________________
manwwwwnwww
M
wwwwww
wom
५९० द्वादशारनयचक्रम्
[ धिनियमविधिः पर्ययोऽस्त्विति तदुपसंहरति-इत्यन्यदुत्पद्यतेऽन्यद्विनश्यतीत्यादि, आदिग्रहणादन्यद्विनश्यत्यन्यदुत्पद्यते, अन्यद्विनश्यत्यन्यदवतिष्ठते, अन्यदवतिष्ठतेऽन्यदुत्पद्यते, अन्यदवतिष्ठतेऽन्यद्विनश्यति, अन्यद्विनश्यत्यन्यदुत्पद्यतेऽन्यदवतिष्ठते, इत्यादिभङ्गाः सम्भवन्तो ग्राह्याः, यथावस्तुबीजाङ्कुरकर्माद्यात्मधर्माणुस्थूलपृथिव्यादिवत्-यद्यद्वस्तु यथा वस्तु बीजमन्यद्वस्तु विनश्यति, अङ्करोऽन्य उत्पद्यते द्रव्यम् , कर्म-गमनमु। त्पद्यते स्थानं विनश्यति, आदिग्रहणात् निर्णयो बुद्ध्यादिर्गुण उत्पद्यते संशयबुद्ध्यादिविनश्यति, आत्माकाशकालदिङ्मनोद्रव्याणि नोत्पद्यन्ते न विनश्यन्ति अवतिष्ठन्ते एव, तथाणवोऽपि, घटादिस्थूलमुत्मचते पिण्डादि विनश्यति, धर्मोऽभिषेचनादिकर्मणोत्पाद्यः, उत्पद्यते गुणः संस्कारः प्रयत्नादिश्च, कारणविनाशादिभिश्च विनश्यति न विभुत्वादिरिति ।
- अत्रानुमान कारणकार्यनानात्वेऽभिधीयते10
यत्तत् सतोऽन्यत् कार्यम् , तदतुल्यविकल्पत्वात् घटपटवत् , कथमतुल्यविकल्पतेतिचेदुच्यते, अत्र चत्वारो भङ्गाः-कारणं सत् कार्यञ्च, कारणं सत् कार्यमसत् कार्य सत् कारणमसत् , कार्यमसत् कारणञ्चेति वा, तेषु द्वौ सम्भवेताम् , कार्यकारणयोईयोरपि सत्त्वं कार्यसत्त्वमेव च, इतरयोरभ्युपगतप्रतिपक्षत्वाद्वादाभावोऽवसितप्रयोजनत्वात् ।
(यत्तदिति) यत्तत् सतोऽन्यत् कार्य तदतुल्य विकल्पत्वात् , घटपटवत्, यत्त्वया कारणं 18 कार्यञ्च सदित्यभिमतं तत्र बीजादेः पुरुषादेश्च कारणात्त भुवनाद्यङ्करादिकार्यमन्यदित्यभिप्रायः, पक्षीक्रियते तु सदित्यभिमताद्वस्तुनोऽन्यत् कार्यमिति, विशेषहेतुस्तदतुल्यविकल्पत्वादिति-सता तेनातुल्यो पक्ष इतीति । एवञ्च यदेवोत्पद्यते तदेव विनश्यतीत्यादि नाभ्युपगन्तव्यम्, अपि तु अन्यदुत्पद्यतेऽन्यद्विनश्यतीत्यादिरूपेणाभ्युपेयमित्याह-इत्यन्यदुत्पद्यत इति । यावन्तो भङ्गाः पूर्वकल्पे सम्भवन्ति तावन्तोऽत्रापि ग्राह्या इति दर्शयति
आदिग्रहणादिति । उत्पद्यमानादिभ्योऽन्यस्यैव विनाशादय इत्यर्थे निदर्शनमाह-यथावस्त्विति, अङ्कुरादितोऽन्यद्वस्तु 20 बीजं विनश्यति, अङ्कुरोऽन्य उत्पद्यत इति द्रव्यनिदर्शनम् , स्थितिक्रियाऽन्या विनश्यति, गमनक्रिया चान्योत्पद्यते इति कर्मनिद
शनम्, आदिपदेन गुणनिदर्शनं विज्ञेयं यथा संशयबुद्धिविनश्यति अन्या च निर्णयबुद्धिरुत्पद्यत इति भावः। उत्पाद विनाश वतोऽन्यस्यैव स्थितिरिति दर्शयति-आत्मेति विभूनां निदर्शनमिदम् । अणुनिदर्शनमाह-तथाणवोऽपीति स्थितिमात्रधर्माण इति भावः । स्थूलेषत्पादविनाशौ दर्शयति-घटादीति । धर्म इति अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थयज्ञदानप्रोक्षणदिनक्षत्रमंत्रकालनियमाश्च धर्ममुत्पादयन्ति, अभिषेचनं स्नानम् , उपवासः अल्पीकृताहारो निरशनञ्च, ब्रह्मचर्य 'स्मरण 25 कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ।' इत्यष्टविधमैथुनप्रवृत्तिराहित्यम् , गुरुकुलवासः
उपनीतस्य वेदाध्ययनार्थ भिक्षाचर्यादिनियमेन गुरूपसेवनम् । यज्ञो राजसूयादिः, दानं प्रसिद्धम् , प्रोक्षणं द्रव्यादीनां शुचीकरणम् , दिक् कालविशेषे दिग्विशेषाभिमुखोऽनुष्ठानसेवनम्, नक्षत्रं शुभनक्षत्रेऽनुष्ठानम्, मंत्रः गायत्र्यादिः, कालः पूर्वाह्लादिः, नियमः वर्णाश्रमादिधर्मस्य निमित्तं कारणम् , अभिषेचनादिक्रियाविशेषणात्मनि संस्कार उत्पद्यते क्रियाश्च विनश्यन्ति ज्ञानादिभ्यः
प्रवृत्तिरुत्पद्यते तन्निमित्तभूता ज्ञानादयो विनश्यन्ति इति दर्शयति-उत्पद्यत इति । गुणाः घटादिकारणविनाशेन विनश्यन्तीति 30 दर्शयति-कारणविनाशादिभिश्चेति । विभुत्वादयो नित्यगुणा अवस्थिता एवेति सूचयति-नेति । अथ कार्यकारणयो दं साधयति-यत्तदिति, इदानीं विधिविध्यरोक्तमसतोऽन्यत्कार्यमिति चक्र असतो वैपरीत्येन वर्त्तयति । व्याचष्टे-यत्त्वयेति बीजादिकारणैः अङ्कुरादिकार्याणि पुरुषादिवादिमते पुरुषादेर्वा कारणात् तनुभुवनादिकार्याणि भिन्नानीत्यर्थः । पक्षं दर्शयतिसदित्यभिमतादिति । हेतुमाह-तदतुल्येति सत्सम्बन्धिवक्ष्यमाणविकल्पासम्बद्धत्वादित्यर्थः । कार्यस्य सद्भूतकारणान्य
१ सि. क. तत्तुभवानायंकु० ।
maamwwmarwawwwanm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org