Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 312
________________ ५७९ 15 wom व्यक्त्याधनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् अत्रोच्यते नन्वस्माभिरपि नोपपद्यते इत्युक्तमनन्यत्वात् सर्वस्य सर्वात्मकत्वाच्च, त्वयाऽ. भ्युपगतानां स्थित्यादीनां द्रव्यस्वावस्थत्वात् तस्मादविरोधादनन्यत्वमासाम् , अनन्यत्वाच्च पूर्वोत्तराभावात् कः केनाभिभूतो येनैक्यमापोरन् , यत इयमनया क्रिययाऽभिव्यज्यते, नेयमिति च, अविद्यमानपार्थक्यात्, पृथक् सिद्धानां |क्यापत्तिः तन्तुपटवत् , ततः कस्यचिठ्यक्त्यव्यक्ती नोपपद्यते इति कुत उत्पादादिभेदः । _(अत्रोच्यत इति) अत्रोच्यते-नन्वस्माभिरपीत्यादि यावत् कुत उत्पादादीति, नन्वस्माभिस्ते एव नोपपद्यते इत्युक्तं, व्यक्त्यव्यक्तीत्यभिसम्बध्यते, तथानियतभवनभागद्रव्यावस्थाया व्यञ्जनमव्यञ्जनश्चेति, कस्मात् ? अनन्यत्वात् सर्वस्य सर्वात्मकत्वाच, तच्चानन्यद्रव्यमेव, तस्य च स्थित्युत्पत्तिविनाशा अनन्ये, किं कारणं ? त्वयाऽभ्युपगतानां स्थित्यादीनां द्रव्यस्वावस्थत्वात्-द्रव्यस्यैव स्वावस्थाः स्थित्यादयः परस्परतोऽनन्य इति हि समाश्रितः त्वयाऽयं पक्षः, परस्परभिन्नस्थित्यादीनां द्रव्यस्वावस्थत्वे 10 सर्वपक्षार्थध्वंसित्वभयात् , तस्माद्रव्यस्वावस्थत्वादविरोधः स्थित्यादीनाम् , न यथा स्वप्नजागरणयोर्विरोधः, तस्माद्रव्यस्वावस्थत्वादविरोधः, अविरोधाचानन्यत्वमासाम् , अनन्यत्वाच्च पूर्वमिदमुत्तरमिदमिति क्रमाभावस्ततः पूर्वोत्तराभावात् कः केनाभिभूतः येनैक्यमापोरन् स्थित्यादयः, यतः-एतस्मादियमनया क्रिययाऽभिव्यज्यतेऽवस्था नेयमिति च, कस्मात् ? अविद्यमानपार्थक्यात् , पृथक् सिद्धानां बैक्यापत्तिः स्यात् सत्यविरोधे, तन्तुपैटवत् , तस्मादभिभवैक्यानापत्तेः पूर्वोत्तराभावाद्रव्यखावस्थत्वे सत्यविरोधाद-15 नन्यत्वात् कस्यचिद्व्यक्त्यव्यक्ती नोपपद्येते, कुतस्तदनुपपत्तेस्तथानियतभवनभागव्यक्त्यव्यक्तिभावाभ्यामुत्पादादिभेद इति तदवस्थो दोषः । किश्चान्यत्अपि च लोकप्रतीतव्यक्तिधर्मविपरीतत्वादुत्पादाद्यभाव इति ब्रूमः, लोके हि पूर्वव्य wwwwww नामेकान्तेनाभेदो भवतामिष्टः. तथा चोत्पत्तिस्थितिविनाशाः द्रव्यादेकान्तेनाभिन्नास्तत्वरूपा एच, तस्मात् येवोत्पत्तिः स एव 20 विनाशः स्यादित्याद्यापत्तय उक्तास्तदवस्था एवेत्युत्तरयति-अत्रोच्यत इति । यतो यदभिन्नं तदुत्पत्तौ तेनैव विनंष्टव्यं ततोsभिन्नत्वात् , एवं त्वनुत्पत्तौ विनाशाभावेन भवनाभावात् कुम्भादिरूपादीनां व्यक्त्यव्यक्ती न स्यातामित्युक्तं सूचयति-नन्वरमाभिरिति । मृत्कुम्भावस्थयोरेकान्तानन्यत्वात् सर्वेषां सर्वात्मकत्वाच्चेत्यनुपपन्नत्वे हेतू दर्शयति-अनन्यत्वादिति स्थित्युत्पत्तिविनाशानां द्रव्यानन्यत्वात. स्थित्यादीनामपि परस्परतोऽनन्यत्वेन सर्वात्मकत्वाचेति भावः। अन्यथा सर्वसर्वात्मकत्वपक्षमा इत्याह-परस्परेति, अवस्थानां परस्परं भेदमभ्युपेत्य तासामवस्थावदनन्यत्वे इत्यर्थः । ननु स्थित्युत्पत्तिविना-25 शानां भिन्नकालत्वेन विरोधात् कथं परस्परमभेद इत्यत्राह-तस्मादिति द्रव्यखावस्थत्वादित्यर्थः। अवस्थात्वादेव रूपरसादाविवाविरोधादनन्यत्वेनैकत्वात्पूर्वोत्तरकालता नास्ति स्थित्यादीनां विरोधाद्भेदे सति हि खपजागरणयोरिव पूर्वोत्तरकालता भवेत् , उक्तञ्च 'असतश्च क्रमो नास्ति स हि मेत्तुं न शक्यते । सतोऽपि चात्मतत्त्वं यत्तत्तथैवावतिष्ठते ॥' इति, एवञ्च द्रव्यमात्रस्यैकस्यैव वस्तुत्वादस्माद्धेतोरयमिदानीमभिभूतोऽस्माच्चायमिदानीमाविर्भूत इत्यसम्भवेनोत्पादाद्यभावादभूतं नास्तीत्युक्तदोषास्तदवस्था एवेत्याह-अनन्यत्वाञ्चेति । अथानन्यद्रव्यस्य सर्वात्मकत्वमभ्युपेत्य व्यक्त्यव्यक्त्योः सम्भावनयापि व्यजकाभावात्ते न स्याता, 30 लोके हि यत्र यस्य व्यक्तिस्ततो व्यतिरिक्तस्यैव व्यञ्जकत्वं दृश्यते तादृशश्चात्र नास्तीत्याह-अपि चेति । अभ्युपगम्येति १ सि. क. पीदमित्या० । २ सि. क. व्योव्याविहि । ३ सि. क. तन्तुपटत्ववत् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350