________________
उत्पत्तिविनाशैक्यम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५७१
>
अथैतच्चेदुभयं नेच्छति भयात् ततोऽविभागावस्थत्वात् द्रव्यमसदापन्नम् मा भूद्रव्यस्याद्रव्यत्वं क्रियायाश्चाक्रियात्वमिति द्रव्यमविभागावस्थं तद्व्यञ्जिका क्रियेतीष्यते ततो यदेवोत्पद्यते तदेव विनश्यति युगपदयुगपद्भाविपृथिव्यादिभेदाविभागद्रव्य स्वावस्थत्वात् ।
wwww
www.m
( अथेति ) अथैतदुभयं - द्रव्यनिर्भेदासत्त्वादद्रव्य [स्त्वं] सन्निहिततथाभूतवस्तुतत्त्वव्यक्त्यभावादक्रियात्वञ्च नेच्छति, भयात् सर्ववस्तुत्यागभयात् ततोऽविभागेत्यादि, अविभागावस्थत्वात् - 5 विभागः भेदाः स्थित्याद्यवस्थाः तदभावाद्द्रव्यमविभागमित्यसदापन्नम् मा भूद्रव्यस्य भेदात्मकस्याद्रव्यत्व --- मिति क्रियायाश्चाक्रियात्वमव्यञ्जकत्वात्, प्रागेव तथाभूतव्येक्तेर्व्यर्थत्वान्मा भूदिति, किमापन्नं ? द्रव्यमविभागावस्थं तद्व्यञ्जिका क्रियेति-क्रिया चाविभागावस्थद्रव्यविषया यथासन्निधिव्यक्तिक्रियात्वादविभागस्यैव सन्निहितस्य व्यञ्जिका हि क्रिया, ततः किमिति चेत् ? ततो यदेवोत्पद्यते तदेव विनश्यति ऊर्द्धपत्तिरुत्पत्तिरात्मलाभः प्रत्यक्षोपलब्धिः, विविधमदर्शनं विनाशोऽनुपलब्धिरभाव:, एकरूपत्वाच्च वस्तुन- 10 स्तदभिव्यञ्जनाच्च क्रियाया उत्पत्तिविनाशयोरप्यभेदाद्यदेवोत्पद्यते तदेव विनश्यति, किं कारणं ? युगपदयुगपद्भाविपृथिव्यादिभेदाविभागद्रव्यस्वावस्थत्वात् - यदा चाविभागावस्थं द्रव्यं क्रिया च तद्व्यञ्जिका तदानीं युगपद्भाविनः पृथिव्यप्तेजोवाय्वाकाशकालादिभेदा रूपरसगन्धस्पर्श संख्या संस्थानादिभेदाश्च ये चायुगपद्भाविनो मृत्पिण्डशिवका दिभेदाः ते सर्वेऽप्यविभागाद्यवस्थामात्रमित्यापन्नाः, तस्मात् सर्वभेदानामविभागावस्थामात्रत्वादुत्पत्तिर्विनाश इत्यप्ययुगपद्भाविनौ भेदौ, तयोश्चाविभागावस्थं द्रव्यं ततश्चै- 15 क्यम्, एकत्वाच्च यदेवोत्पद्यते तदेव विनश्यतीति साधूक्तम् ।
www
देशकालादिभेदाभावादस्त्विति चेद्रुमः, यदि यदेवोत्पद्यते तदे विनश्यति ततोऽङ्कुरोत्पत्तौ तस्यैव विनाशित्वप्रसङ्गः, बीजोच्छून मूलादिपूर्वभेदानां पत्रनालाद्युत्तरभेदानाश्च विनाशावस्थात्वादङ्कुर एवैक इत्यङ्करोत्पत्त्याऽयमङ्कुर एव विनश्यति ततश्च दृष्टेष्टविरुद्धा
स्थित्याद्यवस्थाभावाद्रव्यस्य विभागाभावेन क्रियाया अव्यञ्जकत्वेन च तयोरभाव एव स्यादित्याह - अथैतदिति । एतदेव 20 स्फुटयति द्रव्येति द्रव्यस्य निर्भेदत्वासम्भवेनाद्रव्यत्वमिति भावः । अव्यञ्जकत्वमेवाह - प्रागेवेति क्रियायाः प्रागेव द्रव्ये तेषां व्यक्तत्वात् क्रिया न व्यजिकेति तस्या व्यर्थत्वमिति भावः । द्रव्यस्या विभागात्मकत्वं क्रियायाश्च तद्व्यञ्जकत्वं यदीष्यते तदा दोषं दर्श-' यितुमाह- द्रव्यमविभागावस्थमिति । क्रिया चेति क्रिया चाविभागावस्थं द्रव्यं व्यञ्जयति, सन्निहितव्यक्तिकरत्वात्, द्रव्ये सन्निहितस्य रूपादिपच्यादेर्व्यञ्जकत्वे द्रव्यस्यैव तेन तेन प्रकारेण भवनात् तस्य निर्भेदत्वानुपपत्तिरिति भावः । अविभागावस्थद्रव्यव्यञ्जकत्वे दोषमाह - ततो यदेवेति । उत्पत्तिविनाशयोरेकत्वं प्रसज्यते यैवोत्पत्तिः स एव विनाश इति तयोरविभागा- 25 वस्थामात्रत्वाद्द्रव्यस्येति भावः । एकरूपत्वे साधनमाह - युगपदिति । साधनार्थ स्फुटीकरोति यदा चेति द्रव्यं हि अविभागावस्थामात्रम्, यथा च युगपद्भाविनोऽयुगपद्भाविनश्च भेदा भविभागावस्थामात्रम्, त एव हि यदाऽविभागेन वर्त्तन्ते तदा द्रव्यमित्युच्यन्ते सत्त्वरजस्तमसां साम्यावस्थायाः प्रकृतित्ववत् तथोत्पत्तिविनाशयोरप्यविभागावस्था द्रव्यमुच्यते तथा चावस्थावस्थावतोरक्यात् यैवोत्पत्तिः स एव विनाशः स्यादिति भावः । नन्वविभागावस्थायां वैषम्य प्रयोजक क्रिया सहकारि देश काल विशेषाभावात्तदा द्रव्यस्य सर्वात्मकत्वात् सैवोत्पत्तिः स एव विनाशः स्यात् को दोषः, यदा तु देशकालादिभेदोऽस्ति तदा यदा यदुत्पद्यते 30 तदा तदेव विनश्यतीति न भवति तयोर्भिन्नत्वादिति शङ्कते - देशकालादीति । पूर्वपक्षं व्याचष्टे - स्यान्मतमिति, एकत्वात् १ सि. भावात् । २ सि. क. व्यक्तिर्व्यर्थ० । ३ सि. क. क्रियायाचा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org