________________
wwww
अङ्कुराद्यनुत्पत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् अविशेषितत्वात् सर्वस्य व्याप्यस्य कार्यस्य व्यापकं कारणमुच्यते व्यापीति, व्यापिनः स्वतत्त्वमेवेत्यनुमतोऽशुः त्वयापि द्रव्यार्थवादायिणा, व्यापि स्वतत्त्वमस्येति वा विग्रहः, स च व्यापिखतत्त्वानुमतां. शुरेव तन्तुळप्यः, कारणमयत्वात् कार्यस्य, किमुक्तं भवति ? यथांशुमयस्तन्तुः अतोऽशुरेव सन्तुरिति दृष्टान्तः, अंशुरपि तन्तुः तन्तुरप्यंशुरिति वा, तथा बीजमयोऽङ्करः, बीजमेवाङ्करः, अङ्कुरोऽपि बीजं बीजमप्यङ्कर इति वा दार्टान्तिकः, तद्वर्णयति-प्रदीर्घद्रव्येत्यादि-प्रकृष्टदीर्घस्य द्राधीयसो द्रव्यस्य । मेादेरिव पूर्वोत्तरतया स्थित्युत्पत्तिविनाशावस्था व्यापिस्वतत्त्वानुमतबीजाङ्कुरत्वादय इत्यस्मिन् प्रकल्पे तदेवोत्पद्यते तदेवावतिष्ठत इत्युत्पत्तिस्थितिसामानाधिकरण्ये स्ववचनादिविरोधा न सन्ति, तस्य वस्तुनोऽवस्थामात्रभिन्नस्यानुत्पन्नाविनाशिनः स्थितिरेव स्यादित्यत्रोच्यते, एतस्मिन्नपि प्रकल्पे वीजस्य दार्टीतिकस्यांशूनां वा दृष्टान्तभूतानां वाशब्दादन्यस्य वा कस्यचिद्वस्तुनः प्रदीर्घस्यानुत्पादित्वादविनाशित्वाच नित्यत्वं नित्यत्वात् स्थितिरेव, नोत्पाद विनाशाविति कुतोऽङ्कुरो बीजात् ? कुतोऽशुभ्यस्तन्तुः ? अतोऽहु-10 रतन्त्वनुत्पत्तिरेवेति, ततः किमिति चेत् ? इति त एव विरोधाः, उत्पत्त्यभावात् पूर्ववत् स्ववचनादिविरोधास्तवस्था एवेति, पूर्वस्तम्बनित्यत्वाद्वा बीजानुत्पत्तेः, त एव विरोधा इति वर्तते, ननु त्वदुक्तेनैव न्यायेन व्यापिस्वतत्त्वानुमतपूर्वस्तम्बबीजत्वं प्रदीर्घद्रव्यस्थितत्वं चेति पूर्वस्तम्ब स्यानुत्पादाविनाशिकार्याग्यविशेषेण यतो व्याप्नोति, अत एव तत् व्यापीत्युच्यते, पिण्डशिवकस्थासकादिपरम्परपर्यायेषु मृदोऽनुवर्तनात् प्रदीर्घद्रव्यच तत् , अत एव तस्याः पूर्वकालोत्तरकालाः स्थित्यादयोऽवस्थाः पिण्डादिरूपाः पिण्डाद्यात्मत्वात्तस्याः, तथांशुस्तन्तोः कारण 15 तन्तुरपि पटस्य, तत्र व्यापिनः कारणस्य तन्तोरात्मतयाऽनुमतोंऽशुः, द्रव्यार्थवादाश्रयात् , अतश्च व्यापिस्वतत्त्वानुमताशुस्वन्तुर्भवतीति प्रथमव्याख्याऽर्थः, अत्र तन्तुपटादीनामंशुविकारत्वात् अंशुमयस्वन्तुरिति अंशुरेव तन्तुः, एवमङ्खरपत्रनाळ. काण्डादीनां बीजस्य व्यापिनः प्रदीर्घद्रव्यस्य