Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 306
________________ ५७३ wwwm अनित्यतादोषः] न्यायागमानुसारिणीव्याख्यासमेतम् काधिकरणविरोधात् [रूढिविरोधः] लोके प्रतीतत्वाल्लोकविरोधः, प्रत्यक्ष[तः]एवोत्पादविनाशभेददर्शनात् प्रत्यक्षविरोधः, उत्पद्यमानत्वान्न विनश्यति विनश्यत्वाच्च नोत्पद्यते भिन्नघटवदित्यनुमानविरोधः, तथा चाङ्कुरपत्रादिनिराकरणादपि च लोकादिविरोधा इति व्याख्यानमनन्तरोक्तस्यार्थस्य लोकप्रतीतिद्वारेण सुखप्रतिपाद्यत्वादिति गतार्थम् । वचनद्वारेण तु वाच्यमुक्त्याश्रयत्वादोषाणामिति, एवं तावदेनुत्पादाविनाशादिदोषभावः। न केवलमेत एव दोषाः किं तर्हि ? अनित्यतादोषश्च स च क्षणिकवादं व्यतिलंघ्य वर्त्तते, अतोऽभ्युपगमात् , तत्र न हि यदेवोत्पद्यते तदेव विनश्यति, किं तर्हि ? क्षणोऽस्यास्तीति क्षणिक इत्युत्पादादन्यो विनाशक्षणः, उत्पन्नश्च विनष्टश्चेत्यभ्युपगम्यते जातस्य विनाशात् , इह तु उत्पाद एव विनाशः क्रियार्थकालरहितद्रव्योत्पादादित्वात् । (अनित्यतादोषश्चेति) [अ] नित्यतादोषश्च स च क्षणिकवादं व्यतिलंध्यानित्यत्वदोषातिशयेन वर्त्तते इति, अतः इत्यस्मादेव हेतोः कस्मात् ? यदेवोत्पद्यते तदेव विनश्यतीत्यभ्युपगमात्, स चैवमनित्यत्वातिशयदोषः प्रदश्यते तद्यथा-तत्र [न] हीत्यादि , तत्र [न] हि-क्षणिकवादे न हि यदेवोत्पद्यते तदेव विनश्यति, किं तर्हि ? क्षणोऽस्यास्तीति क्षणिक इत्युत्पादादन्यो विनाशक्षणः, उत्पन्नश्च विनष्टश्वेत्यभ्युपगम्यते भिन्नस्य कालस्य क्षणाख्यत्वात् तस्मिंश्च काले जातस्य विनाशात् न जायमानस्य, स 16 हि क्षणिकवादी नैकमेवोत्पादक्षणं विनाशक्षणञ्चेच्छति, एकस्योत्पत्तिभङ्गापत्तिभयात् , यथोक्तं 'यद्येकस्मिन् क्षणे जातः' ( ) इत्यादि, क्षणानां क्षणवर्त्तिनाश्च भेदाज्जातस्येति च नाशनंष्टक्षणानाञ्च भेदं सूचयति, इह तु-यदेवोत्पद्यते तदेव विनश्यतीति वादे उत्पाद एव विनाशः प्रसक्तः, क्रियार्थका 10 wwam रूढो विनाशोऽन्यार्थ इति तयोरेकत्र वृत्त्यसम्भवादूढिविरोध इति भावः । लोकविरोधमाह-लोक इति लोके तयोर्भेदेन प्रतीतेरिति भावः । प्रत्यक्षविरोधमाह-प्रत्यक्षत इति । अङ्कुरो न विनश्यति, उत्पद्यमानत्वात् , उत्पद्यमानघटवत् , नोत्पद्यते 20 वाङ्कुरः विनश्यत्वात् भिन्नघटवदिति भेदानुमानादनुमानविरोध इत्याह-उत्पद्यमानत्वादिति । अङ्कुरस्य पूर्वोत्तरभेदानां बीजोच्छूनादिपत्रनालादीनामदर्शनेन निराकरणात् पुनरपि लोकादिविरोधा इत्याह-तथा चाकुरेति । अपरानपि दोषानाह-अनित्यतेति, तव द्रव्यस्य नित्यत्वाभ्युपगमादनित्यत्वं प्रसज्यते यदेवोत्पद्यते तदेव विनश्यती-त्युत्पादविनाशाभ्युपगमादिति भावः । तदप्यनित्यत्वं विलक्षणमेवेत्याह-स चेति । अनित्यत्वे तद्वैलक्षण्ये च हेतुमाह-अत इति, यदेवोत्पद्यते तदेव विनश्यतीत्यस्मादेवाभ्युपगमा तोरित्यर्थः, तदेवमुत्पत्तिविनाशाभ्युपगमादनित्यत्वमिति भावः। लोक-25 प्रसिद्धानित्यत्वातिशयत्वमस्य दर्शयति-तत्र न हीति । क्षणिकवादे हि क्षणे एकस्मिन्नेव नोत्पादविनाशौ भवतः, किन्तु प्रथमक्षणे उत्पादो द्वितीयक्षणे च विनाशः, आत्मलाभानन्तरविनाशी क्षणः स यस्यास्ति स क्षणिक इति व्युत्पत्तरुत्पादानन्तरविनाशखभावो भावः, एवञ्च जातस्यैव विनाशो न जायमानस्य, तव तु यदेवोत्पद्यते तदेव विनश्यतीत्युत्पद्यमान भ्युपगमात् क्षणिकवादातिशाय्यनित्यत्वं स्यादिति वर्णयति-क्षणोऽस्यास्तीति । क्षणे जात इत्युक्त्या क्षणतवृत्तिनोर्मेंदः सूच्यते जातस्य विनाशाभ्युपगमाच्च नाशतत्क्षणयोर्भेदः सूच्यत इत्याह-क्षणानामिति । तदेवं क्षणिकवादाभीष्टानित्यत्वमुप-30 दर्य तदतिशयोऽत्र प्रदर्यते-इह त्विति । हेतुमाह-क्रियार्थेति । द्रव्यकियोभयवस्तुवादेऽतिरिक्तकालाभावात् क्रियाश १ सि. पायवाक्यमु. । २ सि.क. तावदुत्पादविनाशादिः । ३ क.xx । ४ सि.क्र. उत्पत्तिस्तुविनष्टश्ने । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350