________________
५७८
wwwwwwwwww
mmawwm
wwwwww
द्वादशारनयचक्रम्
[विधिनियमविधिः दोषो बलादापद्यते शिबकेनोत्पत्तौ शिबकेनैव विनंष्टव्यमिति, किं कारणं ? ततोऽभिन्नत्वात् , यतो यदमिन्नं तदुत्पत्तौ तेनैव विनंष्टव्यं यथा त्वदुक्तानन्तरघटोत्पाद इति, एवं त्वनुत्पत्तावित्यादि-एवञ्चेदुत्पत्तिर्नेष्यते तस्यैवावस्थितस्य घटस्य नैवोत्पत्तिरस्ति, अत्यन्तं घटाख्याद्भावादन्यत्वात् खपुष्पवत् ,
अनुत्पन्नस्य च विनाशाभावः खपुष्पवदेव, विनाशस्याप्यभावात् घटादिभवनाभावः, अपिशब्दादुत्पउत्तेरप्यभावाद्भूटादीनामुत्पत्तिविनाशशून्यत्वाद्भवनाभावः-अस्तित्वाभावः, उत्पत्तिविनाशौ हि [भवनसम्बन्धतद्व्यतिक्रमौ, ] भवनसम्बन्ध[स्य]तद्व्यतिक्रमस्य चाभावात् सर्वमभूतं नास्तीत्येवमाद्यापद्यते, आदिग्रहणादवस्तुसत् अभावो निरुपाख्यमित्यादि ।
अत्र पुनः परिहार:
अथोच्येतैक्य एव भिन्नयोरप्यभेदः, यथा मृत्कुम्भावस्था, रूपादिशिवकादियुगपद10 युगपद्भाविनियतभवनानि मृद्रव्यभवनस्यैव भवनभागा अभिव्यज्यन्ते तांश्च भवनभागान् क्रियापि व्यनक्ति नान्यथेति यद्यभिन्नस्यैवावस्थाः स्युः को दोष इति ।
अयोच्येतैक्य एवेत्यादि, यथा सत्येवैक्ये मृत्कुम्भावस्थयोः सर्वसर्वात्मकत्वाद्भिन्नयोरप्यभेदः तथा बीजाङ्करादिभेद इत्यभिप्रायः, यथा मृदः कुम्भावस्था, युगपद्भाविनां रूपरसादीनामयुगपद्भाविनाश्च शिवकादीनां नियतानि भवनानि मृद्रव्यस्यैव कर्तृभवनस्य रूपादिशिवकादित्वेन तेन प्रकारेण नियता 16 एव भवनभागीः मायाकारकपताकिकावन्नानियताभिव्यक्तयोऽभिव्यज्यन्ते प्रथमभवनशब्दस्य कर्तृभवनार्थत्वात् , तांश्च भवनभागाने क्रियाऽपि व्यनक्ति नान्यथा, भावशब्दस्य द्वितीयस्य क्रियावाचित्वात् । यद्यभिन्नस्य मृत्कुम्भाद्ययुगपदवस्थाः रूपादिपृथिव्यादियुग[प]त्पत्तिस्थिति[विनाशाः] अभिन्नस्यैवावस्थाः स्युः को दोष इति । तदुत्पत्तौ तेनैव विनंष्टव्यम् , यथोत्पद्यमानघटादनन्यो विनश्यमानो घट इत्याह-शिबकेनेति । उक्तप्रतिज्ञायां हेतुमाह-ततोऽ20 मिन्नत्वादिति उत्पद्यमानशिवकात विनश्यमानशिवकस्याभिन्नत्वादित्यर्थः । दृष्टान्तमाह-यथेति, यथा त्वयोत्पद्यमानघटबिनश्यमानघटयोरभेदोऽभ्युपगम्यते तद्वदिति भावः। शिबकपिण्डादेरेवोत्पादविनाशात् घटस्योत्पादानभ्युपगमे विनाशस्याप्यभावाद्धटस्य भवनं न स्यादित्याह-एवञ्चेदिति।घटाख्यादिति पिण्डशिबकाद्यवस्थावतो घटस्योत्पादानङ्गीकारे शिवकादेरेवाङ्गीकारे उत्पत्तेर्घटाद्भिन्नत्वेन घटस्य उत्पत्तिर्न स्यादिति भावः । एवं घटस्योत्पादाभावे कथं घटत्वेन विनश्यन् पटत्वेनोत्पद्यत इत्युत्पादविनाशाभावाद्धटस्य भवनाभावेनाभूतस्य नास्तित्वं स्यादित्याह-अनुत्पन्नस्य चेति । उत्पादाद्याभावे कथं 25 भवनाभाव इत्यत्राह-उत्पत्तीति भवनसम्बन्धस्यैवोत्पत्तित्वात्तस्यतिक्रमस्य च विनाशत्वादित्यर्थः । आपाद्यान्तरमाह आदिग्रहणादिति । युगपदयुगपद्भाविनो भेदा अभेदपूर्वका एव, अभिन्नस्यैव भेददर्शनात् , न हि धर्मिखरूपव्यतिरेकेण भेदभूतधर्मा भवितुमर्हन्ति, तस्मादैक्य एव भेदसम्भवात् तेषां च भेदानां धर्मरूपत्वादेवाश्रयाभेदत ऐक्यसम्भवः, अत एव सर्वसर्वात्मकतापि, अभेदात्मनि द्रव्ये एव धर्माणां युगपदयुगपद्भाविनामभेदेन निलीनत्वात् मायाकारकपताकिकावच्च अभेदेन नियता एव धमोः क्रिययाऽभिव्यज्यन्त इति नाभूतं नास्तीत्यादिदोषप्रसङ्ग इत्याशङ्कते-अथोच्येतति । तदेव व्याचष्टे30 यथा सत्येवेति, स्थित्यात्मवस्तुसत्येवावस्थानां सम्भवोऽभेदसम्भवश्व, सामान्यस्यैव विशेषीभवनात् विशेषाणाञ्च सामान्याभेदादिति भावः । वस्तुनः सर्वात्मकत्वादेव नियतानामवस्थानां क्रिययाऽऽविभाव इत्याह-यथा मृद इति । ननु भेदा
१ सि. क. सर्वा स० । २४४ सि. । ३ सि. क, यदि मिन्नस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org