Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 311
________________ ५७८ wwwwwwwwww mmawwm wwwwww द्वादशारनयचक्रम् [विधिनियमविधिः दोषो बलादापद्यते शिबकेनोत्पत्तौ शिबकेनैव विनंष्टव्यमिति, किं कारणं ? ततोऽभिन्नत्वात् , यतो यदमिन्नं तदुत्पत्तौ तेनैव विनंष्टव्यं यथा त्वदुक्तानन्तरघटोत्पाद इति, एवं त्वनुत्पत्तावित्यादि-एवञ्चेदुत्पत्तिर्नेष्यते तस्यैवावस्थितस्य घटस्य नैवोत्पत्तिरस्ति, अत्यन्तं घटाख्याद्भावादन्यत्वात् खपुष्पवत् , अनुत्पन्नस्य च विनाशाभावः खपुष्पवदेव, विनाशस्याप्यभावात् घटादिभवनाभावः, अपिशब्दादुत्पउत्तेरप्यभावाद्भूटादीनामुत्पत्तिविनाशशून्यत्वाद्भवनाभावः-अस्तित्वाभावः, उत्पत्तिविनाशौ हि [भवनसम्बन्धतद्व्यतिक्रमौ, ] भवनसम्बन्ध[स्य]तद्व्यतिक्रमस्य चाभावात् सर्वमभूतं नास्तीत्येवमाद्यापद्यते, आदिग्रहणादवस्तुसत् अभावो निरुपाख्यमित्यादि । अत्र पुनः परिहार: अथोच्येतैक्य एव भिन्नयोरप्यभेदः, यथा मृत्कुम्भावस्था, रूपादिशिवकादियुगपद10 युगपद्भाविनियतभवनानि मृद्रव्यभवनस्यैव भवनभागा अभिव्यज्यन्ते तांश्च भवनभागान् क्रियापि व्यनक्ति नान्यथेति यद्यभिन्नस्यैवावस्थाः स्युः को दोष इति । अयोच्येतैक्य एवेत्यादि, यथा सत्येवैक्ये मृत्कुम्भावस्थयोः सर्वसर्वात्मकत्वाद्भिन्नयोरप्यभेदः तथा बीजाङ्करादिभेद इत्यभिप्रायः, यथा मृदः कुम्भावस्था, युगपद्भाविनां रूपरसादीनामयुगपद्भाविनाश्च शिवकादीनां नियतानि भवनानि मृद्रव्यस्यैव कर्तृभवनस्य रूपादिशिवकादित्वेन तेन प्रकारेण नियता 16 एव भवनभागीः मायाकारकपताकिकावन्नानियताभिव्यक्तयोऽभिव्यज्यन्ते प्रथमभवनशब्दस्य कर्तृभवनार्थत्वात् , तांश्च भवनभागाने क्रियाऽपि व्यनक्ति नान्यथा, भावशब्दस्य द्वितीयस्य क्रियावाचित्वात् । यद्यभिन्नस्य मृत्कुम्भाद्ययुगपदवस्थाः रूपादिपृथिव्यादियुग[प]त्पत्तिस्थिति[विनाशाः] अभिन्नस्यैवावस्थाः स्युः को दोष इति । तदुत्पत्तौ तेनैव विनंष्टव्यम् , यथोत्पद्यमानघटादनन्यो विनश्यमानो घट इत्याह-शिबकेनेति । उक्तप्रतिज्ञायां हेतुमाह-ततोऽ20 मिन्नत्वादिति उत्पद्यमानशिवकात विनश्यमानशिवकस्याभिन्नत्वादित्यर्थः । दृष्टान्तमाह-यथेति, यथा त्वयोत्पद्यमानघटबिनश्यमानघटयोरभेदोऽभ्युपगम्यते तद्वदिति भावः। शिबकपिण्डादेरेवोत्पादविनाशात् घटस्योत्पादानभ्युपगमे विनाशस्याप्यभावाद्धटस्य भवनं न स्यादित्याह-एवञ्चेदिति।घटाख्यादिति पिण्डशिबकाद्यवस्थावतो घटस्योत्पादानङ्गीकारे शिवकादेरेवाङ्गीकारे उत्पत्तेर्घटाद्भिन्नत्वेन घटस्य उत्पत्तिर्न स्यादिति भावः । एवं घटस्योत्पादाभावे कथं घटत्वेन विनश्यन् पटत्वेनोत्पद्यत इत्युत्पादविनाशाभावाद्धटस्य भवनाभावेनाभूतस्य नास्तित्वं स्यादित्याह-अनुत्पन्नस्य चेति । उत्पादाद्याभावे कथं 25 भवनाभाव इत्यत्राह-उत्पत्तीति भवनसम्बन्धस्यैवोत्पत्तित्वात्तस्यतिक्रमस्य च विनाशत्वादित्यर्थः । आपाद्यान्तरमाह आदिग्रहणादिति । युगपदयुगपद्भाविनो भेदा अभेदपूर्वका एव, अभिन्नस्यैव भेददर्शनात् , न हि धर्मिखरूपव्यतिरेकेण भेदभूतधर्मा भवितुमर्हन्ति, तस्मादैक्य एव भेदसम्भवात् तेषां च भेदानां धर्मरूपत्वादेवाश्रयाभेदत ऐक्यसम्भवः, अत एव सर्वसर्वात्मकतापि, अभेदात्मनि द्रव्ये एव धर्माणां युगपदयुगपद्भाविनामभेदेन निलीनत्वात् मायाकारकपताकिकावच्च अभेदेन नियता एव धमोः क्रिययाऽभिव्यज्यन्त इति नाभूतं नास्तीत्यादिदोषप्रसङ्ग इत्याशङ्कते-अथोच्येतति । तदेव व्याचष्टे30 यथा सत्येवेति, स्थित्यात्मवस्तुसत्येवावस्थानां सम्भवोऽभेदसम्भवश्व, सामान्यस्यैव विशेषीभवनात् विशेषाणाञ्च सामान्याभेदादिति भावः । वस्तुनः सर्वात्मकत्वादेव नियतानामवस्थानां क्रिययाऽऽविभाव इत्याह-यथा मृद इति । ननु भेदा १ सि. क. सर्वा स० । २४४ सि. । ३ सि. क, यदि मिन्नस्य । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350