SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ nawwwww mmamimanamammmm शोकचक्रकावर्तनम्] न्यायागमानुसारिणीव्याख्यासमेतम् ५९३ वैलक्षण्यानुपपत्तेः, विशेषोन्नयनेऽपि विशेषस्यासदाश्रयत्वात् ततोऽन्यत्वमेव-तत्रासत्त्वमेव, अघटपटवदिति । ___ अथ न कार्यानित्यप्रादुर्भाववदित्यादि कारणासत्त्वप्रसङ्गभङ्गचक्रकं द्वितीयं यावदुपसंहारग्रन्थोऽतः कारणं सदुपलभ्यत्वात्-आविर्भाव[त्म]कत्वात् कृतवदित्यर्थः, स्यान्मतं कृतं घटादिकार्यमकृतात् कार्यात् कारणाच्चान्यद्विलक्षणश्च तत्तस्मादसदनिये, तच्च न विशिष्टं कृतमपि कारणवत् । सदुपलभ्यत्वादाविर्भाव[त्म]कत्वात् कारणवदेवेति, उपलभ्यत्वविशेषणमावरणाद्यभावप्रकाशाद्युपलब्धिप्रदर्शकमिति, शेषं प्रागुक्तसत्कार्यवादद्वितीयचक्रकविपर्ययेण तुल्यगमं यावत्ततोऽन्यत्वमेवेति, तत्र किमुक्तं भवति ? तद्व्याख्यानार्थमाह-तत्रासत्त्वमेव अघटपटवदिति-घटपटाभाव एव पटो घटस्तथा विशेषोऽपि कल्प्यमानोऽसत्त्वं [अ]सहारेण स्यात्, नान्यथेत्यविशेषात् वैलक्षण्यानुपपत्तिरिति द्वितीयं चक्रकम् । 10 अर्थतत्साम्यमनिच्छतोऽवश्यं कार्यमेव सदित्यवधारणपक्षः स्यात् , कार्यशब्दसमीपे एवकारप्रयोगात् सत्त्वं कार्य एव नान्यत्रापीति ततश्च कारणमसदिति प्रसक्तम् , तथा च कारणविपरीतानिवृत्तघटादीनां सत्त्वतुल्यं कार्यसत्त्वमिति कार्यासत्त्वनिवृत्त्येकान्तत्यागाच्चाभ्युपगमविरोधः नाममात्रेऽविसंवादः। अर्थतंत्साम्यमित्यादि, पूर्वदोषपरिहारेणान्यतरसत्त्वपरिग्रहे कार्यमसदिति नेच्छतोऽवश्य 15 प्रादुर्भावानुपलब्धिरूपहेतुसद्भावात् कारणवत् खपुष्पमपि सद्भवेदिति भावः । कारणासत्त्वेति, अतः कारणं सदित्यप्रे उपसंह्रियमाणत्वादिति भावः। अत इति यथा निवृत्तो घट आविर्भावात्मकत्वात् सन् तथा कारणमपीति भावः। अथ कृतघटस्य कारणवैलक्षण्यं शङ्कते-स्यान्मतमिति । उपलभ्यमानत्वे सत्यपि यदि कारणस्यासत्त्वं तर्हि कृतमपि तद्वदेवासत् स्यात्, उपलभ्यमानत्वात् , अविशेषात्, अकृतघटात् कारणाच्च कृतं विलक्षणमतोऽसदनित्यच्चेति प्रतिज्ञामात्रात् विशेषासिद्धेरित्युत्तरयतितच्च न विशिष्टमिति । आविर्भावात्मकत्वादित्यनुक्त्वोपलभ्यत्वादिति विशेषेणाभिधानस्य फलमाह-उपलभ्यत्वेति, 20 आवरणाद्यभावपदेन प्रतिबन्धकाभावः सूचितः, प्रकाशाद्युपलब्धिपदेन चाविर्भावसामग्रीसम्पत्तिः प्रदर्शिता, यदि भवन्मतेन कार्यकारणयोः सत्त्वं तुल्यमेव, तुल्ये च सत्त्वे विशेषो वक्तव्यः, अस्माद्विशेषहेतोः कार्यस्यानित्यप्रादुर्भावः न तु कारणस्य, तद्धि नित्यप्रादुर्भावात्मकमिति, नोच्यते चेद्विशेषहेतुरविशेषोऽनयोः, अविशेषे च वैलक्षण्यानुपपत्तिः घटपटखात्मवत् , यथा घट एव घटखात्मेति तयोर्न वैलक्षण्यम्, नन्वस्ति विशेषः घटादिकार्यस्य मृत्पिण्डादिकपालादिपटादिखरविषाणादिः प्राक्प्रध्वंसेतरेतरात्यन्ताभावरूप इति चेन्न, एवं विशेषोन्नयनेऽपि विशेषस्यास्यासदाश्रयत्वात्ततोऽन्यत्वमेवेति भावनीयमित्यतिदिशति-शेषं 25 प्रागुक्तति यथा पटाभाव एव घटो घटाभावश्च पट इति विशेषस्य घटपटादेरसदाश्रयेणैव भावादसत्त्वं तथा चाविशेषात् कार्यकारणयोः सत्त्वतुल्यता प्रसक्तेति भावः। अथोभयोः सत्त्वमनिच्छतः भङ्गचतुष्के तृतीयो भङ्गः कारणमसत् कार्य सदिति कार्यस्यैव सत्त्वरूप इष्यते तदाह-अथैतत्साम्यमिति । पूर्वदोषेति, उभयोः साम्यतालक्षणदोषपरिहारेणेत्यर्थः, पूर्वपक्षपरिहारेणेति वा पाठे उभयसत्त्वपक्षपरिहारेणेत्यर्थः, अन्यतरसत्त्वपरिग्रहे कारणमसत् कार्य सदिति पक्षखीकारे द्वयोरन्यतर. सत्त्वाभ्युपगमेऽवधारणस्य प्राप्तेः कार्यमेव सदिति पक्षार्थः सम्पन्नः, कार्यशब्दसमीपे एवकारप्रयोगाच्च यत एवकारस्ततोऽन्य-30 त्रावधारणमिति न्यायात् कार्यमेव सत् नान्यत् कारणमिति कारणमसदिति प्राप्तम् , एवञ्च कृत्वा कारणमसत् सतोऽसदिति असतश्च सदिति संज्ञा क्रियते, अनिवृत्तघटादयो ह्यसन्तः, तेषां सदिति सतः कारणस्यासदिति संज्ञा क्रियत इति न १ सि. क. अथैतस्मात् सा०। द्वा० न० ३७ (७५) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy