Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
[ विधिनियमविधिः
अथोच्येतोत्पादपूर्वत्वदोषानित्यादि, यदेवोत्पद्यते तदेव विनश्यति, यदेवोत्पद्यते तदे - वावतिष्ठत इत्युभयोरुत्पाद प्रधानयोर्विकल्पयोर्ये दोषास्तानपरिहार्यान् प्रत्युच्चार्य अनुमत्य चोभौ विकल्पौ त्यक्त्वा विकल्पान्तरे निर्दोषे मन्यमान आश्रयेत विनाशप्रधाने, तत्राद्यस्तावद्विकल्पः - तदेव विनश्यति तदेवोत्पद्यत इति, अस्मिन्नपि विकल्पे दोष उच्यते - लोके तावत् प्रत्यक्षादिप्रसिद्धमङ्करोत्पत्तौ बीजं 5 विनश्यति, तव पुनर्यदेव विनश्यति बीजं तदेवोत्पद्यते नाङ्कुर इति अङ्कुराप्रादुर्भाव एव प्राप्तः, इति शब्दस्य हेत्वर्थत्वात् ततश्च पूर्ववत् स्ववचनादिविरोधाः, तत्पूर्वपत्राद्यपोहाच लोकादिविरोधा:अङ्कुराभावेऽङ्कुरपूर्वाणां पत्रकाण्डनालपुष्पफलसूक्ष्मैकादीनामुत्तरेषां लोके प्रत्यक्ष | दिप्रमाणप्रसिद्धानामङ्कुरापलापवदपलापाल्लोकादिविरोधाः, पूर्ववद्वचनलोकद्वाराभ्यां दोषाभिधानमिति, तदेवेत्यादि, तदेव विनश्यति तदेवोत्पद्यत इति वचनेनानन्यभूतस्यैकस्मिन्नेव काले विनाश उत्पादश्चेति क्षणिकवादातिशयः, 10 पूर्ववद्भिन्नकाले विनाशोत्पादौ हि क्षणिकवादः, स चानेनातिशय्यते, आदिग्रहणाद विनष्टानुत्पन्नास्थितत्वात् खपुष्पवद्बीजाङ्कुरशून्यता स्यादिति ।
ANMA
wwwwwww
५८६
द्वादशारनयचक्रम्
अथ विनाशोत्पादैकाधिकरण्ये दोषदर्शनाद्विकल्पान्तरमाश्रीयतेऽत्राप्युक्तवदेव दोषाः स्थानाभिधानेन तु योज्याः, तथा वा सर्वथा वा विनश्यदवतिष्ठमाने कुतो विनाशः, विनाशे वा कुतोऽवस्थानमिति त एवाधिकृतास्ते वचनादिविरोधाः क्षणिकवादातिशयनादि च पूर्व15 वत् । उत्पादविनाशपूर्वत्वदोषानपरिहार्यान् प्रत्युच्चार्यानुमत्य च चतुरोऽपि विकल्पान् त्यक्त्वमौ निर्दोषौ विकल्पावित्याश्रयेत तत्राद्ये तावत्तदेवावतिष्ठते तदेवोत्पद्यत इति विकल्पे पूर्ववद्व्याख्या यावत् क्षणिकवादातिशयनादि, अथ तदेवावतिष्ठते तदेव विनश्यतीतिस्थितिपूर्वद्वितीयविकल्पेऽपि व्याख्यानं तदेव योज्यम् ।
अथ विनाशोत्पादैकाधिकरण्य इत्यादि द्वितीयविकल्पे विनाशप्रधानस्थितिपक्षेऽनन्तरो - 20 ग्राहितेऽप्युक्तवदेव दोषाः स्थानाभिधानेन तु योज्याः, योजनादिक् प्रदर्शनन्तु तथा वा सर्वथा वेति
विकल्पं दूषयितुमाह-तत्राद्यस्तावदिति । लोके ह्यन्यद्विनश्यति अन्यदुत्पद्यत इति दृश्यते, त्वन्मतेन तु यदेव विनश्यति तदेवोत्पद्यत इति प्राप्तम्, तथा च बीजस्य विनाशदर्शनात्तस्यैवोत्पादः स्यान्नाङ्कुरादेरित्यङ्कुरायनुत्पत्तिप्रसङ्ग इत्याह-लोके तावदिति । पूर्ववदत्रापि विकल्पे स्ववचनरूढिप्रत्यक्षानुमानलोकविरोधाः प्रसक्ता इत्याह- ततश्चेति । यदेव विनश्यति तदेबोत्पद्यत इति बीजस्यैव विनाशादुत्पत्त्याऽङ्कुरोत्पत्त्यभावेन तदभाववत् तत्पूर्वकाणां पत्रनालादीनामध्यभावात् लोकविरोधः 25 लोके तेषां दर्शनादित्याह - अङ्कुराभाव इति, अङ्कुरः पूर्वो येषान्तेऽङ्कुरपूर्वास्तेषामिति विग्रहः, अङ्कुरानन्तरभाविनामित्यर्थः । पूर्वं यदेवोत्पद्यते तदेव विनश्यतीत्यत्र यथा वचनलोकादिद्वारेणान्येऽपि विरोधा उक्तास्तथात्रापि विज्ञेया इत्याह- पूर्ववदिति । कालात्मक क्रियारहितद्रव्यस्यैव सकृद्विनाशोत्पादाभ्युपगमेन विभिन्नक्षणभाविविनाशोत्पादाभ्युपगन्तृक्षणिकवादमयं वादोऽतिशेते इत्याह- तदेव विनश्यतीति । अङ्कुरवत्सर्वेषां बीजादिपूर्वोत्तर भावानामविनाशादनुत्पादादस्थितत्वात् खपुष्पवदभावेन शून्यतादोषश्चेत्याह- आदिग्रहणादिति, क्षणिकवादातिशयादीत्यत्रादिग्रहणादित्यर्थः । एवं यदेव विनश्यति तदेवावतिष्ठत इति 30 विनाशसमानाधिकरणावस्थानकल्पेऽपि दोषमतिदिशति अथेति । उक्तदोषयोजनाप्रकारं दर्शयति-योजनादिगिति, तथा वा
१ सि. दोषा इत्यादि० । २ सि. व्यक्तौ० । ३ सि. मानः शयेत० । ४ सि. अथोत्पादैकाधिकरण्या इत्यादि० । ५ सि. क. विनाश० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350