________________
५७३
wwwm
अनित्यतादोषः]
न्यायागमानुसारिणीव्याख्यासमेतम् काधिकरणविरोधात् [रूढिविरोधः] लोके प्रतीतत्वाल्लोकविरोधः, प्रत्यक्ष[तः]एवोत्पादविनाशभेददर्शनात् प्रत्यक्षविरोधः, उत्पद्यमानत्वान्न विनश्यति विनश्यत्वाच्च नोत्पद्यते भिन्नघटवदित्यनुमानविरोधः, तथा चाङ्कुरपत्रादिनिराकरणादपि च लोकादिविरोधा इति व्याख्यानमनन्तरोक्तस्यार्थस्य लोकप्रतीतिद्वारेण सुखप्रतिपाद्यत्वादिति गतार्थम् । वचनद्वारेण तु वाच्यमुक्त्याश्रयत्वादोषाणामिति, एवं तावदेनुत्पादाविनाशादिदोषभावः।
न केवलमेत एव दोषाः किं तर्हि ?
अनित्यतादोषश्च स च क्षणिकवादं व्यतिलंघ्य वर्त्तते, अतोऽभ्युपगमात् , तत्र न हि यदेवोत्पद्यते तदेव विनश्यति, किं तर्हि ? क्षणोऽस्यास्तीति क्षणिक इत्युत्पादादन्यो विनाशक्षणः, उत्पन्नश्च विनष्टश्चेत्यभ्युपगम्यते जातस्य विनाशात् , इह तु उत्पाद एव विनाशः क्रियार्थकालरहितद्रव्योत्पादादित्वात् ।
(अनित्यतादोषश्चेति) [अ] नित्यतादोषश्च स च क्षणिकवादं व्यतिलंध्यानित्यत्वदोषातिशयेन वर्त्तते इति, अतः इत्यस्मादेव हेतोः कस्मात् ? यदेवोत्पद्यते तदेव विनश्यतीत्यभ्युपगमात्, स चैवमनित्यत्वातिशयदोषः प्रदश्यते तद्यथा-तत्र [न] हीत्यादि , तत्र [न] हि-क्षणिकवादे न हि यदेवोत्पद्यते तदेव विनश्यति, किं तर्हि ? क्षणोऽस्यास्तीति क्षणिक इत्युत्पादादन्यो विनाशक्षणः, उत्पन्नश्च विनष्टश्वेत्यभ्युपगम्यते भिन्नस्य कालस्य क्षणाख्यत्वात् तस्मिंश्च काले जातस्य विनाशात् न जायमानस्य, स 16 हि क्षणिकवादी नैकमेवोत्पादक्षणं विनाशक्षणञ्चेच्छति, एकस्योत्पत्तिभङ्गापत्तिभयात् , यथोक्तं 'यद्येकस्मिन् क्षणे जातः' ( ) इत्यादि, क्षणानां क्षणवर्त्तिनाश्च भेदाज्जातस्येति च नाशनंष्टक्षणानाञ्च भेदं सूचयति, इह तु-यदेवोत्पद्यते तदेव विनश्यतीति वादे उत्पाद एव विनाशः प्रसक्तः, क्रियार्थका
10
wwam
रूढो विनाशोऽन्यार्थ इति तयोरेकत्र वृत्त्यसम्भवादूढिविरोध इति भावः । लोकविरोधमाह-लोक इति लोके तयोर्भेदेन प्रतीतेरिति भावः । प्रत्यक्षविरोधमाह-प्रत्यक्षत इति । अङ्कुरो न विनश्यति, उत्पद्यमानत्वात् , उत्पद्यमानघटवत् , नोत्पद्यते 20 वाङ्कुरः विनश्यत्वात् भिन्नघटवदिति भेदानुमानादनुमानविरोध इत्याह-उत्पद्यमानत्वादिति । अङ्कुरस्य पूर्वोत्तरभेदानां बीजोच्छूनादिपत्रनालादीनामदर्शनेन निराकरणात् पुनरपि लोकादिविरोधा इत्याह-तथा चाकुरेति । अपरानपि दोषानाह-अनित्यतेति, तव द्रव्यस्य नित्यत्वाभ्युपगमादनित्यत्वं प्रसज्यते यदेवोत्पद्यते तदेव विनश्यती-त्युत्पादविनाशाभ्युपगमादिति भावः । तदप्यनित्यत्वं विलक्षणमेवेत्याह-स चेति । अनित्यत्वे तद्वैलक्षण्ये च हेतुमाह-अत इति, यदेवोत्पद्यते तदेव विनश्यतीत्यस्मादेवाभ्युपगमा तोरित्यर्थः, तदेवमुत्पत्तिविनाशाभ्युपगमादनित्यत्वमिति भावः। लोक-25 प्रसिद्धानित्यत्वातिशयत्वमस्य दर्शयति-तत्र न हीति । क्षणिकवादे हि क्षणे एकस्मिन्नेव नोत्पादविनाशौ भवतः, किन्तु प्रथमक्षणे उत्पादो द्वितीयक्षणे च विनाशः, आत्मलाभानन्तरविनाशी क्षणः स यस्यास्ति स क्षणिक इति व्युत्पत्तरुत्पादानन्तरविनाशखभावो भावः, एवञ्च जातस्यैव विनाशो न जायमानस्य, तव तु यदेवोत्पद्यते तदेव विनश्यतीत्युत्पद्यमान भ्युपगमात् क्षणिकवादातिशाय्यनित्यत्वं स्यादिति वर्णयति-क्षणोऽस्यास्तीति । क्षणे जात इत्युक्त्या क्षणतवृत्तिनोर्मेंदः सूच्यते जातस्य विनाशाभ्युपगमाच्च नाशतत्क्षणयोर्भेदः सूच्यत इत्याह-क्षणानामिति । तदेवं क्षणिकवादाभीष्टानित्यत्वमुप-30 दर्य तदतिशयोऽत्र प्रदर्यते-इह त्विति । हेतुमाह-क्रियार्थेति । द्रव्यकियोभयवस्तुवादेऽतिरिक्तकालाभावात् क्रियाश
१ सि. पायवाक्यमु. । २ सि.क. तावदुत्पादविनाशादिः । ३ क.xx । ४ सि.क्र. उत्पत्तिस्तुविनष्टश्ने ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org