Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 307
________________ ५७४ द्वादशारनयचक्रम् [ विधिनियमविधिः ) लरहितद्रव्योत्पादादित्वात् - क्रियाशब्दवाच्योऽर्थः क्रियैव वाऽर्थः क्रियाप्रयोजनो वा कालः क्रियार्थकालः स एव ते वैयाकरणस्येष्टः यद्यप्यन्येषामन्यथा, यथोक्तं 'परिमाणवती क्रियैव काल : ' ( इत्यादि, तादृग्विविक्तकालरहितं द्रव्यं क्रियात्मककालविनाभूतं तदेवोत्पादो विनाशोऽवस्थानचे तीष्टत्वात् क्षणिकवादातिशाय्ययं क्षणिकवादस्त्वदीय इति साधूक्तम् । www.www नानित्वादेऽपि तिष्ठत्यनवस्थत्वादुत्पादादीनाम्, किं तर्हि - शून्यवादता वा, अविनष्टानुत्पन्नास्थितत्वात् खपुष्पवत् । ( शून्येति ) शून्यवादता वा, यथा प्रागुक्तं सर्वस्याङ्कुरानुत्पादाविना शवदनस्थानम शून्यतासाधनं गतार्थं यावत् खपुष्पवत् । 5 ननु पृथिवीद्रव्यत्वाभेदात्तदंशवीजाङ्कुरभेदात् तत्कालौ चोत्पादविनाशौ स्त इति न 10 भेदस्याभेदस्य वा व्याघातः, तस्मात्तदेवोत्पद्यते तदेव विनश्यतीत्यत्रोच्यते, एवं तर्हि इदानीं भेद एवापतितस्तवापि, अश्मसिकतामृल्लोष्टवज्रादिभेदे सति पृथिवी नाम न काचिदन्याऽस्ति, किन्तु पृथिवीत्वजातिमात्रमभिन्नं तद्भेदव्यापि तच्च द्रव्यमेकमित्यस्य त्वत्पक्षस्य विघातकम्, बीजस्याङ्कुरस्य च नानात्वं बीजाद्विनश्यतोऽन्याङ्कुरस्योत्पद्यमानत्वात्, विनंष्टुरन्य इव देवदत्ताद्यज्ञदत्त उत्पद्यमानः, तस्मान्न तदेवोत्पद्यते तदेव विनश्यति, ततश्च यथा बीजं व्रीहित्व - 15 सामान्याभेदे सत्यङ्करात् पृथगेवेष्यते तथा पांश्वादित्वमपीति भेदनिर्भेदद्रव्यनिर्मूलनम् । ब्दवाच्य एवार्थः काल इत्याशयेनाह क्रियाशब्दवाच्य इति, अत्र पक्षे षष्ठीतत्पुरुषः वाच्यपर्यायोऽर्थशब्दः । षष्ठयपेक्षया कर्मधारये लाघवादाह-क्रियैष वेति, अर्थशब्दोऽत्र वस्तुपर्यायः । अर्थशब्दस्य प्रयोजनपर्यायत्वमाश्रित्याह-क्रियाप्रयोजन इति, अत्र पक्षे क्रिया अर्थो यस्येति बहुव्रीहिः, अत्र क्रियाया अन्यः पदार्थः काल इति भाति, महाभाष्यकृताऽपि भाष्ये क्रियातिरिक्तः कालोऽभ्युपगतः यदुच्यते ' येन मूर्तीनामुपचयापचयाश्च लक्ष्यन्ते तं कालमित्याहुः, तस्यैव च कयाचित् क्रियया 20 युक्तस्याहरिति च भवति रात्रिरिति च, कया क्रियया ? आदित्यगत्या, तथैवासकृदावृत्तया मास इति भवति संवत्सर इति च भवति' इति । केचिदग्दर्शिनो ज्योतिर्गत्या कालस्यैकत्वेऽपि नानात्वव्यवहारस्येष्टतया सैव कालो भवतु किमतिरिक्तेन कालेनेति वदन्ति यथोक्तं हरिणा 'आदित्यग्रहनक्षत्रपरिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ इति, गोदोहादिक्रियाविशेषश्च परिच्छिन्नपरिमाणत्वादपरेण दिवसादिशब्दवाच्येनादित्यादिगतिप्रचारेण परिच्छिन्नो भवति गोदोहादिरपि अन्यतः प्रसिद्धपरिमाणो देवदत्तादिगतास्त्यादिक्रियाः परिच्छिन्दन् काल इति व्यपदिश्यत इत्येतदभिप्रायेणैवोक्तं 'परिमाणवती 25 क्रियैव काल:' इति । यद्यप्यन्येषामिति सांख्यानुसारिपातञ्जलदर्शने सततपरिणामिषु सत्त्वरजस्तमसां शक्तिमात्रमुद्भवानुद्भवाभ्यामतीतादिकालसमाख्यां' लभते, अन्ये तु भिन्नाः क्रियाः सङ्कलनावुद्ध्याऽनुसंहियमाणाश्चिरक्षिप्रादिव्यपदेशा भवन्ति तथा च बुद्ध्या सङ्कलनं क्रमो वा काल इति वदन्ति, अपरे स्वातंत्र्यशक्तिर्ब्रह्मणः काल इति वदन्ति, यो वा भवतु कालः शाब्दव्यवहारेऽस्मिन्नविद्याकल्पिते भवति भविष्यत्यभूदित्यादिरूपे भिन्नः कालः कश्चिदभ्युपगन्तव्य एवेति बोध्यम् । एवञ्च वस्तुतः कालाभावात् कालात्मकक्रियारहितद्रव्यस्यैवोत्पादाद्यभ्युपगमेन क्षणिकवादातिशाय्यनित्यत्वं तवेति दर्शयति - तादृगिति । न 30 केवलं बीजादीनामनुत्पन्नाविनष्टत्वम्, प्रत्युतानवस्थानादपि शून्यवादे पर्यवसानं भवतीत्याशयेनाह - शून्यवादता वेति । अथ द्रव्यत्वेन रूपेण द्रव्यस्यावयवभूतानां बीजाङ्कुरादीनामभेदः, उत्पादविनाशयोश्च बीजाङ्कुरायभेदादभेदः, अवयवावयविनोश्चाभे• दात् पृथिवीद्रव्यबीजाङ्कुराद्योरभेदः, तत्तदवयवत्वेन च बीजाङ्कुरादीनां परस्परं भेद इति भेदाभेदयोर्वास्तविकत्वात् द्रव्यत्वेन बीजादीनामनुत्पादविनाशित्वस्य सत्यत्वेऽपि तत्तत्सामग्रीसन्निधानकालापेक्षयोत्पादविनाशयोरपि संभव इति न कश्चिद्दोष १ सि. क. कालतः । २. सि. क. परिणामवती. Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350