________________
सदसद्विकल्पाः ] न्यायागमानुसारिणीव्याख्यासमेतम् विकल्पोऽस्येति कार्यमभिसम्बध्यते, तस्य त्वया कारणादन्यत्वेनेष्टत्वान्नाश्रयासिद्धिदोषो हेतोः, घटपटवदिति दृष्टान्तः, यथा घटः पटेनातुल्यविकल्पो लोके पृथुकुक्षिबुध्नवृत्तोड़ग्रीवाद्याकारादिविकल्पः पटाचतुरस्रदीर्घादिसंस्थानादिविकल्पादन्यो दृष्टः, तथा कार्य सतोऽन्यदिति, अत्राह-कथमतुल्यविकल्पतेति ? असिद्धमतुल्यविकल्पत्वमिति चोदकाभिप्रायः, अत्र चत्वारो भङ्गाः-सम्भाव्यास्तु यो वा. कारणं सत् कार्य चेति, यो वा कारणं सत् कार्यमसत्, कार्य सत् कारणमसत्, कार्यमसत् कारणश्चेति वा, तेषु द्वौ सम्भवेताम् , न द्वौ तद्यथा, इह कार्यकारणयोर्द्वयोरपि सत्त्वं कार्यसत्त्वमेव चेयेतद्विकल्पद्वयं स्यादिति-कारणं सत् कार्य सत्, कारणमसत् कार्य सदित्येतौ विकल्पौ भवितुमर्हतो नेतराविति, कस्मात् ? इतरयोरभ्युपगतप्रतिपक्षत्वाद्वादाभावात्-अभ्युपगतः प्रतिपक्षो यस्मिन्येन वादिना सोऽभ्युपगतप्रतिपक्षो विकल्पो वादी वा, तद्भावादभ्युपगतप्रतिपक्षत्वात् , किं भवति ? वादाभावो भवति, अवसितप्रयोजनत्वात् , परश्चेदभ्युपगच्छति किमिति वादः क्रियते ? तौ च विकल्पौ सत् कार-10 णमसत् कार्य, असत् कारणमसत् कार्यश्चेति, यदि त्वमभ्युपगच्छसि, अवसितप्रयोजनः स्यामहम् , ततो वादाभावाद्विकल्पद्वयं स्यादिति ।
किश्चातः ? उच्यते
तद्यदि तावदुभयसत्त्वमत्र कारणाविर्भाववत् कार्याविर्भावः, उपलब्धिलक्षणप्राप्तत्वे सति तदात्मकसत्त्वाविशिष्टत्वात् , कारणस्वात्मवत् , अथ न कारणाविर्भाववत् कार्यावि-15 भावः, सच्च कार्यमिति निश्चितं ततश्च तद्वैलक्षण्यान्न तर्हि सत् कारणम् , असत्, सद्विलक्षणत्वात् खपुष्पवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणम् , न, इतरेतरासत्त्ववैलक्षण्यात्, अथैवमपि वैलक्षण्ये कारणसत्त्वविनिश्चयो न निवर्त्तते आविर्भावात्मकञ्च तत्, न तमुनाविर्भावात्मकत्वात् कार्य सत्, खपुष्पवत् , इतरथा हि नित्यमेवाविर्भवेत् , सत्त्वात् कारणवत्, कारणं वा नित्यं नाविर्भवेत् , अनाविभावात्मकसत्त्वाविशिष्टत्वात् कार्यवदिति। 20
(तद्यदीति) तद्यदि तावदुभयसत्त्वं-कार्यसत्त्वं कारणसत्त्वश्चेत्ययं विकल्पः परीक्ष्यते तिष्ठतु तावदसत् कारणं सत् कार्यमिति विकल्पः अत्र-उभयसत्त्वे कारणाविर्भाववत् कार्याविर्भावः, स्यादिति
wwww
wwww
त्वेष्टेस्तदतुल्यविकल्पत्वं नासिद्धमित्याह-तस्येति । दृष्टान्तं घटयति-यथेति, अत्र विकल्पशब्देन भेदाः गृहीताः, घटपटयोविशेषाणामन्यत्वात् तदतुल्यविकल्पत्वं विज्ञेयमिति भावः । अतुल्यविकल्पत्वमेव दर्शयितुं शङ्कते-कथमिति । असिद्धतानिरा
अत्रेति, कारणं सत् कार्यञ्च सत्, कारणं सत् कार्यमसत्, कारणमसत् कार्य सत् , कारणमसत् 25 कार्यञ्चासदिति विकल्पाः, तत्र सम्भविनौ विकल्पो दर्शयति-तद्यथेति, उभयसत्त्वकार्यसत्त्वयोरेव वादविषयतया तदितरविकल्पविषये वादाभावादिति भावार्थः । तदेवाह-इतरयोरिति, उभयासत्त्वकार्यासत्त्वविकल्पयोरुभयसत्त्वकार्यसत्त्वपक्षयोः प्रतिपक्षत्वात्तत्र च वादाभावादित्यर्थः । अभ्युपगतः प्रतिपक्षो यस्मिन् येन वेति बहुव्रीह्याश्रयेगाह-अभ्युपगत इति । तत्र प्रथम विकल्पमुभयसत्त्वरूपं विचारयति-तद्यदीति । तद्व्याचष्टे कार्यसत्त्वमिति । कारणकार्ययोः सत्त्वाविशेषादेवाविशेषे सदा कारणोपलब्धिवत् कार्यस्याप्युपलम्भः स्यात्, योग्यत्वे सत्यविशेषात्, कारणवात्मवदित्याह-उभयसत्त्व इति कार्यमपि 30
१ सि. क. सम्भाव्यस्तु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org