________________
विनाशोत्पादैक्यम् ]
५८५
कथितो भवति, यदि नोत्पद्यतेऽवस्थिताभिमतं नावतिष्ठेतानुत्पत्तिरूपत्वात् तस्मादमुत्पन्नमस्थितं खपुपादि, तद्वैलक्षण्येन यदेवोत्पद्यते तदेवावतिष्ठते, नानुत्पत्तिकमवतिष्ठते, तस्मादुत्पस्यनुमितमेवावस्थानं
www.wwww
"
[य] स्येति, अत्रोच्यते--एवं सति यदेवेत्यादि यावत् क्षणिकत्वापत्तिरिति-इत्थं तहदं व्याख्यासं संवृत्तं यदेवेति - यस्मादित्यर्थः, अव्ययत्वाद्यच्छब्दस्य यत एवोत्पद्यते तत एवावतिष्ठत इति प्रागुक्तोत्पत्तृस्थात्रैक्यवदुत्पत्तिस्थित्यैक्ये' उत्पत्तिरेवावस्थानमित्यापन्नम् किं कारणं ? उक्तस्थितित्यागात् - उत्प-5 तिरेव स्थितिरित्यनुमानेन स्थितिरुत्पत्तिरेव कृतेति योक्ता व्यापिस्वतत्त्वानुमतांशुतन्तुवन्तु प्रदीर्घद्रव्यपूवोत्तरावस्था स्थितिरिति सा त्यक्ता स्यात्, तत्त्यागादुत्पत्तिरेवावस्थानं न स्थितिरन्या काचिदुत्पत्तेरतश्च क्षणिकत्वापत्तिः, उत्पद्यत उत्पद्यत एव नावतिष्ठते किश्चिदिति सर्वं क्षणिकमित्युक्तं भवति, स्यान्मतं क्षणिकत्वदोषो मा भूदिति केनचित् प्रकारेण स्थितमुत्पद्यते केनचिदितीष्यते ततश्चो भैयात्यागाभिमतौ चाने कान्तापत्ति:- यदि स्थित्युत्पत्ती न त्यक्ते त्वया ततस्तेऽभ्युपगमविरोधिनी स्यात् प्रक्रिया अनेकान्त- 10 वस्तुतस्वमापद्यत इति ।
न्यायागमानुसारिणीव्याख्यासमेतम्
अथोच्येतोत्पादपूर्वत्वदोषानपरिहार्यान् प्रत्युच्चार्यानुमत्य चोभौ विकल्पौ त्यक्त्वा विनाशप्रधाने विकल्पान्तरे निर्दोषे इत्याश्रयेतेति तत्राद्यस्तावत्तदेव विनश्यति तदेवोत्पद्यत इति, अस्मिन्नपि विकल्पे दोष उच्यते- लोके तावत् प्रत्यक्षादिप्रसिद्ध मङ्करोत्पत्तौ बीजं विनश्यति, तव पुनर्यदेव विनश्यति बीजं तदेवोत्पद्यते नाङ्कुर इति पूर्ववत् स्ववचना - 15 दिविरोधाः, तत्पूर्वपत्राद्यपोहाच्च लोकादिविरोधाः, तदेव विनश्यति तदेवोत्पद्यत इति वचने - नानन्यभूतस्यैकस्मिन्नेव काले विनाश उत्पादश्चेति क्षणिकवादातिशयादि स्यात् ।
यस्योत्पत्तियोग्यता तस्यैवावस्थानयोग्यता, नानुत्पत्तुः स्थितिरस्ति, एवंव्यावर्णनफलं तु खपुष्पादीनामनुत्पन्नानां स्थितिव्यावर्तनम्, यद्वा विमतमवतिष्ठते, उत्पत्तिमत्त्वात्, यदि नोत्पद्यते नावतिष्ठेत यथा खपुष्पादि, उत्पद्यते चेदं तस्मादवतिष्ठत इति क्षणिकैकान्तबादनिरसनमिति भावः । एवं सति यद्वस्तुत्पद्यते तद्वस्त्ववतिष्ठत इत्युत्पत्तस्थात्रोरैक्यं परित्यज्य यस्माद्धेतोरिदमुत्पद्यत इत्यु- 20 च्यते तस्मादेवावतिष्ठते इत्युच्यत इति पर्यवसितत्वेनोत्पत्तेरेव हेतोरुत्पद्यत इत्यभिधानात्तत एवावतिष्ठत इत्यभिधाने उत्पत्तिरेव स्थितिरित्युक्तं स्यात् उत्पत्तिव्यतिरिक्त स्थिति परित्यागात्, यत एव तत एवेत्य मेदेनाभिधानात् तथा च स्थित्यभावात् क्षणिकवाद एवासौ संवृत्त इत्युत्तरयति एवं सतीति, उत्पत्तिरेवावस्थानमित्यर्थः कथितो भवतीत्युपगमे सतीत्यर्थः । एतदर्थपर्यवसायिव्याख्यां तद्वचनस्य दर्शयति यस्मादित्यर्थ इति, यत्तद्यतस्ततो हेताविति कोशादिति भावः । प्रागिति यत्तदोः सर्वनाम - त्वमभ्युपेत्य पूर्व व्यावर्णितार्थेष्विति भावः । व्यापिखतत्त्वानुमतेत्यादिग्रन्थेन स्थितिरुक्ता सा उत्पत्तिरेवावस्थानमित्यर्थकथनेन 25 परित्यकेत्याह-उत्पत्तिरेवेति, यत एवेति शब्देनोद्दिष्टस्योत्पादस्यैव तत इति शब्देन परामर्शात् एवावतिष्ठत इत्यभिधाने उत्पत्तिरेव विनाश इति पर्यवसितो भवतीत्याशयः । तत्र दोषमादर्शयति-अतश्चेति, उत्पत्तिपरम्पराक्रान्तत्वानावस्थानं कदापीति क्षणिकवादः स्थितत्वे हि द्वितीयादिक्षणवृत्तितया क्षणिकत्वं न स्यादिति भावः । क्षणिकवादपरिहाराय यदि केनचित्प्रकारेण स्थितमेव वस्तु केनचित्प्रकारेणोत्पद्यत इति स्वीक्रियते तर्हि सापेक्षयोः स्वीकारेणोत्पाद एव स्थितिरिति तवाभ्युपगमविरोध्यनेकान्तवादः प्रसज्यत इत्याशयेनाह - स्यान्मतमिति । तदेवं यदेवोत्पद्यते तदेव विनश्यति यदेवोत्पद्यते तदेवावतिष्ठत 30 इत्युत्पत्तिप्रधान विकल्पद्वये प्रोकान् दोषानभ्युपेत्य विहायैतौ विकल्पौ यदेव विनश्यति तदेवोत्पद्यते यदेव विनश्यति तदेवावतिष्ठत इति विनाशप्रधानौ विकल्पौ श्रयाम इत्याह- अथोच्येतेति । यदेव विनश्यति तदेवोत्पद्यत इति विनाशोत्पादसमानाधिकरणं
१ सि. स्थित्यैक्योत्पत्तिरनुत्पत्तिरेवा० । २ सि. स्थितिर्नाना काचिदित्युत्पत्तिश्च । ३ सि. भयत्यागा० । द्वा० न० ३६ (७४)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org