Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 321
________________ ५२८ वावशारनयंचक्रम् [विधिनियमनिधिः अनेनापि प्रकारेण भवताऽशेषसाधनावयवाः धंस्यन्ते तथाव्यवस्थानविनाशात् , तथाव्यवस्थानाविनाश एव हि सपक्षमपि तत्स्यात् न विनाशे, अग्निरत्र धूमादिति यथा, यथा हि धूमो धूमरूपेण व्यवस्थितो व्यवस्थित एवाग्नावग्नितया तद्वत्तया च प्रदेशे, त्वन्मतेन तु विविधाऽदर्शने विनाशे त्वयेष्टयाऽवस्थयाऽवश्यं विनंष्टव्यमित्यवस्थानविपरीतवृत्तित्वादस्य 5 पक्षधर्मत्वमसिद्धमतः प्रदेशस्याप्यन्यथावृत्तत्वादभूतत्वाद्वाऽऽश्रयासिद्धिः विपरीतवृत्तेविरुद्धतापि। अनेनापि प्रकारेणेति, एवं तावत् पक्षदोषा अभिहिताः, न केवलं पक्षदोषा एव किं तर्हि ? अवस्थितार्थविनाशाभ्युपगमेनानेन भवताऽशेषसाधनावयवाः ध्वंस्यन्ते, किं कारणं ? तथाव्यवस्थानविनाशात् यथा स्फुटितपृष्ठत्वात् खरं खरविषाणमाकाशस्फोटवदिति वचनवत्, तद्वैधhण साधनव्यवस्था 10 दर्शयति-तथाव्यवस्थानाविनाश एव हि सपक्षमपि तत् स्यात्-तद्धि साधनं साधनं भवत् पक्षण सहापि सतो व्यवस्थितस्यार्थस्याविनाशे भवितुमर्हति, न विनाशे, किमिव ? अग्निरत्र धूमादिति यथा, यथा हि धूमो धूमरूपेण व्यवस्थितो व्यवस्थित एवानवाग्नितया तद्वत्तया च प्रदेशे, यद्युभयव्युदासानुगृहीतसमुदायार्थसाध्यता यदि धर्मविशिष्टधर्मिसाध्यता सर्वथा व्यवस्थितस्य वस्तुनो व्याप्यो धूमांशो व्यापकेनाइयंशेन व्याप्तः तमंशं व्यवस्थित एव व्यवस्थितं गमयत्यविनष्टमविनष्ट इति स्यात् साधनत्वं 15 साध्यत्वञ्च, त्वन्मते तु पुनर्विविधादर्शने विनाशेऽत्यन्ताभावेऽन्यभवनरूपे वा विपरीतात्मके त्वयेष्टयाsवस्थयाऽवश्यं विनंष्टव्यमित्यवस्थानविपरीतवृत्तित्वात्-अन्यथाभवनरूपत्वादस्य-धूमाख्यस्यांशस्य पक्षध. wwwwwwwwww wwwwwwww बीजाङ्कुराधर्थाभावात् कोऽवतिष्ठते ? यं यदेवेति पदं गृह्णीयात्, तस्माद्यदेवेत्यादिव्यपदेशो न सम्भवतीत्याह-तन्मात्रेति, अर्थशून्यविनाशमात्रेत्यर्थः । तदेवं यदेवावतिष्ठते तदेव विनश्यतीत्यवस्थानधर्मिणि विनाशविधेयतात्मके पक्षे दोषा उक्ताः। तथाऽन्येषु साधनावयवेष्वपि दोषसम्भवात् सर्वे साधनावयवास्त्वया विध्वंसिता इत्याह-अनेनापीति । यदेवावतिष्ठते तदेव विनश्यतीति 20 अवस्थितस्यार्थस्य विनाशाभ्युपगमेन विनाशपरमार्थत्वान्न कोऽपि हेतुर्दृष्टान्तो वाऽस्ति येन पक्षसिद्धिर्भवेदित्याह-अवस्थिता. थेति । अव्यवस्थितं वस्तु न साधनावयवं भवितुमर्हतीत्यत्र निदर्शनमाह-यथेति अस्य वचनस्य न कश्चिद्व्यवस्थितोऽर्थ इति तन्न कस्याप्यर्थस्य साधकमिति भावः। व्यवस्थितोऽर्थो यदि विनाशाक्रान्तो न भवेत् तदैव सोऽर्थ व्यवस्थितं साधयतीति दर्शयतितद्वैधयेणेति, सपक्षमपि-पक्षण सहितमपि स्यात् , तत् स्यात् साधनं स्यात् । तझ्याख्याति-तद्धीति । पक्षेण सहापीति, पक्षधर्मत्वमव्यवस्थितस्यैव हेतोरिति दर्शयति । दृष्टान्तमाह-अग्निरत्रेति, अमितया व्यवस्थित एवामौ अग्निमत्तया व्यवस्थित 25 एव प्रदेशे धूमरूपेण व्यवस्थितो धूमस्साधनं भवितुमर्हतीत्यन्वयः । व्यतिरेकमुखेनान्वयमुखेन वा साधनं व्यवस्थितमविनष्टमेव व्यवस्थितेन साध्येन व्याप्तं सत् व्यवस्थितमविनष्टमेव साध्यं गमयतीत्याह-यधुभयेति, व्याप्याव्यापकव्युदासानुगृहीतसमुदायार्थसाध्यतेत्यर्थः, यदि वह्निर्न स्यात्तर्हि धूमो न स्यात् इत्युभयव्युदासः, अत्र धूमस्तु दृश्यते तस्मादयमग्निमानित्युभयव्युदासानुगृहीतसमुदायसाध्यता व्यतिरेकव्यायनुगृहीतसाध्यतेति भावः । यदि धर्मविशिष्टेति, अन्वयव्यायनुप्रहाद्वह्निविशिष्टपर्वतादिसाध्यतेति भावः। उभयथापि व्यवस्थितो व्यवस्थितमेव गमयतीत्याह-सर्वथेति । स्थितिसमानाधिकरणविनाशा30 भ्युपगन्तुस्तव मते विनाशस्य विविधादर्शनात्यन्ताभावान्यथाभवनात्मकत्वात्वादिष्टावस्थाया अस्थिरत्वेनावश्यं विनाशादव्यवस्थित त्वेन कथं साध्यसाधनभावः, पक्षधर्मता वा? साधनस्य धर्मिणोऽप्यव्यवस्थितत्वात् कथं नाश्रयासिद्धिः? साध्यस्यान्यथाभवनात् कथं न हेतोर्विरुद्धतेत्याह-वन्मते विति । विरुद्धतोङ्गाक्नश्च साध्यस्याव्यवस्थितत्वेऽपि साधनस्य पक्षधर्मताऽस्तीत्यभ्यु Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350