Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 315
________________ द्वादशारनयचक्रम् [विधिनियमविधिः नितिष्ठतीति, अत्रापि हि द्वयी गति:-तेनाप्युत्पत्तिप्रकारेणावतिष्ठमानं यद्वा स्थित्युत्पत्तिविनाशप्रकारैः सर्वथावतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठति चेति, यदि तथोत्पादेनैवावतिष्ठमानमुत्पद्यते नितिष्ठतीत्युच्यते तत उत्पादेनैवावस्थितत्वान्नोत्पद्यत इति उत्पत्तिर्द्विधाऽपि कुतः? उत्पद्यमाने चावस्थानम् ? यद्युत्पद्यते कथमवतिष्ठते ? यद्यवतिष्ठते कथमुत्पद्यते ? इति । स्ववचनादिविरोधाः पूर्ववत् ।। __ अथोत्पादविनाशसामानाधिकरण्य इत्यादि, उत्पादविनाशैकाधिकरण्ये दोषदर्शनात् निर्दोषोऽयमिति विकल्पान्तरमाश्रीयते तदेवोत्पद्यते तदेव नितिष्ठतीति, अनापि न निर्दोषमेवेति ब्रूमः, अत्रापि हि द्वयी गतिः तेनाप्युत्पत्तिप्रकारेणा [व] तिष्ठमोनं-यद्वोत्पादेनैवावतिष्ठमानमुत्पद्यते नितिष्ठतीत्युच्यते यद्वा स्थित्युत्पत्तिविनाशप्रकारैः सर्वथाऽवतिष्ठमानं तदेवोत्पद्यते तदेव 'नितिष्ठति चेत्युच्यते, 10 यदि तथोत्पादेनैवावतिष्ठमानमुत्पद्यते पनितिष्ठतीत्युच्यते तत उत्पादेनैवावस्थितत्वान्नोत्पद्यत इति उत्पत्तिद्वैिधापि कुतः ? इति, असंभव इत्यर्थः, अस्ति चोत्पत्तिः, उत्पद्यमाने चावस्थानं ? कुत इति वर्तते, यद्युत्पद्यते कथमवतिष्ठते ? यद्यवतिष्ठते कथमुत्पद्यते ? इति स्ववचनादिविरोध[1]: पूर्ववदिति-यथाङ्कुरोत्पत्तिविनाशैकाधिकरण्योदाहरणे स्ववचनादिविरोधास्तथात्राप्युत्पत्तिस्थितिसामानाधिकरण्ये योज्या इति । व्यापिस्वतत्त्वानुमतांशुतन्तुवत्तु प्रदीर्घद्रव्यस्य पूर्वोत्तरतया स्थित्युत्पत्तिविनाशावस्था 15 व्यापिस्वतत्त्वानुमतबीजाङ्कुरत्वादय इत्यस्मिन् प्रकल्पे उत्पत्तिस्थितिसामानाधिकरण्ये न स्ववचनादिविरोधा इत्यत्रोच्यते, एतस्मिन्नपि प्रकल्पे बीजस्यांशूनां वाऽनुत्पादित्वादविनाशित्वाञ्च नित्यत्वात् स्थितिरेवेति कुतोऽङ्करो बीजात्, कुतोऽशुभ्यस्तन्तुः? इति. त एव विरोधाः, पूर्वस्तम्बनित्यत्वाद्वा बीजानुत्पत्तेः। व्यापीत्यादि यावत् प्रकल्प इति, स्यान्मतं व्यापिस्वतत्त्वानुमतांशुतन्तुवत्तु-व्याप्नोतीति व्यापी 20 भत्रापि भङ्गेऽनुत्पादानवस्थानखवचनविरोधादिदोषप्रदिदर्शयिषया विकल्पमारचयति-अत्रापीति, उत्पादस्थितिभङ्गेऽपीत्यर्थः । केवलमुत्पत्तिप्रकारेणैवावतिष्ठमानस्य वस्तुनः किमुत्पादस्थिती उच्यते, अथवा उत्पादस्थितिविनाशावस्थस्य वस्तुनो व्यापिन इति वैविध्यं दोषाभिधित्सया प्रदर्शयति-तेनापीति । प्रथमप्रकारे दोषमाह-यदीति । सततमुत्पादक्रियायामेव सत्त्वे विश्रान्त्यभावे उत्पत्तेः पूर्णताया असम्भवेन कथमुत्पद्यते पिण्डकुशूलादीति भावः । उत्पत्तिर्द्विधापीति, ऊर्द्धपदनप्रत्यक्षोपलम्भरूपा द्विविधोत्पत्तिरिति भावः । उत्पादक्रियाव्यग्रत्वादेव च स्थिरत्वासम्भव इत्याह-उत्पद्यमान इति । उत्पादस्थित्योर्भि25 अकालीनत्वेन कथमुत्पादक्रियाकाले स्थितिक्रिया, स्थितिक्रियाकाले चोत्पादक्रिया, उच्यते च भवता तदेवोत्पद्यते तदेव निति छतीति खवचनविरोधः देशभेदेन कालभेदेन वा ते हि स्याताम्, देशकालभेदस्तु नास्त्येव, यदेव तदेवेत्यभेदेन निर्देशादिति पूर्वोदितमेव स्मारयति-पूर्ववदिति। द्वितीयप्रकारे दोषो नास्तीति मन्वानः शङ्कते-व्यापीति, तन्त्वादिकार्यस्य व्यापकोंऽशुः, तन्तुपटादिकार्यध्यापनात्, अत एवासौ तन्त्वादीनामात्मभूतः, तन्त्वादिकार्यव्यापनादेव च तत् प्रदीर्घ द्रव्यमुच्यते, व्यापिस्वात् प्रदीर्घद्रव्यत्वाच्च स्थितिमानंशुः, तन्तुपटादयः कार्यत्वादुत्पादविनाशवन्तः, कारणस्य कार्यात्मत्वाद्रव्यार्थापेक्षयैकत्वात् स्थत्यत्पत्तिविनाशसम्भवात् स्थित्यत्पत्तिविनाशप्रकारैः सर्वथावतिष्ठमानं तदेवोत्पद्यते तदेव नितिष्ठतीत्युच्यत इति नोत्पाद स्थित्यनुपपत्तिखवचनविरोधादिदोषा इति शतितुरभिप्रायः । एतदेव व्याचष्ट-स्यान्मतमिति, व्यापकं कारणं व्याप्यानि १ सि. क. अथ विनाशसामानाधिकरण्येत्यादि । २ सि. क. माने । ३, ४, ५, सि. क. विनश्यति । ६ सि. क. यथा स्वतत्त्वानुमतां श्रुतं तु वस्तु । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350