________________
५७४
द्वादशारनयचक्रम्
[ विधिनियमविधिः
)
लरहितद्रव्योत्पादादित्वात् - क्रियाशब्दवाच्योऽर्थः क्रियैव वाऽर्थः क्रियाप्रयोजनो वा कालः क्रियार्थकालः स एव ते वैयाकरणस्येष्टः यद्यप्यन्येषामन्यथा, यथोक्तं 'परिमाणवती क्रियैव काल : ' ( इत्यादि, तादृग्विविक्तकालरहितं द्रव्यं क्रियात्मककालविनाभूतं तदेवोत्पादो विनाशोऽवस्थानचे तीष्टत्वात् क्षणिकवादातिशाय्ययं क्षणिकवादस्त्वदीय इति साधूक्तम् ।
www.www
नानित्वादेऽपि तिष्ठत्यनवस्थत्वादुत्पादादीनाम्, किं तर्हि - शून्यवादता वा, अविनष्टानुत्पन्नास्थितत्वात् खपुष्पवत् ।
( शून्येति ) शून्यवादता वा, यथा प्रागुक्तं सर्वस्याङ्कुरानुत्पादाविना शवदनस्थानम शून्यतासाधनं गतार्थं यावत् खपुष्पवत् ।
5
ननु पृथिवीद्रव्यत्वाभेदात्तदंशवीजाङ्कुरभेदात् तत्कालौ चोत्पादविनाशौ स्त इति न 10 भेदस्याभेदस्य वा व्याघातः, तस्मात्तदेवोत्पद्यते तदेव विनश्यतीत्यत्रोच्यते, एवं तर्हि इदानीं भेद एवापतितस्तवापि, अश्मसिकतामृल्लोष्टवज्रादिभेदे सति पृथिवी नाम न काचिदन्याऽस्ति, किन्तु पृथिवीत्वजातिमात्रमभिन्नं तद्भेदव्यापि तच्च द्रव्यमेकमित्यस्य त्वत्पक्षस्य विघातकम्, बीजस्याङ्कुरस्य च नानात्वं बीजाद्विनश्यतोऽन्याङ्कुरस्योत्पद्यमानत्वात्, विनंष्टुरन्य इव देवदत्ताद्यज्ञदत्त उत्पद्यमानः, तस्मान्न तदेवोत्पद्यते तदेव विनश्यति, ततश्च यथा बीजं व्रीहित्व - 15 सामान्याभेदे सत्यङ्करात् पृथगेवेष्यते तथा पांश्वादित्वमपीति भेदनिर्भेदद्रव्यनिर्मूलनम् ।
ब्दवाच्य एवार्थः काल इत्याशयेनाह क्रियाशब्दवाच्य इति, अत्र पक्षे षष्ठीतत्पुरुषः वाच्यपर्यायोऽर्थशब्दः । षष्ठयपेक्षया कर्मधारये लाघवादाह-क्रियैष वेति, अर्थशब्दोऽत्र वस्तुपर्यायः । अर्थशब्दस्य प्रयोजनपर्यायत्वमाश्रित्याह-क्रियाप्रयोजन इति, अत्र पक्षे क्रिया अर्थो यस्येति बहुव्रीहिः, अत्र क्रियाया अन्यः पदार्थः काल इति भाति, महाभाष्यकृताऽपि भाष्ये क्रियातिरिक्तः कालोऽभ्युपगतः यदुच्यते ' येन मूर्तीनामुपचयापचयाश्च लक्ष्यन्ते तं कालमित्याहुः, तस्यैव च कयाचित् क्रियया 20 युक्तस्याहरिति च भवति रात्रिरिति च, कया क्रियया ? आदित्यगत्या, तथैवासकृदावृत्तया मास इति भवति संवत्सर इति च भवति' इति । केचिदग्दर्शिनो ज्योतिर्गत्या कालस्यैकत्वेऽपि नानात्वव्यवहारस्येष्टतया सैव कालो भवतु किमतिरिक्तेन कालेनेति वदन्ति यथोक्तं हरिणा 'आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ इति, गोदोहादिक्रियाविशेषश्च परिच्छिन्नपरिमाणत्वादपरेण दिवसादिशब्दवाच्येनादित्यादिगतिप्रचारेण परिच्छिन्नो भवति गोदोहादिरपि अन्यतः प्रसिद्धपरिमाणो देवदत्तादिगतास्त्यादिक्रियाः परिच्छिन्दन् काल इति व्यपदिश्यत इत्येतदभिप्रायेणैवोक्तं 'परिमाणवती 25 क्रियैव काल:' इति । यद्यप्यन्येषामिति सांख्यानुसारिपातञ्जलदर्शने सततपरिणामिषु सत्त्वरजस्तमसां शक्तिमात्रमुद्भवानुद्भवाभ्यामतीतादिकालसमाख्यां' लभते, अन्ये तु भिन्नाः क्रियाः सङ्कलनावुद्ध्याऽनुसंहियमाणाश्चिरक्षिप्रादिव्यपदेशा भवन्ति तथा च बुद्ध्या सङ्कलनं क्रमो वा काल इति वदन्ति, अपरे स्वातंत्र्यशक्तिर्ब्रह्मणः काल इति वदन्ति, यो वा भवतु कालः शाब्दव्यवहारेऽस्मिन्नविद्याकल्पिते भवति भविष्यत्यभूदित्यादिरूपे भिन्नः कालः कश्चिदभ्युपगन्तव्य एवेति बोध्यम् । एवञ्च वस्तुतः कालाभावात् कालात्मकक्रियारहितद्रव्यस्यैवोत्पादाद्यभ्युपगमेन क्षणिकवादातिशाय्यनित्यत्वं तवेति दर्शयति - तादृगिति । न 30 केवलं बीजादीनामनुत्पन्नाविनष्टत्वम्, प्रत्युतानवस्थानादपि शून्यवादे पर्यवसानं भवतीत्याशयेनाह - शून्यवादता वेति । अथ द्रव्यत्वेन रूपेण द्रव्यस्यावयवभूतानां बीजाङ्कुरादीनामभेदः, उत्पादविनाशयोश्च बीजाङ्कुरायभेदादभेदः, अवयवावयविनोश्चाभे• दात् पृथिवीद्रव्यबीजाङ्कुराद्योरभेदः, तत्तदवयवत्वेन च बीजाङ्कुरादीनां परस्परं भेद इति भेदाभेदयोर्वास्तविकत्वात् द्रव्यत्वेन बीजादीनामनुत्पादविनाशित्वस्य सत्यत्वेऽपि तत्तत्सामग्रीसन्निधानकालापेक्षयोत्पादविनाशयोरपि संभव इति न कश्चिद्दोष
१ सि. क. कालतः । २. सि. क. परिणामवती.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org