________________
कारणस्याक्रमत्वम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५९५
कार्याविलक्षणदोषो वाऽस्ति, एकत्वात्, अनेकं हि तुल्यमतुल्यं वा स्यात्, इदमनेन तुल्यं घटादि पटादिवदिति, निरस्तपूर्वापरभावात्मनि कार्ये कतरद्भिन्नं कारणं नाम, कारणात्मकभावितकार्यत्वाद्वा कतरत् कारणमिति, न त्वस्ति भेदस्तस्माददोष इति ।
अत्रोच्यते एवमप्येकत्वाद्विशेषाभावः, ततो यथैव कारणमनुपादानसिद्धं सामान्यमन्तभविताशेषविशेषसत्त्वात्मकं तथा कार्यमपीति कारणवदेवाक्रमं स्यात् ।
www.wm
5
Amm
( अत्रेति ) अत्रोच्यते एवमप्येकत्वाद्विशेषाभावस्त्वयाऽधुना उक्तः, ततः किं ? तत इति, यथैव कारणमनुपादानेत्यादि यावदक्रमं स्यादिति, विशेषाभावात् कारणवत् कार्यमनुपादानसिद्धम्, अनुपादानसिद्धत्वात् सामान्यं सामान्यत्वाच्चान्तर्भाविताशेषविशेष सत्त्वात्मकमेव तस्य कार्यस्य सामान्यत्वादनुपादानसिद्धत्वादन्तर्भाविताशेषशिबकस्थास कोशकुशूल घटादिविशेषसत्त्वात्मकत्वात्, कार्यमपि कारणवदेवाक्रमं स्यात्, उपलभ्यते च क्रमेण प्राक् पिण्डः पश्चाच्छिवक इत्यादि ।
wwwww
अथ मा भूदेष दोष इत्यक्रममेव कार्य कारणे कार्यस्य सन्निहितत्वात् यदि क्रमवदह्यादिकारणं स्यान्न स्यात् कारणं क्रमवत्त्वात् खपुष्पवत्, युगपत्सन्निहितसर्वधर्मकं कारणमिष्टम्, नो चेत् संवर्तविवर्त्तावहाविवाऽऽकाशेऽपि स्यातामुभयोरक्रमतुल्यत्वात्, तस्मादक्रममेव सर्वम्, कारणत्वादेव भेदेनाभवदप्यक्रमरूपेण भवदपि तत् सदेवेति ।
wwwww
अथ मा भूदित्यादि यावत् सदेवेति स्यान्मतं दृश्यत एवाक्रमं कारणम्, अहाविव संवर्त्त - 10 विवर्त्तविवर्त्तसंवर्त्तसद्भावात् कारणे कार्यस्य सन्निहितत्वात् यदि क्रमवदह्यादिकारणं स्यान्न स्यात् [कारणं] क्रमवत्त्वात्-अक्रमत्वाभावादित्यर्थः, अक्रमात् कारणादत्यन्तविलक्षणत्वात् खपुष्पवत्, युगपत्सन्निहितसर्वधर्मकं कारणमह्यादीष्टम्, नो चेत् संवर्त्तविवर्त्ता महाविवाऽऽकाशेऽपि स्याताम् उभयोरक्रमतुल्यत्वात्, तस्मान्नित्यभूतैरहिसंवर्त्तविवर्त्तादिभिः सहैवाक्रम एवाहिरात्मस्वरूपभूतैः, तस्मात् कारणत्वादक्रममेव सर्वम्, अह्यादिकारणस्वात्मवत्, किमर्थं तर्हि कारणवन्न भेदेन भेदा गृह्यन्ते तदैवेति चेदुच्यते कारणत्वादेव 20 कारण स्वात्मवत्, अहिः संवर्त्तविवर्त्तादिभेदेनाभवन्नपि कारणत्वेनैवाक्रमरूपेण भवन्नपि स एवास्ति गृह्यत एव सत्त्वात्, तदेव कारणं तथा तथा गृह्यत इत्यर्थः ।
wwww
wwww
Jain Education International 2010_04
10
wwwwwwww
इत्युपपादयति-अत्रोच्यत इति । अविशेषे दोषमाह-यथैवेति कारणस्य हि पूर्वदृष्टश्रुतानुभूतमुपादानं किञ्चिन्नास्तीत्यनुपादानमत एव सामान्यम्, अत एवान्तर्भावितनिखिलविशेषत्वादक्रमं तथा कार्यमपि स्यादेकत्वात् निर्विशेषत्वा चेति भावः । तत्र दृष्टानुपपत्तिमाह-उपलभ्यते चेति, कार्यस्याक्रमत्वं कारणत्वादेवेष्टमित्याशङ्कते - अथ मा भूदिति । अहौ संवर्त - 25 विवर्त्तादिकार्यस्याक्रमस्यैव सदा सन्निहितत्वात् सदा सन्निहितानां कोऽयं पूर्वापरभावनैयत्यरूपः क्रम इत्याशयेनाह - अहाविवेति । यदि क्रमवदेव कारणमपि स्यात्तर्हि तत्कारणमेव न भवेत्, असन्निहितसर्वकार्यत्वात् क्रमवत्त्वादित्याह यदीति । खपुष्पे दृष्टान्ते हेतुसङ्गत्यर्थं हेतुं प्रतिषेधरूपतया व्याचष्टे - अक्रमत्वाभावादित्यर्थ इति । कारणादयन्तवैलक्षण्यं नेष्टमिति दर्शयति युगपदिति । कारणे कार्याणां युगपदसन्निहितत्वे प्रतिनियतकारणात् कार्याभिव्यक्तिर्न स्यादित्याह - नो चेदिति । युगपत्सन्निहितसर्वकार्यत्वादेव कारणतया सर्वमक्रियमेवेत्युपसंहरति- तस्मादिति । ननु युगपत्सर्वेषां कार्याणां सन्निहितत्वे तदानीं 30 भेदा मेदेन कुतो न गृह्यन्त इति शङ्कते - किमर्थमिति । कारणरूपत्वादेव ते तदानीं तत्तद्रूपेण न गृह्यन्ते कारणत्वादेव हि कारणकारणस्वात्मनोरिव भेदेन न ग्रहणमित्याह - कारणत्वादेवेति । तथा च कारणं मेदेनाभवदपि अक्रमरूपेण भवदपि सदेव
For Private & Personal Use Only
www.jainelibrary.org