Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 309
________________ द्वादशारनयचक्रम् ५७६ [विधिनियमविधि: अपि च त्वयैव द्रव्यांशाभ्यां बीजाकुराभ्यां भेद इत्यनेन वचनैनापादितं भेदानां बहुत्वं द्रव्यैकत्वविघाति, किश्चैतदनिष्टपरिहारार्थमुत्थितेन ननु पृथिवीद्रव्यत्वाभेदादित्यादिवचनेन पार्थिवत्वमपि नानवोत्थापितम् , बीजादि भेदकभेदकादन्यत् , भेदकत्वात् , अभेदकमितश्च, अभेदकत्वात् , यथा द्रव्यक्रिये इति । 5 अपि चेत्यादि, त्वयैवाऽऽपादितं भेदानां बहुत्वं द्रव्यैकत्वविघाति, कतमेन वचनेनेति चेत् पार्थिवद्रव्यत्वादुत्पत्तुर्विनंध्रुश्चाभेदो नेतरद्रव्यांशाभ्यां बीजाङ्कुराभ्यां, ताभ्याश्चानेकत्वमित्यनेन बचनेनापादितम् , किश्चान्यत्-इदमप्यन्यदनिष्टं तत्परिहारार्थमुत्थितेन त्वयाऽऽपादितम् , कथं ? यच्चोदितोऽसि बीजाङ्करनानात्वं क्षणिक[वाद]तिशयः शून्यवादता च भवत इति तत्परिहारार्थमुत्थिते[न] ननु पृथिवीद्रव्यत्वाभेदादित्यादिना वचनेन पार्थिवत्वमपि नानवोत्थापितम् , कथमिति ? तदुच्यते-अभेदकं 10 पार्थिवत्वं, बीजादि भेदकं, बीजादिभेदकश्चाभेदकादन्यत् , अभेदकञ्च भेदकात् , भेदकत्वादिति स्वभा वभेदं हेतुत्वेनाह, इतश्व-अस्मादन्यदभेदकत्वादिति, उभयोर्दृष्टान्तो-द्रव्यक्रिये, यथा द्रव्यात् सर्वभेदनिर्भेदादन्या तथाभूतवस्तुतत्त्वव्यक्तिलक्षणा क्रिया क्रियातश्च द्रव्यं तथा च पार्थिवत्वमभेदकत्वाद्वीजादेर्भेदकाद्भिन्नस्वभावं तद्वद्भेदकत्वान्नाना स्यात् क्रियाया इव द्रव्यमिति । आइ15 ननु घट उत्पद्यमान एव शिवकत्वेनोत्पद्यमानः पिण्डत्वेन विनश्यति पूर्वोत्तरकालयोरपि सद्रव्यपृथिवीमृत्त्वाभेदाद्धटाभेदाद्धट एवेति स एवोत्पद्यते स एव विनश्यति, तस्मात् पिण्डत्वेनोत्पद्यमानः शिबकत्वेन नश्यति, तथा पुनर्घटत्वेन विनश्यन् पटत्वेनोत्पद्यते, शिवकत्वेनेव विनश्यंश्छत्रकत्वेनेति ।। परस्परं भेदयाथार्थ्यात् तद्भिन्नायाः पृथिव्या अभावेनाभेदसम्पादकं पृथिवीत्वं सामान्यमेवाभिन्नं सर्वभेदानुगतं संवृत्तं, न तु 20 द्रव्यम् , अतश्च त्वत्पक्षस्य भेदनिर्भेदं द्रव्यमित्यस्य विधात इति भावः । ननु त्वयैवोत्पत्तुरङ्कुरस्य बीजस्य विनंष्टुः पार्थिवद्रव्य त्वेनाभेदे सत्यपि बीजादित्वेन भेदं वदता मेदानां द्रव्यैकत्वविघातक बहुत्वमापादितं न तु मयैवेत्याह-अपि चेति । तदेव वचनं सूचयति-पार्थिवद्रव्यत्वादिति । तथा पार्थिवत्वमपि नानैवेत्यापादितमिति दर्शयति-किश्चान्यदिति बीजाङ्कुरादिनानात्वस्याधुनैवोक्तत्वात् यदेवोत्पद्यते तदेव विनश्यतीत्युक्तेः क्षणिकवादातिशयः, अविनष्टानुत्पन्नास्थितत्वात् शून्यवादातिशयश्च बोध्यः । पृथिवीत्वस्य नानात्वं मानेन समर्थयति-अभेदकमिति, पार्थिवत्वादभेदकात् बीजादेर्भेदकत्वादन्यत्वम्, भेदकाच 25 बीजादेः पार्थिवत्वमभेदकत्वादन्यत् , बीजादि भेदकमभेदकादन्यत्, अत्र माने बीजादेर्भेदकत्वं खभाव एवाभेदकादन्यत्वसाधने हेतुः, अभेदकं पार्थिवत्वं भेदकादन्यत् अत्राप्यभेदकत्वं खभाव एव भेदकादन्यत्वे हेतुः । यथा द्रव्यादन्या क्रिया तथाभूतवस्तुतत्त्वव्यक्तिरूपत्वात् क्रियातश्च द्रव्यमन्यत् सर्वभेदनिर्भेदत्वात् तथाऽत्रापीति दर्शयितुं दृष्टान्तमाह-उभयोरिति, भेदकस्यामेदकादन्यत्वसाधनेऽभेदकस्य च भेदकादन्यत्वसाधने इत्यर्थः । दृष्टान्तं घटयति-यथेति। क्रियाया भिन्नखभावस्य द्रव्यस्य यथा दिभिन्नद्रव्याभावात् तथा पार्थिवत्वमभेदकत्वेऽपि नानैवेति प्रतिभाति. पुनरपि अभेदं साधयितुं वादी शङ्कते30 नन्विति, यथा घटस्य पूर्वोत्तरावस्थाः घटाभिन्नमृत्स्वरूपत्वात् घट एव तासामवस्थानामुत्पादाद्विनाशाच घट एवोत्पद्यते विन श्यति च, तथा पटकटरथादयोऽपि घट एव घटाभिन्नद्रव्याभिन्नत्वात् शिबकादीनामुत्पादविनाशाभ्याञ्च नानुत्पत्त्यविनाशादिदोषा कासित १ सि. क. पार्थिवत्वादेव त्वमुत्पत्तुर्विनष्टुश्च नेतरद्रव्यांशाशाभ्यां । २ सि. क. भेदइत्यादि०।३ सि. क. अभेदकत्वं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350