युपायं दर्शयति अत्र पक्ष इति-व्यवस्थामात्रं स्थित्यादयो न भिन्नाश्च परस्परत इत्यस्मिन् पक्षेऽमी दोषा इति, तस्माद्विपगम्य, अन्यथा साधनादेरप्यव्यवस्थितत्वेन विरुद्धत्वं न स्यादित्याशयेनाह-सा चेति, विरुद्धता घेत्यर्थः । विरुद्धतामेव समर्थयति-धूम इति । इदं विरुद्धतोद्भावनं त्वन्मतेनोक्तमवस्थानं नास्ति विनाश एवास्तीति तदविनाभावाद्धेतोर्विरुद्धतेति, वस्तुतस्तु सर्वस्यावस्थान विनाशद्वयरूपतया सर्व एव हेतव उपन्यस्यमाना उभयाविनामावित्वादुमयस्यैष साधका इसकधर्म-25 मात्रसाधने विरुद्धा एवेत्याशयेनाह-अथ बेति, मन्मतसंवादेन-उभयात्मकत्वाश्रयेण, हेलोरवस्थानेनयाविनाभावित्वाभावात् विपरीतेऽपि वृत्तेरुभयव्याप्यत्वादेकस्यैव साधने विरुद्धा भवन्तीति भावः । ममतसंवादमेवाह-अवस्थानेति । एकान्तमाय
रुद्धाव्यभिचारित्वमादश्ये विरुद्धाव्यभिचारित्वलक्षणमनैकान्तिकत्वं प्रकाशयति-तत्रयावन्तमिति । एवं सम्भवनान्तरेषु दोषातिदेशमाह-तथा चतुकलंयोगा इति । स्थित्युत्पत्तिविनाशानां परस्सरसामानाधिकरण्ये ये ये दोषा अभिहितारखे सर्वेऽत्र यथासम्भवं योज्या इत्याह-अभिहितेति । सर्वप्रभेदनिर्भदं द्रव्यं स्थित्युत्पादादयो द्रव्यस्यैवावस्थाः, तन्यजिका क्रिया 30 ते च स्थित्यादयोऽभिव्यजकात् पूर्वमपि द्रव्याभेवेन वर्तम्त इत्यस्मिन् पक्षे प्रोक्तभङ्गाविधानाहोषा अमी सम्भवन्तीलाह-अत्र
सि. क. गतसूत्रयावनमंश० । २ सि. क. °मात्रो दर्श० । ३ सि.x।
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org