________________
९७२ द्वादशारनयचक्रम्
[विधिनियमविधिः वनुत्पत्त्यविनाशदोषौ स्याताम् , अङ्कुरोत्पत्तौ तस्यैव विनाशित्वात् , न बीजं विनष्टं नाङ्कुर उत्पन्नः, विनष्टुरुत्पत्तुश्चाभेदात् ।
(देशेति) देशकालादि[भेदा]भावादस्त्विति चेत् स्यान्मतं एकत्वादुत्पत्त्यादिभेदैक्याद्यदेवोत्पद्यते तदेव विनश्यतीत्यस्तु तर्हि को दोष इत्यत्र दोषकुतूहलञ्चेबूसः, यदि वीजाङ्कुराद्ययुगपद्भाविनामपि 5 पृथिव्यादियुगपद्भाविभेदमूलत्वाद्यदेवोत्पद्यते तदेव विनश्यति ततोऽङ्करोत्पत्तौ तस्यैव विनाशित्वमिति दोषः, उदाहरणेन स्फुटीक्रियते-यस्माद्वीजोच्छूनमूलादिपूर्वभेदानां पत्रनालायुत्तरभेदानाञ्च विनाशावस्थस्वादङ्कुर एवैक इति सत्यम् , ततोऽङ्करोत्पत्त्याऽयमङ्कर एव विनश्यति ततश्च दृष्टेष्टविरुद्धावनुत्पत्त्यविनाशदोषौ स्याताम् , अङ्कुरोत्पत्तौ तस्यैवाङ्करस्यैव विनाशित्वान्न बीजं विनष्टं नाङ्कर उत्पन्नः, विनष्ठुरुत्प
तुश्चाभेदात् , भेदे तु सति युज्येत बीजं विनष्टमङ्कुर उत्पन्न इति, स चोत्पन्नश्चेन्न विनष्टः विनष्टश्चेन्नो10 त्पन्न इति उभयाव्यवस्थानान्नोत्पन्नो न विनष्ट इति ।
अस्तु नामानुत्पन्नोऽविनष्टश्च को दोष इति चेदुच्यते नैक एव, किं तर्हि ? सर्व एव वचनादिविरोधाः, अङ्कुरपत्रादिनिराकरणादपि च लोकादिविरोधाः।
(अस्त्विति) अस्तु नामानुत्पन्नोऽविनष्टश्च किं नामको ममायं दोषो न्यायलक्षणोक्त इति चेदुच्यते नैक एव, किं तर्हि ? सर्व एवेति वचनादिविरोधाः, उत्पद्यते चेन्न विनश्यति विनश्यति चेन्नो16 त्पद्यते, त्वया चोच्यते यदेवोत्पद्यते तदेव विनश्यतीति देशकालादिभेदाभावे कथमूर्द्धपदनविविधादर्शनभेदेन तदेवे]ति चाभेदेन निर्देशोऽविरुद्धार्थोऽतः स्ववचनविरोधः, उत्पत्तिविनाशयोर्वा रूढिभेदादे
miwww
देशकालादिभेदकाभावेन द्रव्यस्याविभागावस्थत्वादित्यर्थः । अत्र पक्षे दोषमुद्भावयति-यदीति, अङ्कुरे दोषप्रदर्शने कारणमादर्शयति-बीजाङरादीति, बीजाङ्कुरादयो ह्ययुगपद्भाविनो भावाः, ते च युगपद्भाविपृथिव्यादिभावव्यतिरेकेण न भवन्तीति भावः, एतेन देशकालादिभेदसत्त्वमादर्शितम् । कथमङ्कुरोत्पत्तौ तस्यैव विनाशित्वप्रसङ्ग इति चेत्तमुदाहरणेन स्फुटयति-यस्मादिति, 20 विविधमदर्शनमनुपलब्धिरभावो विनाश इति विनाशपदव्यावर्णनात् अङ्कुरकाले बीजोच्छूनमूलादिपूर्वभेदानां पत्रनालाद्युत्तरभेदानाश्चादर्शनेन विनाशावस्थत्वात् अङ्कुरस्यैव सत्वात्तस्योत्पत्तौ तस्यैव विनाशित्वं स्यादिति भावः । अनुत्पत्त्यविनाशदोषावादर्शयति-अहरोत्पत्ताविति यस्योत्पत्तिस्तस्यैव विनाशाद्वीज विनष्टमङ्कर उत्पन्न इति दृष्टस्येष्टस्य चासम्भवानुत्पत्तर्विनष्टश्चाभेदेन बीजमुत्पन्नं न तर्हि तद्विनष्टं यदि विनष्टं न तात्पन्न मित्युत्पादविनाशयोभैदेन व्यवस्थाविधानासम्भावादुभयोरव्यवस्थितत्वेना
भावापत्त्या नोत्पत्नोऽङ्करो न वा विनष्ट इति अनुत्पत्त्य विनाशदोषौ स्यातामिति भावः। अत्रापीष्टापत्तौ दोषमाह-अस्तु 25 नामेति । यदेवोत्पद्यते तदेव विनश्यतीति खीकृत्यानुत्पादविनाशयोरिष्टापत्तौ दोषमादर्शयति-नक एवेति, अत्र पक्षे नैक एव दोषः, किन्तु सर्व एव खवचनादिविरोधदोषा भवन्तीति भावः । वचनविरोधं दर्शयति-उत्पद्यते चेदिति, उत्पादविनाशयोर. भेदेनोत्पादप्राधान्ये न विनाशः, विनाशप्राधान्ये वा नोत्पाद इति वस्तुस्थितेः यदेवोत्पद्यते तदेव विनश्यतीति तवाभिधानं विरुद्धार्थ भवेत् , देशकालादिभेदाभावेनोत्पादविनाशयोभिन्नस्वभावयोरभावात् कथमूर्ख पदनलक्षणामुत्पत्तिं विविधादर्शनलक्षणं
विनाशमभ्युपेत्य यदेव तदेवेत्यभेदेन निर्देशः क्रियते विरुद्धार्थत्वात् , तस्माद्देशकालादिभेदाभावादस्त्विति वचनेन यदेवोत्पद्यते 30 तदेव विनश्यतीति वचन विरुध्यत इति स्ववचनविरोध इति भावः । आदिपदग्राह्यानाचष्टे-उत्पत्तीति, उत्पादोऽन्यार्थो लोके
सि. क. विधिनादर्श । २ सि. क. निर्देशाद्विरुः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org