विकारत्वाद्वीजमयत्वमतो बीज एवाङ्कर इति अङ्कराद्युत्पादादयो बीजस्यैवावस्था इति भावः । व्युत्पत्त्यन्तरमादर्शयति-व्यापि खतत्त्वमिति । अस्यांशोः खतत्त्वं खखरूपं व्यापि सर्वाणि कार्याणि व्यानो. तीत्येवमनुमतोंऽशुरेव तन्तुस्तन्तुरेवांशुः, पूर्वव्याख्यायां धर्मपरिणामोऽस्याञ्चावस्थापरिणाम इति प्रतिभाति, यथा मृदः पिण्ड- 20 शिवकस्थासकघटादयः, यथा वा घटस्य नवपुराणतादयः, व्याख्यानद्वयेऽपि द्रव्यार्थाश्रयात् व्यापिनो द्रव्यस्योत्पादादयोऽ.. वस्था इति स्थित्युत्पत्तिविनाशप्रकारैरवस्थितं तदेवोत्पद्यते तदेव नितिष्ठतीत्युच्यत इति नोकदोष इति शहार्थः । विग्रहद्वयेन कोऽर्थः पर्यवसित इत्यत्राह-किमुक्तमिति, आद्यव्युत्पत्त्यनुसारेणाह-यथांशुमय इति, अंशोयापिनस्तन्त्वादेस्तत्त्वतयाऽनुमतत्वात् धर्मिखरूपानतिक्रमादेवाभेदात् अंशुरेव तन्तुरिति भावः, अपरव्युत्पत्त्यनुसारेणाह-अंशुरपीति, भय पूर्वापरसकलावस्थासूत्पादविनाशवत्सु प्रदीर्घद्रव्यस्य व्यापिनोऽभ्युपगमेऽवस्थाव्यतिक्रमेऽपि तस्य सद्भावात् कौटस्थ्यमेव तस्स 25 स्यानिर्विकारनित्यत्वात् , अवस्थानामेवोत्पादविनाशित्वात् , तथा चान्वयिनोंऽशुबीजादेस्तन्त्वङ्कुरादीनामनुत्पत्तिरेव, बीजं विमष्टमकुर उत्पन्न इति हि दृश्यते, बीजस्य नित्यत्वे च कथमेतद्भवेदित्याशयेन समाधत्ते तस्य वस्तुन इति, अत्र पक्षे तस्य वस्तुनोsवस्थामात्रभिन्नस्यानुत्पन्नाविनाशिनः स्थितिरेव स्यादित्युच्यते इति योजना विज्ञेया । तदेव दर्शयति-एतस्मिन्नपीति, एवच स्थितिप्रकारेणैव यदि तदवतिष्ठते तर्हि कथमुत्पद्यते येन तदेवोत्पद्यते तदेव नितिष्ठतीति स्यात्, अन्यथा तथैवावतिष्ठमानं तदेवोत्पद्यत इति विरुद्धं स्यादित्यादिविरोधा भवन्तीति दर्शयति-इति त एवेति, अवस्थितत्वेनाभिमतस्य बीजादेरप्यनुत्पत्ति- 30 रेव पूर्वस्तम्बस्य नित्यत्वादित्याह-पूर्वस्तम्बेति, 'स्तम्बो गुच्छस्तृणादिनः' इत्यमरः, अस्य पूर्वस्तम्बस्य खतत्त्वं खखरूपं व्यापि सर्वकार्यव्यापनात्. यद्वाऽस्य व्यापि-कारणं पूर्वस्तम्बः खतत्त्वं स्वात्मभूतमिति व्यापिस्वतत्त्वानुमतपूर्वस्तम्बबीज तच प्रदीर्घद्रव्यं, कारणस्य व्यापित्वप्रदीर्घद्रव्यत्वयोस्तवाभिमतत्वात् , एवञ्च तस्य पूर्वीपर कालनिखिलावस्थाव्यापित्वेनानुत्पन्ना
१सि. क. तन्त्वनुपपत्तिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org