________________
www.amM
५९४ द्वादशारनयचक्रम्
[विधिनियमविधि: कार्यमेव सदित्यवधारणपक्षः स्यात् , स चासत्कारणप्रतिषेधवादविपर्ययेण दोषाभिधानवदिहापि कार्यों यावन्नाममात्रेऽविसंवाद इति, एवञ्च सति कार्यासत्त्वनिवृत्त्यैकान्तत्यागाचाभ्युपगमविरोध इत्यादि गतार्थम् ।
___अथैवं सत्त्वं नावधार्यते कारणमप्यस्तीतीष्टत्वादिति चेत्, अवैलक्षण्यादिकृताः पूर्व5 दोषा एव, अथोच्येत सर्वथा सत्त्वात् मृत्पिण्डादीनामेककारणता यथैकस्यैवाहेः संवर्ते विवर्ते
च तथा तथा तस्यैवावस्थानात् , यदेव कारणसत्त्वं तदेव कार्यसत्त्वमपि, यदेव कार्यसत्त्वं तदेव कारणसत्त्वमपीति नावधारणकृतो दोषोऽस्ति नापि पूर्वतुल्यत्वापत्तिदोषः, एकत्वात् , अनेकविषयत्वात्तुल्यत्वस्येति ।
(अथैवमिति ) अथैवं-अथ कार्यमेव सदित्यवधार्यमाणे एते दोषा इति सत्त्वं नावधार्यते 10 कार्यमस्त्येव कारणमप्यस्तीतीष्ठत्वादिति चेत् ? अवैलक्षण्यादिकृताः पूर्वदोषा एव । अथोच्येत सर्वथा
सत्त्वादित्यादि यावदनेक विषयत्वात्तुल्यत्वस्येति, पक्षद्वयोक्तदोषपरिहारार्थमित्थं कल्प्येत सर्वथा सत्त्वात् सर्वेऽपि पिण्डशिवकघटादिभेदा एककारणाः, तथा न कश्चिद्विशेषोऽस्ति, यथैकस्यैवाहेः संवर्ते विवर्त्त[चा]भिन्नस्य कारणता, नाहेः पृथग्भूतौ संवर्त्तविवौ, तथा तथा तस्यैवावस्थानात् नाप्यहिः
संवतॊ विवर्तो वा न भवति तथेति, तद्भावयति-यदेव कारणेत्यादि यावत् कारणसत्त्वमपीति, नावधा15 रणेत्याग्रुपनयः, इतिशब्दस्य हेत्वर्थत्वात् , यदि कार्यमेव सत् अथ कारणमेव सदित्युच्येत, यदि सदेव कारणं कार्यश्चेत्युच्यते सर्वथा तस्य कारणस्य स्वसंवर्तविवर्तकरूपत्वान्नावधारणकृतो दोषोऽस्ति परमतापेक्षत्वादवधारणस्यापि, नापि पूर्वतुल्यत्वापत्तिदोषः खपुष्पाद्यसद्विलक्षणप्रादुर्भावाप्रादुर्भावकारणतत्र विसंवाद इति प्रागुक्तरीत्याऽत्र भाव्यमित्यतिदिशति-स चेति । अथानिवृत्तघटादीनामसत्त्वे कार्यमेव सदित्येकान्तपरित्या.
गापत्तिरित्याह-एवञ्च सतीति, कार्यासत्त्वनिवृत्तिः कार्यसत्त्वं तदेकान्तत्यागोऽनन्तरोक्तविधिना प्राप्तः, अनिवृत्तघटादीनां 20 सदिति संज्ञामात्रत्वात् सदित्यभ्युपगमविरोधः कार्यमात्रस्य सत्त्वासिद्धेरिति भावः । अथ कार्यमेव सदिति नावधार्यते कारणस्यापि सत्त्वात्, किन्तु कार्य सदेवेत्यवधार्यते कार्य नियमात् सद्भवतीति, सत्तु कार्य वा भवेत् कारणं वा तत्र नाग्रह इत्यादिशङ्कायामाहअथैवमिति । कार्यकारणयोस्सत्त्वे आविर्भावानाविर्भावकृतो विशेषो न स्यादित्याद्यविशेषापत्तिदोषः प्रागुक्तस्तदवस्थ एवेत्याहअवैलक्षण्यादिकृता इति । ननु कारणकालेऽपि कार्य सदेव, असतः सद्रूपताऽसम्भवात् , कारणकार्ययोरभेदात् कारणस्यैव हि पिण्डशिवकादयो भेदाः, तस्मान्न तदानीं कारणकार्ययोः कश्चिद्विशेषोऽस्तीति शङ्कते-अथोच्यतेति । पक्षद्वयेति कारण25 कार्ययोरुभयोस्सत्त्वपक्षे प्रोक्ताविशेषापत्तिदोषपरिहारार्थमित्यर्थः, सर्वथेति. कारणकाले कारणकार्ययोः सर्वथा सत्त्वादित्यर्थः ।
एकस्मादेव हि कारणात् मृत्पिण्डशिवकादिप्रमेदाः अहेः संवत विवाविव भवन्ति, कारणस्यैव तेन तेन प्रकारेणावस्थानात् न भेदः कारणात् कार्यस्येति प्ररूपयति-सर्वेऽपीति । तत्र व्याप्तिं दर्शयति यदेवेति यदेवेत्यादि कारणसत्त्वमपीति नावधारणेत्यादिग्रन्थ उपनयरूप इत्यर्थः, कारणकाले कारणसत्त्वकार्यसत्त्वयोरभेदात् कार्यमेव सत् कार्य सदेवेत्यवधारणकृतो दोषो नास्तीति भावः । उभयविधावधारणमपि दर्शयति-यदि कार्यमेवेति, कायमेव सदित्युक्तावप्यभेदात् कारणमेव सदित्युक्त 30 भवतीत्यर्थः, यदि कार्य सदेवेत्युच्यते तदापि कारणस्य सत्त्वं न निषिद्धमेवेत्याह-यदि सदेवेति । उभयोः सत्त्वे पूर्वोक्ततुल्यत्वापत्तिदोषोऽपि नास्ति, उभयोरभेदादेव, अनेकाश्रयं हि तुल्यत्वम्, इदमनेनाभ्यामेभिर्वा तुल्यमिति दर्शनादित्याशयेनाहनापीति । तुल्यत्वाभावे हेतुमाह-निरस्तेति । अथ कारणकार्ययोरेकरूपत्वाभ्युपगमेन सत्त्वाविशेषात्तदवस्थ एवाविशेषदोष
१ सि. क. तथैवं । २ सि.क. प्रभेदाभेदात्वैककारणता । ३ सि.क. स्य कारणस्य का० । ४ सि. क. पीति इति ता० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org