Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 308
________________ wmmmm mmwww व्यक्तिजात्योभैदः] न्यायागमानुसारिणीव्याख्यासमेतम् ननु पृथिवीत्यादि यावदभेदस्य वा व्याघात इति स्यान्मतं पृथिवीद्रव्यत्वं शिवकादित्वाभिन्नं तस्मिंश्चाभिन्ने तदुत्पादविनाशयोश्चाभेदे सत्ये पृथिवीद्रव्यत्वेनानुत्पन्नाविनष्टत्वे सत्य एक एव तत्रोत्पाद विनाशौ तत्कालौ च, तस्यैव पृथिवीद्रव्यत्वस्य चांशाभ्यां बीजाङ्कराख्याभ्यां भेद इत्यस्ति भेदः, कारकसद्भावादित्युत्पत्तिरस्ति तथा विनाशस्तत्कालौ च, इतिशब्दस्य हेत्वर्थत्वात् , एवं भेदस्याभेदस्य च व्याघातो नास्ति तस्मात्तदेवोत्पद्यते तदेव विनश्यति पृथिवीद्रव्यत्वाभेदात् तदंशबीजाङ्करभेदात्तत्कालौ । च स्त इति नानित्यशून्यते दोषाविति, अत्रोच्यते-एवं तीत्यादि यावन्न तदेवोत्पद्यते तदेव विनश्यतीति, अयमिदानीमस्मत्परिकल्पितो भेद एवापतितस्तवापि, अश्मसिकतामृल्लोष्टवादिभेदे सति पृथिवी नाम न काचिदन्याऽस्ति तद्व्यतिरेकेण, किन्तु पृथिवीत्वजातिमात्रमभिन्नं तद्भेदव्यापि, तञ्च द्रव्यमेकमित्यस्य त्वत्पक्षस्य विघातकं जातिमात्रमभिन्नं शेषं सर्व भिन्नमिति सिद्ध्यति, वीजस्याङ्करस्य च नानात्वं बीजाद्विनश्यतोऽन्याङ्करस्योत्पद्यमानत्वात् , विनंष्टुः-मृतादन्य इव देवदत्ताद्यज्ञदत्त उत्पद्यमान 10 इति, तस्मान्न तदेवोत्पद्यते तदेव विनश्यति, अन्यनिवृत्त्यर्थावधारणस्य भेदसत्यत्वे सत्यानर्थक्यात् , ततश्च यथा वीजमित्यादि दृष्टान्तः-यथाङ्करादिकालेषु भिन्नेष्वपि ब्रीहित्वसामान्याभेदे सति पृथगेव बीजमङ्कुरादिष्यते मा भूत् पूर्वोक्तोऽनुत्पादाविनाश इति त्वया, तथा पांश्वादित्वमपि-पांशुमृत्पिण्डादित्वमपि पृथिवीत्वाद्भिन्नमेषितव्यम् , ततः किमिति चेद् ब्रूमः-इति भेदनिर्भेदद्रव्यनिर्मूलनमिति-अस्मात् पांश्वादित्वभेदाभ्युपगमात् सर्वप्रभेदनिर्भेदं न भवति, ततश्च लक्षणाभावाद्रव्यमेव निर्मूलितं त्वयेति । 15 इत्याशङ्कते-ननु पृथिवीद्रव्यत्वेति । एतदेव व्याचष्टे-स्यान्मतमिति, अनेनावयवावयविनोरभेदो दर्शितः। तमिश्चाभिन्न इति, अनेन यैवोत्पत्तिः स एव विनाश इत्युत्पादविनाशयोरभेदः प्रदर्शितः । पृथिवीद्रव्यत्वेनेति, अनेन द्रव्यत्वेन सर्वेषां नित्यत्वादनुत्पादाविनाशित्वं प्रकटीकृतम् तस्यैवेति, अनेन तत्तदवयवत्वेन बीजाङ्कुरादिना तद्भेदस्यापि सत्यता दर्शिता। कारकसद्भावादिति, अनेन यदा तथाविधकारकसमवधानं तदोत्पद्यते, यदा तु तथाविधकारकसमवधानं तदा विनश्यतीति कालविशेषेणोत्पादविनाशौ प्रकटीकृतौ। तदेवं पूर्वोदितदोषाभावं प्रदर्शयति-एवं भेदस्येति, एवञ्चावच्छेदकभेदादेकत्र भेदाभेदौ 20 न विरुद्धाविति भावः । एवमभ्युपगमे द्रव्यमेव निराकृतं भवतीति समाधत्ते-अत्रोच्यत इति । अवयवव्यतिरिक्तस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेरेवाश्मसिकतामृलोष्टादिभेदेभ्यो व्यतिरिक्ता पृथिवी नाम न काचिदस्तीति दर्शयति अयमिदानीमिति। अश्मा पृथिवी सिकता पृथिवी मृत् पृथिवीति प्रत्ययतो यत् स्थितिरूपं द्रव्यं भेदव्यापि मन्यते सा केवलमभिन्ना जातिरेव, न तु द्रव्यम् , अश्मसिकतादिव्यतिरिक्तस्य प्रत्यक्षतो द्रव्यस्यानुपलम्भात् , तस्मात् सर्वभेदव्यापिद्रव्याभावात् द्रव्यं भावश्च वस्विति त्वत्पक्षो विहन्यतेऽनेन वचनेन पृथिवीद्रव्यत्वाभेदादित्यादिना, तस्मात् द्रव्यं भिन्न भिन्नमेवापतितं विनश्यतो बीजादन्यस्यैवाङ्क-25 रस्योत्पादात् , अत एव यदेवोत्पद्यते न तदेव विनश्यतीति प्रतिपादयति-अश्मसिकतेति । तद्व्यतिरेकेण-अश्मसिकतादिभिन्नत्वेनेत्यर्थः । नन्वेकस्य द्रव्यस्याभावेऽनुवृत्तप्रत्ययो न स्यादित्यत्राह-किन्विति । न च बीजाङ्करादीनामेव द्रव्यता, तेषां प्रत्यक्षेण नानात्वदर्शनादित्याशयेनाह-बीजस्येति । निदर्शनमन्यत्वे दर्शयति-विनंष्टुरिति । एवञ्चोत्पद्यमानोऽन्यो विनाशी चान्य इति यदेव तदेवेत्यभेदनिर्देशो नोपपन्नः, अत्र ह्येवकारोऽन्यनिवृत्त्यर्थेकः, यदा चान्यत्वमुत्पद्यमानविनाशिनोवोस्तविक तदा तन्निवृत्तिनिरर्थिकेल्याह-तस्मान्नेति । यदेव तदेवेति यस्यैवोत्पादस्तस्यैव विनाश इति वर्णनात् उत्पादविनाशवैयधिकरण्य-30 निवृत्तिर्न शक्यते विधातुम् , उत्पादविनाशयोरधिकरणभेदस्य सत्यत्वात् , ततश्च मृत्पांशुसिकतादीनामुत्पादविनाशाधिकरणानां १ सि.क. सत्यकेव। २ सि. क. कदाचिद। ३ सि. क. मात्रमिसि .क. भ्याकुर उत्प । ५सि. क. 'दत्तोयज्ञ । ६ सि. क. 'मानमिति । ७ सि. क. दाविशेष । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350