________________
५७९
15
wom
व्यक्त्याधनुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम्
अत्रोच्यते नन्वस्माभिरपि नोपपद्यते इत्युक्तमनन्यत्वात् सर्वस्य सर्वात्मकत्वाच्च, त्वयाऽ. भ्युपगतानां स्थित्यादीनां द्रव्यस्वावस्थत्वात् तस्मादविरोधादनन्यत्वमासाम् , अनन्यत्वाच्च पूर्वोत्तराभावात् कः केनाभिभूतो येनैक्यमापोरन् , यत इयमनया क्रिययाऽभिव्यज्यते, नेयमिति च, अविद्यमानपार्थक्यात्, पृथक् सिद्धानां |क्यापत्तिः तन्तुपटवत् , ततः कस्यचिठ्यक्त्यव्यक्ती नोपपद्यते इति कुत उत्पादादिभेदः ।
_(अत्रोच्यत इति) अत्रोच्यते-नन्वस्माभिरपीत्यादि यावत् कुत उत्पादादीति, नन्वस्माभिस्ते एव नोपपद्यते इत्युक्तं, व्यक्त्यव्यक्तीत्यभिसम्बध्यते, तथानियतभवनभागद्रव्यावस्थाया व्यञ्जनमव्यञ्जनश्चेति, कस्मात् ? अनन्यत्वात् सर्वस्य सर्वात्मकत्वाच, तच्चानन्यद्रव्यमेव, तस्य च स्थित्युत्पत्तिविनाशा अनन्ये, किं कारणं ? त्वयाऽभ्युपगतानां स्थित्यादीनां द्रव्यस्वावस्थत्वात्-द्रव्यस्यैव स्वावस्थाः स्थित्यादयः परस्परतोऽनन्य इति हि समाश्रितः त्वयाऽयं पक्षः, परस्परभिन्नस्थित्यादीनां द्रव्यस्वावस्थत्वे 10 सर्वपक्षार्थध्वंसित्वभयात् , तस्माद्रव्यस्वावस्थत्वादविरोधः स्थित्यादीनाम् , न यथा स्वप्नजागरणयोर्विरोधः, तस्माद्रव्यस्वावस्थत्वादविरोधः, अविरोधाचानन्यत्वमासाम् , अनन्यत्वाच्च पूर्वमिदमुत्तरमिदमिति क्रमाभावस्ततः पूर्वोत्तराभावात् कः केनाभिभूतः येनैक्यमापोरन् स्थित्यादयः, यतः-एतस्मादियमनया क्रिययाऽभिव्यज्यतेऽवस्था नेयमिति च, कस्मात् ? अविद्यमानपार्थक्यात् , पृथक् सिद्धानां बैक्यापत्तिः स्यात् सत्यविरोधे, तन्तुपैटवत् , तस्मादभिभवैक्यानापत्तेः पूर्वोत्तराभावाद्रव्यखावस्थत्वे सत्यविरोधाद-15 नन्यत्वात् कस्यचिद्व्यक्त्यव्यक्ती नोपपद्येते, कुतस्तदनुपपत्तेस्तथानियतभवनभागव्यक्त्यव्यक्तिभावाभ्यामुत्पादादिभेद इति तदवस्थो दोषः ।
किश्चान्यत्अपि च लोकप्रतीतव्यक्तिधर्मविपरीतत्वादुत्पादाद्यभाव इति ब्रूमः, लोके हि पूर्वव्य
wwwwww
नामेकान्तेनाभेदो भवतामिष्टः. तथा चोत्पत्तिस्थितिविनाशाः द्रव्यादेकान्तेनाभिन्नास्तत्वरूपा एच, तस्मात् येवोत्पत्तिः स एव 20 विनाशः स्यादित्याद्यापत्तय उक्तास्तदवस्था एवेत्युत्तरयति-अत्रोच्यत इति । यतो यदभिन्नं तदुत्पत्तौ तेनैव विनंष्टव्यं ततोsभिन्नत्वात् , एवं त्वनुत्पत्तौ विनाशाभावेन भवनाभावात् कुम्भादिरूपादीनां व्यक्त्यव्यक्ती न स्यातामित्युक्तं सूचयति-नन्वरमाभिरिति । मृत्कुम्भावस्थयोरेकान्तानन्यत्वात् सर्वेषां सर्वात्मकत्वाच्चेत्यनुपपन्नत्वे हेतू दर्शयति-अनन्यत्वादिति स्थित्युत्पत्तिविनाशानां द्रव्यानन्यत्वात. स्थित्यादीनामपि परस्परतोऽनन्यत्वेन सर्वात्मकत्वाचेति भावः। अन्यथा सर्वसर्वात्मकत्वपक्षमा इत्याह-परस्परेति, अवस्थानां परस्परं भेदमभ्युपेत्य तासामवस्थावदनन्यत्वे इत्यर्थः । ननु स्थित्युत्पत्तिविना-25 शानां भिन्नकालत्वेन विरोधात् कथं परस्परमभेद इत्यत्राह-तस्मादिति द्रव्यखावस्थत्वादित्यर्थः। अवस्थात्वादेव रूपरसादाविवाविरोधादनन्यत्वेनैकत्वात्पूर्वोत्तरकालता नास्ति स्थित्यादीनां विरोधाद्भेदे सति हि खपजागरणयोरिव पूर्वोत्तरकालता भवेत् , उक्तञ्च 'असतश्च क्रमो नास्ति स हि मेत्तुं न शक्यते । सतोऽपि चात्मतत्त्वं यत्तत्तथैवावतिष्ठते ॥' इति, एवञ्च द्रव्यमात्रस्यैकस्यैव वस्तुत्वादस्माद्धेतोरयमिदानीमभिभूतोऽस्माच्चायमिदानीमाविर्भूत इत्यसम्भवेनोत्पादाद्यभावादभूतं नास्तीत्युक्तदोषास्तदवस्था एवेत्याह-अनन्यत्वाञ्चेति । अथानन्यद्रव्यस्य सर्वात्मकत्वमभ्युपेत्य व्यक्त्यव्यक्त्योः सम्भावनयापि व्यजकाभावात्ते न स्याता, 30 लोके हि यत्र यस्य व्यक्तिस्ततो व्यतिरिक्तस्यैव व्यञ्जकत्वं दृश्यते तादृशश्चात्र नास्तीत्याह-अपि चेति । अभ्युपगम्येति
१ सि. क. पीदमित्या० । २ सि. क. व्योव्याविहि । ३ सि. क. तन्तुपटत्ववत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org