________________
द्वादशारनयचक्रम्
[विधिनियमविधिः नितिष्ठतीति, अत्रापि हि द्वयी गति:-तेनाप्युत्पत्तिप्रकारेणावतिष्ठमानं यद्वा स्थित्युत्पत्तिविनाशप्रकारैः सर्वथावतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठति चेति, यदि तथोत्पादेनैवावतिष्ठमानमुत्पद्यते नितिष्ठतीत्युच्यते तत उत्पादेनैवावस्थितत्वान्नोत्पद्यत इति उत्पत्तिर्द्विधाऽपि कुतः?
उत्पद्यमाने चावस्थानम् ? यद्युत्पद्यते कथमवतिष्ठते ? यद्यवतिष्ठते कथमुत्पद्यते ? इति । स्ववचनादिविरोधाः पूर्ववत् ।।
__ अथोत्पादविनाशसामानाधिकरण्य इत्यादि, उत्पादविनाशैकाधिकरण्ये दोषदर्शनात् निर्दोषोऽयमिति विकल्पान्तरमाश्रीयते तदेवोत्पद्यते तदेव नितिष्ठतीति, अनापि न निर्दोषमेवेति ब्रूमः, अत्रापि हि द्वयी गतिः तेनाप्युत्पत्तिप्रकारेणा [व] तिष्ठमोनं-यद्वोत्पादेनैवावतिष्ठमानमुत्पद्यते नितिष्ठतीत्युच्यते यद्वा स्थित्युत्पत्तिविनाशप्रकारैः सर्वथाऽवतिष्ठमानं तदेवोत्पद्यते तदेव 'नितिष्ठति चेत्युच्यते, 10 यदि तथोत्पादेनैवावतिष्ठमानमुत्पद्यते पनितिष्ठतीत्युच्यते तत उत्पादेनैवावस्थितत्वान्नोत्पद्यत इति उत्पत्तिद्वैिधापि कुतः ? इति, असंभव इत्यर्थः, अस्ति चोत्पत्तिः, उत्पद्यमाने चावस्थानं ? कुत इति वर्तते, यद्युत्पद्यते कथमवतिष्ठते ? यद्यवतिष्ठते कथमुत्पद्यते ? इति स्ववचनादिविरोध[1]: पूर्ववदिति-यथाङ्कुरोत्पत्तिविनाशैकाधिकरण्योदाहरणे स्ववचनादिविरोधास्तथात्राप्युत्पत्तिस्थितिसामानाधिकरण्ये योज्या इति ।
व्यापिस्वतत्त्वानुमतांशुतन्तुवत्तु प्रदीर्घद्रव्यस्य पूर्वोत्तरतया स्थित्युत्पत्तिविनाशावस्था 15 व्यापिस्वतत्त्वानुमतबीजाङ्कुरत्वादय इत्यस्मिन् प्रकल्पे उत्पत्तिस्थितिसामानाधिकरण्ये न स्ववचनादिविरोधा इत्यत्रोच्यते, एतस्मिन्नपि प्रकल्पे बीजस्यांशूनां वाऽनुत्पादित्वादविनाशित्वाञ्च नित्यत्वात् स्थितिरेवेति कुतोऽङ्करो बीजात्, कुतोऽशुभ्यस्तन्तुः? इति. त एव विरोधाः, पूर्वस्तम्बनित्यत्वाद्वा बीजानुत्पत्तेः।
व्यापीत्यादि यावत् प्रकल्प इति, स्यान्मतं व्यापिस्वतत्त्वानुमतांशुतन्तुवत्तु-व्याप्नोतीति व्यापी
20 भत्रापि भङ्गेऽनुत्पादानवस्थानखवचनविरोधादिदोषप्रदिदर्शयिषया विकल्पमारचयति-अत्रापीति, उत्पादस्थितिभङ्गेऽपीत्यर्थः । केवलमुत्पत्तिप्रकारेणैवावतिष्ठमानस्य वस्तुनः किमुत्पादस्थिती उच्यते, अथवा उत्पादस्थितिविनाशावस्थस्य वस्तुनो व्यापिन इति वैविध्यं दोषाभिधित्सया प्रदर्शयति-तेनापीति । प्रथमप्रकारे दोषमाह-यदीति । सततमुत्पादक्रियायामेव सत्त्वे विश्रान्त्यभावे उत्पत्तेः पूर्णताया असम्भवेन कथमुत्पद्यते पिण्डकुशूलादीति भावः । उत्पत्तिर्द्विधापीति, ऊर्द्धपदनप्रत्यक्षोपलम्भरूपा द्विविधोत्पत्तिरिति भावः । उत्पादक्रियाव्यग्रत्वादेव च स्थिरत्वासम्भव इत्याह-उत्पद्यमान इति । उत्पादस्थित्योर्भि25 अकालीनत्वेन कथमुत्पादक्रियाकाले स्थितिक्रिया, स्थितिक्रियाकाले चोत्पादक्रिया, उच्यते च भवता तदेवोत्पद्यते तदेव निति
छतीति खवचनविरोधः देशभेदेन कालभेदेन वा ते हि स्याताम्, देशकालभेदस्तु नास्त्येव, यदेव तदेवेत्यभेदेन निर्देशादिति पूर्वोदितमेव स्मारयति-पूर्ववदिति। द्वितीयप्रकारे दोषो नास्तीति मन्वानः शङ्कते-व्यापीति, तन्त्वादिकार्यस्य व्यापकोंऽशुः, तन्तुपटादिकार्यध्यापनात्, अत एवासौ तन्त्वादीनामात्मभूतः, तन्त्वादिकार्यव्यापनादेव च तत् प्रदीर्घ द्रव्यमुच्यते, व्यापिस्वात् प्रदीर्घद्रव्यत्वाच्च स्थितिमानंशुः, तन्तुपटादयः कार्यत्वादुत्पादविनाशवन्तः, कारणस्य कार्यात्मत्वाद्रव्यार्थापेक्षयैकत्वात् स्थत्यत्पत्तिविनाशसम्भवात् स्थित्यत्पत्तिविनाशप्रकारैः सर्वथावतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठतीत्युच्यत इति नोत्पाद स्थित्यनुपपत्तिखवचनविरोधादिदोषा इति शतितुरभिप्रायः । एतदेव व्याचष्ट-स्यान्मतमिति, व्यापकं कारणं व्याप्यानि
१ सि. क. अथ विनाशसामानाधिकरण्येत्यादि । २ सि. क. माने । ३, ४, ५, सि. क. विनश्यति । ६ सि. क. यथा स्वतत्त्वानुमतां श्रुतं तु वस्तु ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org