________________
www
५९२ द्वादशारनयचकम्
[विधिनियमविधिः पक्षार्थः सम्बध्यते, उपलब्धिलक्षणप्राप्तत्वे सति तदात्मकसत्त्वाविशिष्ट[त्वात् ,]कारणस्वात्मवत्यथाऽऽवरणदूरातिसामीप्याद्यनुपलब्धिकारणविरहे सति सत्त्वात्मकं कारणमाविर्भवति नित्यं मृदादि तथोपलब्धिकारणसत्त्वे सति तदात्मकसत्त्वाविशिष्टं कार्यमाविर्भवेन्नित्यमिति, अथेत्यादि, एतेन सस्वेऽप्याविर्भावानाविर्भावकृतं वैलक्षण्यमापाद्यते कारणकार्ययोः, ततश्च सद्विलक्षणत्वादसत् कारणमा5 पद्यतेऽभ्युपगतप्रत्यक्षादिविरुद्धम् , तस्यानैकाऽन्तिकत्वचोदना तु [ननु]घटसत्त्वं पटसत्त्वविलक्षणमिति, सतो हि घटात् पटो विलक्षणः संश्च दृष्टः, खपुष्पमसत्, तत्र संदेहः किं खपुष्पवदसत् कार्य स्यात् ? घटविलक्षणपटवद्वा स्यात् ? इति, अत्रोच्यते न, इतरेतरासत्त्ववैलक्षण्यात्-घटः पटात्मना नास्ति पटोऽपि घटात्मना नास्त्येवेत्यसत्त्वांशाभ्यामेव वैलक्षण्यमनयोरतो विपक्षासिद्धेः सपक्ष एव वृत्तेः
नानकान्तिकः, शेषो ग्रन्थः सत्कार्यवादविपर्ययेण तुल्यगमत्वादुक्तानुसारेणोद्यो यावदनाविर्भाव[त्मि]10 कसत्त्वाविशिष्टत्वात् कार्यवदिति प्रथमचक्रकं कार्यसत्त्वप्रसङ्गेनोक्तम् ।
अथ न कार्यानित्यप्रादुर्भाववत् कारणानित्यप्रादुर्भावः सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कार्यम् , असत् , सद्विलक्षणत्वात् खपुष्पवत् , इतरः कारणवत् , खपुष्पमपि वा सत् , अनित्यप्रादुर्भावानुपलब्धेः कारणवत् , ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न,
इतरेतरासत्त्ववैलक्षण्यात्, अथैवमपि वैलक्षण्ये कार्यसत्त्वविनिश्चयो न निवर्त्तते प्रादुर्भावात्म15 कश्च तत् , न त_प्रादुर्भावात्मकत्वात् कारणं सत् , न त्वेवं भवत्यतः कारणं सदुपलभ्यत्वात् कृतवत् , कृतमपि वा कारणवदसत्, उपलभ्यत्वात् , सत्त्वे वा विशेषो वक्तव्यः, अविशेष
सदाऽऽविर्भवेदिति पक्षः । हेतुमाह-उपलब्धीति, अनुपलब्धिकारणविरहे सतीत्यर्थः । अनुपलब्धिकारणान्येव दर्शयन्नाहयथेति । ननु कार्ये सत्त्वनिश्चयेऽपि न कारणाविर्भाववत् सदा कार्यस्याविर्भावः कार्यत्वादेव, सदा प्रादुर्भावे हि कारणमिदं
कार्यमिदमिति निर्णय एव न स्यात्, दृश्यते च कारणकार्यभावस्तस्मान्नैष दोष इत्याशङ्कते-अथेति । तथा सति कारणस्य 20 सद्भूतकार्यविलक्षणत्वादसत्त्वं प्रसज्यते प्रत्यक्षविरुद्धमित्युत्तरयति-ततश्चेति । कारणमसत् सद्विलक्षणत्वात् -सता कार्येण सह विलक्षणत्वात् खपुष्पवदित्यनुमाने व्यभिचारमाशङ्कते-तस्यानैकान्तिकत्वेति, अनैकान्तिकत्वमेव संघटयति-सतोहीति सद्विलक्षणत्वे सत्त्वसामानाधिकरण्यं घटपटाद्यन्तर्भावेण दृश्यते, असत्त्वसामानाधिकरण्यञ्च खपुष्पाद्यन्तर्भावेण, तथा च कार्ये उभयसमानाधिकरणसद्विलक्षणत्वधर्मदर्शनात् संशय उदेति किमिदं कार्य घटपटवत् सत् , उत खपुष्पवदसदिति, ततः संशया
धायकत्वाद्धेतुरयमनैकान्तिक इति भावः । समाधत्ते-इतरेतरेति, घटपटयोर्नहि सत्त्वेन वैलक्षण्यमस्ति, किन्त्वितरेतराभावा. 25 मकासत्त्वविलक्षणत्वमेवेति न हेतोर्विपक्षवृत्तित्वं सपक्ष एव वृत्तेरतो नानैकान्तिकत्वमिति भावः । शेषप्रथमचक्रकव्याख्यानं विधिविध्यरे कृतमेव विपर्ययेणात्र विज्ञेयमित्यतिदिशति-शेषो ग्रन्थ इति. अथ कारणस्य सद्विलक्षणत्वेऽपि कार्यक्दसत्त्वं नेष्यते किन्तु कारणं सदेवेति निश्चयो न त्यज्यते नित्याविर्भावात्मकमेवेष्यते तद्यनाविर्भावात्मकत्वात् कार्य सन्न स्यात् खपुष्पवत् , आविर्भावात्मकस्य कारणस्य हि सत्त्वमनाविर्भावात्मकस्य कार्यस्यासत्त्वं विनाऽनुपपन्नम् , तदेवं प्रमाणसिद्धं कार्यस्यासत्त्वं यदि नेष्यते तर्हि तस्य नित्यमेवाविर्भावः स्यात् कारणवत् , अनाविर्भावात्मककार्यसत्त्वाविशिष्टत्वादेव वा कारणमपि न नित्यमाविर्भ10 वेदिति प्रथमचक्रकं विज्ञेयमिति भावः । यदि कारणानित्यप्रादुर्भाव आपादितो न खीक्रियते तदाऽऽह-अथेति, इतरः वैधर्म्यदृष्टान्तः । अनित्येति, कार्यस्योत्तरकालमेव यथा प्रादुर्भाव उपलभ्यते तथा खपुष्पादेः कारणस्य चानुपलम्भादुभयत्रानित्य
१ सि. क. तथानुपलब्धिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org