________________
वदिति।
उत्पाद विनाशामेदः] न्यायागमानुसारिणीव्याख्यासमेतम्
५७७ - मनु घट उत्पद्यमान इत्यादि यावत् पैटत्वेनोत्पद्यत इति, यत्त्वयोक्तं यदेवोत्पद्यते तदेव विनश्यति तत्रानुत्पत्त्यविनाशस्ववचनविरोधादिक्षणिकवादातिशयशून्यवादतादोषा न सम्भवन्ति, प्रत्यक्षवचनादीनां तथात्वात् , यस्माद्बट उत्पद्यमान एव शिवकत्वेनोत्पद्यमानः पिण्डत्वेन विनश्यति, पूर्वोत्तर. कालयोरपि सष्ट्रव्यपृथिवीमृत्त्वामेदाबूटाभेदात् पिण्डावस्थायां शिबकाद्यवस्थायां मृदादियावत्परमाण्ववस्थायां कपालादियावत्परमाण्ववस्थायाश्च घट एवेति स एवोत्पद्यते स एव विनश्यति, इति । शब्दस्य हेत्वर्थत्वात् तस्माद्धट एव पिण्डत्वेनोत्पद्यमानः शिबकत्वेन नश्यति तस्मान्नानुत्पत्त्यादिदोषाः, यथा पिण्डत्वेनोत्पद्यमानः शिबकत्वेन घट एव विनश्यति तथा पुनर्घटत्वेन विनश्यन् पटत्वेनोत्पद्यते किमिव ? शिवकत्वेनेव विनश्यंग्छत्रकत्वेन-यथा शिवकत्वानन्तरं छत्रकत्वं जायमानं तदुत्पन्नं विनष्टश्च तथा देशान्तरभावान्तरान्तरितघदविनाशपदसम्भवयोरप्यभेदो वस्तुत्वादिभ्यः, पिण्डशिवकत्व
10 अत्रोच्यते, अयमपरिहारः, उक्तोत्तरत्वात् , अर्थतो हि यदेव शिबकोत्पत्तौ शिबकेनैव विनाश इति तदेवातरोत्पत्तावरेणैव विनाश इत्युक्तं ततोऽयं दोषो बलादापद्यते शिबकेनैवोत्पत्तौ शिबकेनैव विनंष्टव्यमिति, ततोऽभिन्नत्वात् , यथा त्वदुक्तानन्तरघटोत्पादः, एवं त्वनुत्पत्तौ तस्यैवावस्थितस्य नैवोत्पत्तिः, अत्यन्तं भावादन्यत्वात् खपुष्पवत् , अनुत्पन्नस्य च विनाशाभावः खपुष्पवदेव विनाशस्याप्यभावाद्घटादिभवनाभावः, भवनसम्बन्धस्य तव्यतिक्र-15 मस्य चाभावात् सर्वमभूतं नास्तीत्येवमाद्यापद्यते ।
(अत्रोच्यत इति) अत्रोच्यते अयमपरिहारः, उक्तोत्तरत्वात्-नन्वत्रोक्तमेव प्रागरस्यैव विनाशित्वादिदोषजातम् , तस्य पिण्डशिवकत्वसंज्ञामात्रपृथक्त्वतोक्तिमात्रभेदान्न परिहारो भवति, यस्मादर्थतो यदेव शिवकोत्पत्तौ शिबकेनैव विनाश इति तदेवाङ्करोत्पत्तावरेणैव विनाश इत्युक्तं ततोऽयं इति भावः । तथैव व्याचष्टे-यत्त्वयोक्तमिति उत्पत्तुनिष्ठुश्चामेदेऽनुत्पत्त्यविनाशदोषः उत्पादविनाशयो दे एव सम्भवात् 20 बीजो विनष्टोऽङ्कुर उत्पन्न इति, अनुत्पत्त्यविनाशयोरभ्युपगमे स्ववचनविरोधादयो दोषाः, यदेव तदेवेत्यभेदेनोत्पत्तिविनाशभेदेन .. च निर्देशात् , तथा क्षणिकवादे उत्पादादन्यक्षणत्वाद्विनाशस्य त्वद्वादे यदेव तदेवोक्त्या देशकालादिभेदाभावात् क्षणिकवादातिशयदोषः, अविनष्टानुत्पन्नास्थितत्वाच्चशून्यवादतेतिप्रोक्ता दोषा न सम्भवन्ति शिबकत्वेनोत्पादस्य पिण्डत्वेन विनाशस्याभ्युपगमात् उभयरूपेण घटस्यैवाभिन्नस्याभ्युपगमाच्च यदेवोत्पद्यते तदेव विनश्यतीत्युत्पादविनाशस्थितिव्यवस्थानान कोऽपि दोष इत्याहतत्रानुत्पत्तीति । सजातीयप्रवाहे घटाभेदं दर्शयति-यस्माद्धट इति । विजातीयप्रवाहेऽपि घटाभेदमुपदर्शयति-यथा 25 पिण्डत्वेनेति, पिण्डत्वशिवकत्वछत्रकत्वादयो यथा घटस्यावस्थाः तथैव वस्तुत्वादेवं घटत्वपटत्वकटत्वरथत्वादयोऽपि घट... स्यैवाऽवस्था इति भावः । देशान्तरेति पिण्डत्वशिवकत्वादीनि देशान्तराणि घटत्वपटत्वकटत्वादीनि भावान्तराणि । पूर्वमकरोत्पत्तौ तस्यैव विनाशित्वप्रसङ्गः बीजोच्छूनमूलादिपूर्वभेदानां हि पत्रनालाद्युत्तरभेदानाश्च विनाशावस्थत्वादडर एवैक इत्यङ्कुरोत्पत्त्याऽयमङ्कुर एव विनश्यतीति प्रतिपादितस्य दोषस्यात्रापि समानत्वात्तवायं परिहारोऽपरिहार एवेत्साह-अत्रोच्यत इति । एतदेव सूचयति-नन्धत्रेति, बीजाङ्कुरादिस्थाने केवलमिह पिण्डशिबकत्वादिकं प्रक्षिप्योक्तं, न तु विशेषः कश्चित् प्रति-30 पादित इति भावः। उक्तमेवोत्तरमत्रापि घटयति-यस्मादिति । पिण्डशिबकादीनां घटाभिन्नत्वात् पूर्वोत्तरावस्थानां विनाशा... वस्थत्वात् शिवकस्यैकस्यैव सत्यत्वेन शिबकत्वेनोत्पत्तौ शिबकेनैव विनंष्टव्यं ततोऽभिन्नत्वात् , शिबको हि शिक्कादभिन्नः, तस्मात्
१ सि. क. घटस्वे० । २ क.xx1३ सि. क. पृथक्तता उक्ति०। ४ सि. क. यस्मादर्थता।.. द्वा० न० ३५ (७३)
wwww
____Jain Education International 2010-04
For Private & Personal Use Only
www.jainelibrary.org