Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 313
________________ द्वादशारनयचक्रम् [ विधिनियमविधिः क्तिव्यतिरिक्तो व्यञ्जकः प्रसिद्धो न तु तद्रव्याव्यतिरिक्तः, यदेवोत्पद्यते तदेव विनश्यतीति द्रव्यस्वावस्थाविभागं ब्रुवता त्वया न ततोऽन्यः संयोगः संयोगी वाऽभ्युपगम्यते, क्रियास्वावस्थाद्रव्यभेदनिषेधात्, तदभ्युपगम्य व्यक्तिधर्मस्त्यक्तः, तत्त्यागाच्च व्यक्तिरनुत्तरैव, व्यक्तिकारणाभावात् । अपि चेत्यादि, अभ्युपगम्याभिन्नार्थैक्यापत्तिविषये व्यक्तयव्यक्ती लोकप्रतीतव्यक्तिधर्मविपरीतत्वात् उत्पादाद्यभाव इति ब्रूमः, लोके हि पूर्वव्यक्तिव्यतिरिक्तो व्यञ्जनः प्रसिद्धोऽन्यः, उदकाञ्जनदीपादियोगो भूगन्धचक्षुरिन्द्रियशक्त्यभिव्यक्तिघटा दिदर्शनहेतुः यथासंख्यम्, भुजिक्रियासाधनं भूयोगिमूलकादिद्रव्यजातमुपलभ्यते यथा न तथा तद्द्रव्य [[] व्यतिरिक्तम्, यदेवोत्पद्यते तदेव विनश्यतीति द्रव्यस्वस्थाविभागं ब्रुवता त्वया न ततोऽन्यः संयोगः संयोगी वाऽभ्युपगम्यते द्रव्य क्रियापृथग्भूतः, 10 द्रव्यावस्थामात्रत्वादुत्पादादीनाम्, किं कारणं ? क्रियास्वावस्थाद्रव्यभेदनिषेधात् - उत्पादादयः क्रियायाः स्वावस्था इत्येतं पक्षं द्रव्यस्यापि परस्परभिन्नाः सत्योऽवस्था इत्येतच पक्षं यस्मान्निषिद्धवन्तो वयम्, द्रव्यनिर्मूलत्वादिदोषात् तस्मादभ्युपगतं त्वया न किञ्चिद्रव्य [ व्यति] रिक्तमस्तीति, ततश्च तदभ्युपगम्य व्यक्तिधर्मस्त्यक्तः, तद्विपर्ययधर्मणो द्रव्यमात्रस्याभ्युपगमात् तत्त्यागाच्च व्यक्तिरनुत्तरैव, व्यक्तिका - रणाभावात् । wwwww wwwwwwwww स्यान्मतं निर्हेतुका व्यक्तिरव्यक्तिर्वा द्रव्यधर्मः स्वभाव:, यथोक्तं 'सुदूरमपि संधाय संक्षीणासूपपपत्तिषु । न स्वभावागमावन्ते कश्चिन्न प्रतिपद्यते' ( ) इति, एतच्चायुक्तम् 5 15 ६८० www व्यक्त्यव्यक्तो अभिन्नार्थैक्यापत्तिविषयिण्यावित्यभ्युपगम्येत्यर्थः । दृष्टान्तमाह- उदकेति, उदकयोगो भूमिगन्धव्यञ्जने, अञ्जनयोगः चक्षुरिन्द्रियशक्त्यभिव्यक्तौ, दीपादियोगो घटादिदर्शने हेतुरित्यर्थः । भुजिक्रियायाः साधनं भूसंयोगि मूलका दिद्रव्यं भुजिक्रियाव्यतिरिक्तमेव लोके दृष्टमिति द्रव्यमात्राभ्युपगन्तुस्तव व्यतिरिक्तव्यञ्जकाभावात् कथमुत्पादादि भवेदित्याह - भुजिक्रियेति, उदकादि20 निदर्शनं संयोगस्य, मूलकादिनिदर्शनं संयोगिनो द्रव्यस्य, एवञ्च व्यङ्ग्यद्रव्याद्व्यतिरिक्त एव लोके व्यञ्जको दृश्यते नाव्यतिरिक्तः, नात्र वित्तथाविधो वर्त्तत इति भावः । तादृशस्य भिन्नस्य कस्यचिदनभ्युपगमादिति दर्शयति यदेवेति, अनेनाभ्युपगमेनोत्पादादयो द्रव्यस्य वावस्था इति प्रकाशितम्, तद्व्यञ्जकञ्च तद्व्यतिरिक्तं किञ्चिन्नाभ्युपगम्यते तथा च कथमुत्पादादय इति भावः । उत्पादादयो द्रव्यस्वावस्था इत्यत्र हेतुमाह-क्रियेति, एतदेव समर्थयति - उत्पादादय इति, प्रारम्भेऽस्मिन्नये उत्पादादयोऽवस्थाः किं द्रव्यस्य, उत क्रियाया वा इति विकल्प्योभयत्रैतन्नयवादिना दोषे आविर्भाविते द्रव्यस्याद्रव्यत्वादिदोषभयात् यदेवोत्पद्यते तदेव 25 विनश्यतीति युगपदयुगपद्भाविपृथिव्यादिमेदा विभागद्रव्यखावस्थत्वमभ्युपगतं भवद्भिरिति द्रव्यव्यतिरिक्तस्याभावे द्रव्याव्यतिरिक्तया क्रियया भेदानां व्यञ्जनं न स्यात्, यदि स्यात्तर्हि लोकप्रसिद्धस्याभिव्यक्तिस्वभावस्य परित्यागः कृतः स्यादिति भावः । तद्विपर्ययेति व्यक्तिधर्मविपर्ययभूतस्याव्यतिरिक्तद्रव्यस्याभ्युपगमादित्यर्थः । तत्त्यागाच्चेति भिन्नस्यैव व्यञ्जकत्वमिति व्यक्तिधर्मस्य त्यागाद्व्यक्तिनैव भवेत्, वस्तुतो द्रव्यभिन्नस्य व्यञ्जनसमर्थस्य कस्यापि कारणस्याभावात् न हि त्वदनभ्युपगममात्रेण homeostatantras यथा भवितुमर्हतीति भावः । अथ सर्वहेतुनिराशंसा भावानां व्यक्तिरव्यक्तिश्चेति द्रव्यखभावः तद्व्यति30 रिक्तस्य कारणस्य बहुधा विचार्यमाणे कस्यापि प्रमाणस्य निरपाय स्थित्यसम्भवादन्ततः स्वभावस्यैव आगमस्यैव वा शरणीकरणीयत्वात् एवमेव स्वभावः एवमेवास्मदीय सर्वद्रष्ट्रागमेन प्रतिपादितमिति स्वभाववादमाशङ्कते - स्यान्मतमिति । स्वमत Jain Education International 2010_04 wwww १ सि. क. पूर्ववृत्ति० । २ सि. क. साधनभूयोगिव भूदकादि० । ३ क. XX। ४ सि. क. अनुत्तरमेव । ५ सि. स्वपप० । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350