Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 310
________________ वदिति। उत्पाद विनाशामेदः] न्यायागमानुसारिणीव्याख्यासमेतम् ५७७ - मनु घट उत्पद्यमान इत्यादि यावत् पैटत्वेनोत्पद्यत इति, यत्त्वयोक्तं यदेवोत्पद्यते तदेव विनश्यति तत्रानुत्पत्त्यविनाशस्ववचनविरोधादिक्षणिकवादातिशयशून्यवादतादोषा न सम्भवन्ति, प्रत्यक्षवचनादीनां तथात्वात् , यस्माद्बट उत्पद्यमान एव शिवकत्वेनोत्पद्यमानः पिण्डत्वेन विनश्यति, पूर्वोत्तर. कालयोरपि सष्ट्रव्यपृथिवीमृत्त्वामेदाबूटाभेदात् पिण्डावस्थायां शिबकाद्यवस्थायां मृदादियावत्परमाण्ववस्थायां कपालादियावत्परमाण्ववस्थायाश्च घट एवेति स एवोत्पद्यते स एव विनश्यति, इति । शब्दस्य हेत्वर्थत्वात् तस्माद्धट एव पिण्डत्वेनोत्पद्यमानः शिबकत्वेन नश्यति तस्मान्नानुत्पत्त्यादिदोषाः, यथा पिण्डत्वेनोत्पद्यमानः शिबकत्वेन घट एव विनश्यति तथा पुनर्घटत्वेन विनश्यन् पटत्वेनोत्पद्यते किमिव ? शिवकत्वेनेव विनश्यंग्छत्रकत्वेन-यथा शिवकत्वानन्तरं छत्रकत्वं जायमानं तदुत्पन्नं विनष्टश्च तथा देशान्तरभावान्तरान्तरितघदविनाशपदसम्भवयोरप्यभेदो वस्तुत्वादिभ्यः, पिण्डशिवकत्व 10 अत्रोच्यते, अयमपरिहारः, उक्तोत्तरत्वात् , अर्थतो हि यदेव शिबकोत्पत्तौ शिबकेनैव विनाश इति तदेवातरोत्पत्तावरेणैव विनाश इत्युक्तं ततोऽयं दोषो बलादापद्यते शिबकेनैवोत्पत्तौ शिबकेनैव विनंष्टव्यमिति, ततोऽभिन्नत्वात् , यथा त्वदुक्तानन्तरघटोत्पादः, एवं त्वनुत्पत्तौ तस्यैवावस्थितस्य नैवोत्पत्तिः, अत्यन्तं भावादन्यत्वात् खपुष्पवत् , अनुत्पन्नस्य च विनाशाभावः खपुष्पवदेव विनाशस्याप्यभावाद्घटादिभवनाभावः, भवनसम्बन्धस्य तव्यतिक्र-15 मस्य चाभावात् सर्वमभूतं नास्तीत्येवमाद्यापद्यते । (अत्रोच्यत इति) अत्रोच्यते अयमपरिहारः, उक्तोत्तरत्वात्-नन्वत्रोक्तमेव प्रागरस्यैव विनाशित्वादिदोषजातम् , तस्य पिण्डशिवकत्वसंज्ञामात्रपृथक्त्वतोक्तिमात्रभेदान्न परिहारो भवति, यस्मादर्थतो यदेव शिवकोत्पत्तौ शिबकेनैव विनाश इति तदेवाङ्करोत्पत्तावरेणैव विनाश इत्युक्तं ततोऽयं इति भावः । तथैव व्याचष्टे-यत्त्वयोक्तमिति उत्पत्तुनिष्ठुश्चामेदेऽनुत्पत्त्यविनाशदोषः उत्पादविनाशयो दे एव सम्भवात् 20 बीजो विनष्टोऽङ्कुर उत्पन्न इति, अनुत्पत्त्यविनाशयोरभ्युपगमे स्ववचनविरोधादयो दोषाः, यदेव तदेवेत्यभेदेनोत्पत्तिविनाशभेदेन .. च निर्देशात् , तथा क्षणिकवादे उत्पादादन्यक्षणत्वाद्विनाशस्य त्वद्वादे यदेव तदेवोक्त्या देशकालादिभेदाभावात् क्षणिकवादातिशयदोषः, अविनष्टानुत्पन्नास्थितत्वाच्चशून्यवादतेतिप्रोक्ता दोषा न सम्भवन्ति शिबकत्वेनोत्पादस्य पिण्डत्वेन विनाशस्याभ्युपगमात् उभयरूपेण घटस्यैवाभिन्नस्याभ्युपगमाच्च यदेवोत्पद्यते तदेव विनश्यतीत्युत्पादविनाशस्थितिव्यवस्थानान कोऽपि दोष इत्याहतत्रानुत्पत्तीति । सजातीयप्रवाहे घटाभेदं दर्शयति-यस्माद्धट इति । विजातीयप्रवाहेऽपि घटाभेदमुपदर्शयति-यथा 25 पिण्डत्वेनेति, पिण्डत्वशिवकत्वछत्रकत्वादयो यथा घटस्यावस्थाः तथैव वस्तुत्वादेवं घटत्वपटत्वकटत्वरथत्वादयोऽपि घट... स्यैवाऽवस्था इति भावः । देशान्तरेति पिण्डत्वशिवकत्वादीनि देशान्तराणि घटत्वपटत्वकटत्वादीनि भावान्तराणि । पूर्वमकरोत्पत्तौ तस्यैव विनाशित्वप्रसङ्गः बीजोच्छूनमूलादिपूर्वभेदानां हि पत्रनालाद्युत्तरभेदानाश्च विनाशावस्थत्वादडर एवैक इत्यङ्कुरोत्पत्त्याऽयमङ्कुर एव विनश्यतीति प्रतिपादितस्य दोषस्यात्रापि समानत्वात्तवायं परिहारोऽपरिहार एवेत्साह-अत्रोच्यत इति । एतदेव सूचयति-नन्धत्रेति, बीजाङ्कुरादिस्थाने केवलमिह पिण्डशिबकत्वादिकं प्रक्षिप्योक्तं, न तु विशेषः कश्चित् प्रति-30 पादित इति भावः। उक्तमेवोत्तरमत्रापि घटयति-यस्मादिति । पिण्डशिबकादीनां घटाभिन्नत्वात् पूर्वोत्तरावस्थानां विनाशा... वस्थत्वात् शिवकस्यैकस्यैव सत्यत्वेन शिबकत्वेनोत्पत्तौ शिबकेनैव विनंष्टव्यं ततोऽभिन्नत्वात् , शिबको हि शिक्कादभिन्नः, तस्मात् १ सि. क. घटस्वे० । २ क.xx1३ सि. क. पृथक्तता उक्ति०। ४ सि. क. यस्मादर्थता।.. द्वा० न० ३५ (७३) wwww ____Jain Education International 2010-04 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350