________________
द्वादशारनयचक्रम्
[ विधिनियमविधिः
क्तिव्यतिरिक्तो व्यञ्जकः प्रसिद्धो न तु तद्रव्याव्यतिरिक्तः, यदेवोत्पद्यते तदेव विनश्यतीति द्रव्यस्वावस्थाविभागं ब्रुवता त्वया न ततोऽन्यः संयोगः संयोगी वाऽभ्युपगम्यते, क्रियास्वावस्थाद्रव्यभेदनिषेधात्, तदभ्युपगम्य व्यक्तिधर्मस्त्यक्तः, तत्त्यागाच्च व्यक्तिरनुत्तरैव, व्यक्तिकारणाभावात् ।
अपि चेत्यादि, अभ्युपगम्याभिन्नार्थैक्यापत्तिविषये व्यक्तयव्यक्ती लोकप्रतीतव्यक्तिधर्मविपरीतत्वात् उत्पादाद्यभाव इति ब्रूमः, लोके हि पूर्वव्यक्तिव्यतिरिक्तो व्यञ्जनः प्रसिद्धोऽन्यः, उदकाञ्जनदीपादियोगो भूगन्धचक्षुरिन्द्रियशक्त्यभिव्यक्तिघटा दिदर्शनहेतुः यथासंख्यम्, भुजिक्रियासाधनं भूयोगिमूलकादिद्रव्यजातमुपलभ्यते यथा न तथा तद्द्रव्य [[] व्यतिरिक्तम्, यदेवोत्पद्यते तदेव विनश्यतीति द्रव्यस्वस्थाविभागं ब्रुवता त्वया न ततोऽन्यः संयोगः संयोगी वाऽभ्युपगम्यते द्रव्य क्रियापृथग्भूतः, 10 द्रव्यावस्थामात्रत्वादुत्पादादीनाम्, किं कारणं ? क्रियास्वावस्थाद्रव्यभेदनिषेधात् - उत्पादादयः क्रियायाः स्वावस्था इत्येतं पक्षं द्रव्यस्यापि परस्परभिन्नाः सत्योऽवस्था इत्येतच पक्षं यस्मान्निषिद्धवन्तो वयम्, द्रव्यनिर्मूलत्वादिदोषात् तस्मादभ्युपगतं त्वया न किञ्चिद्रव्य [ व्यति] रिक्तमस्तीति, ततश्च तदभ्युपगम्य व्यक्तिधर्मस्त्यक्तः, तद्विपर्ययधर्मणो द्रव्यमात्रस्याभ्युपगमात् तत्त्यागाच्च व्यक्तिरनुत्तरैव, व्यक्तिका - रणाभावात् ।
wwwww
wwwwwwwww
स्यान्मतं निर्हेतुका व्यक्तिरव्यक्तिर्वा द्रव्यधर्मः स्वभाव:, यथोक्तं 'सुदूरमपि संधाय संक्षीणासूपपपत्तिषु । न स्वभावागमावन्ते कश्चिन्न प्रतिपद्यते' ( ) इति, एतच्चायुक्तम्
5
15
६८०
www
व्यक्त्यव्यक्तो अभिन्नार्थैक्यापत्तिविषयिण्यावित्यभ्युपगम्येत्यर्थः । दृष्टान्तमाह- उदकेति, उदकयोगो भूमिगन्धव्यञ्जने, अञ्जनयोगः चक्षुरिन्द्रियशक्त्यभिव्यक्तौ, दीपादियोगो घटादिदर्शने हेतुरित्यर्थः । भुजिक्रियायाः साधनं भूसंयोगि मूलका दिद्रव्यं भुजिक्रियाव्यतिरिक्तमेव लोके दृष्टमिति द्रव्यमात्राभ्युपगन्तुस्तव व्यतिरिक्तव्यञ्जकाभावात् कथमुत्पादादि भवेदित्याह - भुजिक्रियेति, उदकादि20 निदर्शनं संयोगस्य, मूलकादिनिदर्शनं संयोगिनो द्रव्यस्य, एवञ्च व्यङ्ग्यद्रव्याद्व्यतिरिक्त एव लोके व्यञ्जको दृश्यते नाव्यतिरिक्तः, नात्र वित्तथाविधो वर्त्तत इति भावः । तादृशस्य भिन्नस्य कस्यचिदनभ्युपगमादिति दर्शयति यदेवेति, अनेनाभ्युपगमेनोत्पादादयो द्रव्यस्य वावस्था इति प्रकाशितम्, तद्व्यञ्जकञ्च तद्व्यतिरिक्तं किञ्चिन्नाभ्युपगम्यते तथा च कथमुत्पादादय इति भावः । उत्पादादयो द्रव्यस्वावस्था इत्यत्र हेतुमाह-क्रियेति, एतदेव समर्थयति - उत्पादादय इति, प्रारम्भेऽस्मिन्नये उत्पादादयोऽवस्थाः किं द्रव्यस्य, उत क्रियाया वा इति विकल्प्योभयत्रैतन्नयवादिना दोषे आविर्भाविते द्रव्यस्याद्रव्यत्वादिदोषभयात् यदेवोत्पद्यते तदेव 25 विनश्यतीति युगपदयुगपद्भाविपृथिव्यादिमेदा विभागद्रव्यखावस्थत्वमभ्युपगतं भवद्भिरिति द्रव्यव्यतिरिक्तस्याभावे द्रव्याव्यतिरिक्तया क्रियया भेदानां व्यञ्जनं न स्यात्, यदि स्यात्तर्हि लोकप्रसिद्धस्याभिव्यक्तिस्वभावस्य परित्यागः कृतः स्यादिति भावः । तद्विपर्ययेति व्यक्तिधर्मविपर्ययभूतस्याव्यतिरिक्तद्रव्यस्याभ्युपगमादित्यर्थः । तत्त्यागाच्चेति भिन्नस्यैव व्यञ्जकत्वमिति व्यक्तिधर्मस्य त्यागाद्व्यक्तिनैव भवेत्, वस्तुतो द्रव्यभिन्नस्य व्यञ्जनसमर्थस्य कस्यापि कारणस्याभावात् न हि त्वदनभ्युपगममात्रेण homeostatantras यथा भवितुमर्हतीति भावः । अथ सर्वहेतुनिराशंसा भावानां व्यक्तिरव्यक्तिश्चेति द्रव्यखभावः तद्व्यति30 रिक्तस्य कारणस्य बहुधा विचार्यमाणे कस्यापि प्रमाणस्य निरपाय स्थित्यसम्भवादन्ततः स्वभावस्यैव आगमस्यैव वा शरणीकरणीयत्वात् एवमेव स्वभावः एवमेवास्मदीय सर्वद्रष्ट्रागमेन प्रतिपादितमिति स्वभाववादमाशङ्कते - स्यान्मतमिति । स्वमत
Jain Education International 2010_04
wwww
१ सि. क. पूर्ववृत्ति० । २ सि. क. साधनभूयोगिव भूदकादि० । ३ क. XX। ४ सि. क. अनुत्तरमेव । ५ सि.
स्वपप० ।
For Private & Personal Use Only
www.jainelibrary.org