Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
wwwwww
उत्पादस्थितिकल्पः] न्यायागमानुसारिणीव्याख्यासमेतम्
अहेतुतो व्यक्तेरिव वाऽव्यक्तेरपि तद्वत्त्वे नित्यमेव व्यक्तिरव्यक्तिर्वा सर्वस्य स्यात् , परिणामान्नैवमिति चेन्न, उक्तदोषतुल्यत्वात् , एवं तावदुत्पादविनाशयोः संयोगेनायं विकल्पः सप्रसंगपरिहारप्रच!ऽभिहितः, तथा वक्ष्यमाणेषु समानः प्रचर्चा द्रष्टव्यः ।
(अहेतुत इति) अहेतुतो वा व्यक्ते[रि]वाव्यक्तेरपि तद्वत्त्वे तेन तुल्यं तद्वत् , तस्य भावस्तद्वत्ता व्यक्तिवद्भाव इत्यर्थः, कथं ? यथा व्यक्तिनिर्हेतुका तथैवाव्यक्तिरपि निर्हेतुका, ततः किमिति चेदुच्यते- 6 नित्यमेव व्यक्तिरव्यक्तिर्वा सर्वस्य स्यात् , निर्हेतुकत्वात् , मृवस्थायां घटाव्यक्तिवद्धटावस्थायामव्यक्तिघंटस्य स्यात् , घटावस्थायां घटव्यक्तिवत् मृदवस्थायां व्यक्तिः स्यात् , मृत्पिण्डे घटव्यक्तिवत् गगनेऽपि. स्यात् , वियत्यव्यक्तिवन्मृद्यप्यव्यक्तिर्वा स्यादित्यादि, परिणामान्नैवमिति चेत् स्यान्मतं यथा त्वयोक्तं न तथा भवितुमर्हति परिणामाभ्युपगमात्, अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्ती धर्मान्तरापत्तिः परिणाम:, : तस्मान्मृत्पिण्डशिवकादिपरिणामैः स्थित्युत्पत्तिविनाशा भविष्यन्ति, न निर्हेतुकाः, तस्मादेव परिणामात् 10 व्यक्त्यव्यक्ती च स्त इति, एतदपि न, उक्तदोषतुल्यत्वात् , य एतेऽस्माभिर्भावस्वावस्थात्वपक्षे च भिन्नाभिन्नात्मकद्वैधे दोषा उक्तास्ते तुल्या एव परिणामपक्षेऽपि द्रष्टव्याः, परिणामावस्थयोः श्रुतिमात्रभेदात् , उत्पत्तेः प्रादुर्भावत्वात् , विनाश[स्य] निवृत्तित्वात् अवस्थितस्येति च [व] शब्देनैव स्थितिवचनात् , परिणामोच्चारणेन च नन्वेवमुभयमप्यवस्त्वित्यादिरादितो ग्रन्थो योज्यो यावदयमेवावधिरिति, तस्मादपरिहारः परिणामः, एवं तावदुत्पादविनाशयोः संयोगेनायं विकल्पः सप्रसङ्गपरिहारप्रच!ऽभिहितः, 16 तथा वक्ष्यमाणेषु-उत्पादस्थितिसंयोगे स्थित्युत्पादसंयोगे स्थितिविनाशसंयोगे विनाशोत्पादसंयोगे विनाशस्थितिसंयोगे त्रिकादिसंयोगेषु च समानः प्रच! द्रष्टव्यः, यदेवोत्पद्यते तदेव विनश्यत्यतः प्रभृति यावदयमवधिरिति ग्रन्थयोजनया योजयिष्यते ।
अथोत्पादविनाशसामानाधिकरण्ये दोषदर्शनाद्विकल्पान्तरमाश्रीयते तदेवोत्पद्यते तदेव साधिकामभियुक्तोक्तिं व्यनक्ति-यथोक्तमिति, स्पष्टोऽर्थः। समाधत्ते-अहेतुत इति खपरकारणनिरपेक्षा व्यक्तिरिति भावः । 20 तस्या इवाव्यक्तेरपि तद्वत्त्वे-व्यक्तितुल्यत्वे इति, एवं व्याचष्टे-अव्यक्तेरपीति । तदेव व्यक्तितुल्यत्वं दर्शयति-यथेति । अहेतुतो भावे नित्यं भावानां सत्त्वमसत्त्वं वा भवेन तु कादाचित्कत्वं तथा सर्व सर्वत्र स्यान्न स्याद्वेत्यादर्शयति-नित्यमेवेति । अथ स्थित्यादयो नाहेतुतो भवन्ति, अपि तु परिणामात् स्युरिति शङ्कते-परिणामादिति । परिणामस्वरूपं दर्शयति-अव. स्थितस्येति, तत्र निवृत्त्यापत्ती विनाशोत्पादौ, अवस्थानं स्थितिः, तदेतत्रयं वस्तुनः परिणामित्वादुपपद्यत इति नो इति भावः । अत्रापि पक्षे दोषमादर्शयति-उक्तदोषेति, किमिमे उत्पादादयः परिणामभूतस्य पिण्डशिवकादेर्भावस्य, उत 25 परिणामिनो मृदात्मद्रव्यस्येति विकल्पतः परिणामस्य परिणामिनश्च भेदाभेदाभ्यां च दोषस्यैतन्नयारम्भादेतदवधि प्रदर्शितत्वामायमपि पक्षो निर्दोषः, परिणामावस्थयोः पर्यायत्वात् , यद्यपि धर्मलक्षणावस्थाभेदैः परिणामस्य त्रैविध्य, यथा मृदः पिण्डशिवकादिः धर्मपरिणामः, ह्यस्तनी मृत् अद्यतनी श्वस्तनी वेति लक्षणपरिणामः, नवपुराणादिरवस्थापरिणाम इति तथापि धर्मलक्षणयोरवस्थानतिवृत्तेरवस्थापरिणामयोः श्रुतिमात्रभेद उक इति ध्येयम् । दोषप्रदर्शनग्रन्थमतिदिशतितदेवं यदेवोत्पद्यते तदेव विनश्यतीति उत्पादविनाशसंयोगेन विकल्पे दोषा आदर्शिताः, एवमेवापरेष्वप्युत्पादस्थित्यादिभङ्गेषु 30 विभाव्या इति दर्शयति-एवं तावदिति । भङ्गान् दर्शयति-उत्पादेति । अथोत्पादस्थितिभनाश्रयेण किञ्चिद्विचार्यते-अथेति।
१ सि. व्यक्तिर्न हेतुकालः । २ सि. क. इति नित्यमेव । ३ सि. क. उत्पत्तिप्रादु० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350