________________
mmam
द्वादशारनयचक्रम्
[विधिनियमविधिः त्वान्नित्यत्वं नित्यत्वादीजानुत्पत्तिरतोऽपि तदेवोत्पद्यते तदेवावतिष्ठत इति स्ववचनादिविरोधा इति दूषणन्यायस्य व्यापितां दर्शयति ।
अथ मा भूवनेते दोषा इति स्तम्बादुत्तरकालं बीजोत्पत्तिरिष्यते ततः
स्तम्बोत्तरबीजोत्पत्तेस्तु हेतोरङ्कुरवत् स्थितिभिन्नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनोऽनित्यताऽव्यापिता च, एवं पूर्वाद्यभाव एव च, अभेदत्वात् ।
स्तम्बोत्तरबीजोत्पत्तेस्तु हेतोरङ्कुरवदित्यादि-यथाङ्कुरो बीजास्थितादुत्पद्यमानः स्थितादन्य उत्पद्यते, पूर्वदोषभयात् , पूर्वस्तम्बाच्च बीजं तथा सर्वापि स्थितिभिन्नोत्पत्तिः, तस्मात् स्थितिभि. नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनोऽनित्यताऽव्यापिता च, यथाङ्कुरो बीजात् स्थितादुत्पन्नोऽनित्योऽब्यापि
च तथा त्वदभ्युपगतप्रदीर्घद्रव्यात्मनोऽप्यनित्यत्वमव्यापित्वं च स्यात्तवैव, किश्चान्यत् एवं-पूर्वाद्यभाव 10 एव च, अभेदत्वात्-पूर्वमिदं बीजादि, उत्तरमिदमङ्कुरादीत्येतस्य चाभावः, कस्मात् ? अभेदत्वात् ,
अभिन्नं हि तद्वस्तु द्रव्यमक्रियम् , व्यापिस्वतत्त्ववीजाङ्कुरादिप्रादुर्भावस्य क्रियाविषयत्वात्तस्य प्रदीर्घत्व. कल्पना भ्रान्तित्वात् किं पूर्व ? किमुत्तरमिति पूर्वोत्तरस्थित्युत्पत्ति[प्र] कल्पवचनानुपपत्तिः।।
अथोच्येत तदेवोत्पद्यते तदेवावतिष्ठत इत्यनेन वचनेन त्वयमर्थ एवं कथितो भवति उत्पत्तिरेवावस्थानमिति, यदि नोत्पद्यते नावतिष्ठेतानुत्पत्तिरूपत्वात् , तस्मात् खपुष्पवैलक्षण्ये15 नैवोच्यते यदेवोत्पद्यते तदेवावतिष्ठते नानुत्पत्तिकमवतिष्ठत इति; एवं सति यदेवोत्पद्यते
तदेवावतिष्ठत इत्यस्येदं व्याख्यानं संवृत्तं यत एवोत्पद्यते तत एवावतिष्ठत इति, प्रागुक्तोत्पत्तस्थात्रैक्यवत् उत्पत्तिस्थित्यैक्ये उत्पत्तिरेवावस्थानमित्यापन्नमुक्तस्थितित्यागात् , न स्थिति
रन्या काचिदुत्पत्तेरतश्च क्षणिकत्वापत्तिः, उभयात्यागाभिमतौ चानेकान्तापत्तिरभ्युपगमविरो(धिनी प्रक्रिया स्यादिति । 20...... अथोच्यतेत्यादि, यावत् खपुष्पवैलक्षण्येनैवोच्यत इति, स्यात् परिहारार्थव्याख्याऽऽशका
तदेवोत्पद्यते तदेवावतिष्ठत इत्यनेन वचनेनेति स पुनरयमर्थ एवं कथितो भवति-उत्पत्तिरेवावस्थानमिति विनाशित्वात् कौटस्थ्यनित्यत्वेन तदेवोत्पद्यते तदेव नितिष्ठतीति विरुध्यत इति भावः । दूषणन्यायस्येति निखिलेषु कारणेध्वस्य न्यायस्य प्रवर्तनादिति भावः । अथैवं स्तम्बादेनित्यत्वेऽपि ततो बीजोत्पत्तेरभ्युपगमे उत्पत्तेः स्थितिसामानाधिकरण्यं न सम्भवतीत्याह-स्तम्बोत्तरेति। पूर्वदोषेति पूर्वस्तम्बनित्यत्वात्तदभिन्नत्वेन बीजानुत्पत्तिदोषभयादित्यर्थः, एवञ्च स्थित25 त्वेनाभिमतस्यापि बीजादेः स्तम्बादिकार्यतयाऽनित्यत्वं तथा तत्तत्कारणस्यापीति द्रव्यमात्रस्योत्पादादि स्याभाव इति भावः । एतदेवादर्शयति-यथाऽङ्कर इति, एवं पूर्वोत्तरभेदानां विनाशानुत्पादाभ्यामसत्त्वाद्वर्त्तमानस्यैवैकस्याङ्कु
रादिभावस्य सत्यत्वेन पूर्वोत्तरभावप्रकल्पना न युक्ता वर्तमानकभावत्वादित्याह-एवमिति, अभिन्नं हीति वर्तमान ..एको भावो यतोऽभिन्नोऽत एव कर्त्तव्याभावादक्रियः, अक्रियत्वादेव च क्रियाविषयभूतस्याङ्कुरादिप्रादुर्भावस्य प्रकल्पना
कारणस्य व्यापित्वप्रकल्पना च भ्रान्तिरेव, अक्रिये क्रियाविषयताभिमानात् तस्मान्न पूर्वोत्तरभाव उपपद्यत इति भावः । 30 अथ यदेवोत्पद्यते तदेवावतिष्ठते इति वाक्यं प्रकारान्तरेण व्यावर्णयति-अथोच्येतेति, त्पद्यत इतिशब्देनोच्यते तदेवावतिष्ठत इतिशब्देनोच्यत इति प्रकल्पनयोत्पादावस्थानयोरेकता प्रतिपादिता भवति, तथा च
१सि. क. स्थित्यादन्यदुत्पद्यते । २ सि.क. मक्रिया। ३ क.xx सुदूरम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org